ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - चतुर्थोऽध्यायः

सरस्वतीकवचम् -


नारद उवाच
श्रुतं सर्वमपूर्वं च त्वत्प्रसादात्सुधोपमम् ।
अधुना प्रकृतीनां च व्याप्तं वर्णय भोः प्रभो ॥ १ ॥
कस्याः पूजा कृता केन कथं मर्त्ये प्रकाशिता ।
केन वा पूजिता का वा केन का वा स्तुता मुने ॥ २ ॥
कवचं स्तोत्रकं ध्यानं प्रभावं चरितं शुभम् ।
काभिः काभ्यो वरो दत्तस्तन्मे व्याख्यातुमर्हसि ॥ ३ ॥
नारायण उवाच
गणेशजननी दुर्गा राधा लक्ष्मीः सरस्वती ।
सावित्री च सृष्टिविधौ प्रकृतिः पञ्चधा स्मृता ॥ ४ ॥
आसां पूजा प्रभावश्च प्रसिद्धः परमाद्‌भुतः ।
सुधोपमं च चरितं सर्वमङ्गलकारणम् ॥ ५ ॥
प्रकृत्यंशाः कलायाश्च तासां च चरितं शुभम् ।
सर्वं वक्ष्यामि ते ब्रह्मन्सावधानं निरामय ॥ ६ ॥
वाणी वसुंधरा गङ्गा षष्ठी मङ्गलचण्डिका ।
तुलसी मानसी निद्रा स्वधा स्वाहा च दक्षिणा ।
तेजसा मत्समास्ताश्च रूपेण च गणेन च ॥ ८ ॥
संक्षेपमासां चरितं पुण्यदं श्रुतिसुन्दरम् ।
जीवकर्मविपाकं च तच्च वक्ष्यामि सुन्दरम् ॥ ९ ॥
दुर्गायाश्चैव राधाया विस्तीर्णं चरितं महत् ।
तच्च पश्चात्प्रवक्ष्यामि संक्षेपात्क्रमतः शृणु ॥ १० ॥
आदौ सरस्वतीपूजा श्रीकृष्णेन विनिर्मिता ।
यत्प्रसादान्मुनिश्रेष्ठ मूर्खो भवति पण्डितः ॥ ११ ॥
आविर्भूता यदा देवी वक्त्रतः कृष्णयोषितः ।
इयेष कृष्णं कामेन कामुकी कामरूपिणी ॥ १२ ॥
स च विज्ञाय तद्‌भावं सर्वज्ञः सर्वमातरम् ।
तामुवाच हितं सत्यं परिणामसुखावहम् ॥ १३ ॥
श्रीकृष्ण उवाच
भज नारायणं साध्वि मदंशं च चतुर्भुजम् ।
युवानं सुन्दरं सर्वगुणयुक्तं च मत्समम् ॥ १४ ॥
कामदं कामिनीनां च तासां तं कामपूरकम् ।
कोटिकन्दर्पलावण्यं लीलान्यक्कृतमन्मथनम् ॥ १५ ॥
कान्ते कान्तं च मां कृत्वा यदि स्थातुमिहेच्छसि ।
त्वत्तो बलवती राधा न ते भद्रं भविष्यति ॥ १६ ॥
यो यस्माद्‌बलवान्वाणि ततोऽन्यं रक्षितुं क्षमः ।
कथं परान्साधयति यदि स्वयमनीश्वरः ॥ १७ ॥
सर्वेशः सर्वशास्ताऽहं राधां राधितुमक्षमः ।
तेजसा मत्समा सा च रूपेण च गुणेन च ॥ १८ ॥
प्राणाधिष्ठातृदेवी सा प्राणांस्त्यक्तुं च कः क्षमः ।
प्राणतोऽपि प्रियः कुत्र केषां वाऽस्ति च कश्चन ॥ १९ ॥
त्वं भद्रे गच्छ वैकुण्ठं तव भद्रं भविष्यति ।
पतिं तमीश्वरं कृत्वा मोदस्व सुचिरं सुखम् ॥ २० ॥
विवर्जिता लोभमोहकामकोपेन हिंसया ।
तेजसा त्वत्समा लक्ष्मी रूपेण च गुणेन च ॥ २१ ॥
तया सार्धं तव प्रीत्या सुखं कालः प्रयास्यति ।
गौरवं चापि तत्तुल्यं करिष्यति पतिर्द्वयोः ॥ २२ ॥
प्रतिविश्वेषु ते पूजां महतीं ते मुदाऽन्विताः ।
माघस्य शुक्लपञ्चम्यां विद्यारम्भेषु सुन्दरि ॥ २३ ॥
मानवा मनवो देवा मुनीन्द्राश्च मुमुक्षवः ।
सन्तश्च योगिनः सिद्धाः नागगन्धर्वकिंनराः ॥ २४ ॥
मद्वरेण करिष्यन्ति कल्पे कल्पे यथाविधि ।
भक्तियुक्ताश्च दत्त्वा वै चोपचारांश्च षोडश ॥ २५ ॥
काण्वशाखोक्तविधिना ध्यानेन स्तवनेन च ।
जितेन्द्रियाः संयुताश्च पुस्तकेषु घटेऽपि च ॥ २६ ॥
कृत्वा सुवर्णगुटिकां गन्धचन्दनचर्चिताम् ।
कवचं ते ग्रहीष्यन्ति कण्ठे वा दक्षिणे भुजे ॥ २७ ॥
पठिष्यन्ति च विद्वांसः पूजाकाले च पूजिते ।
इत्युक्त्वा पूजयामास तां देवीं सर्वपूजितः ॥ २८ ॥
ततस्तत्पूजनं चक्रुर्ब्रह्मविष्णुमहेश्वराः ।
अनन्तश्चापि धर्मश्च मुनीन्द्राः सनकादयः ॥ २९ ॥
सर्वे देवाश्च मनवो नृपा वा मानवादयः ।
बभूव पूजिता नित्या सर्वलोकैः सरस्वती ॥ ३० ॥
नारद उवाच
पूजाविधानं स्तवनं ध्यानं कवचमीप्सितम् ।
पूजोपयुक्तं नैवेद्यं पुष्पं वा चन्दनादिकम् ॥ ३१ ॥
वद वेदविदां श्रेष्ठ श्रोतुं कौतूहलं मम ।
वर्धते सांप्रतं शश्वत्किमिदं श्रुतिसुन्दरम् ॥ ३२ ॥
नारायण उवाच
शृणु नारद वक्ष्यामि काण्वशाखोक्तपद्धतिम् ।
जगन्मातुः सरस्वत्याः पूजाविधिसमन्विताम् ॥ ३३ ॥
माघस्य शुक्लपञ्चम्यां विद्यारम्भदिनेऽपि च ।
पूर्वेऽह्नि संयमं कृत्वा तत्र स्यात्संयतः शुचिः ॥ ३४ ॥
स्नात्वा नित्यक्रियां कृत्वा घटं संस्थाप्य भक्तितः ।
संपूज्य देवषट्कं च नैवेद्यादिभिरेव च ॥ ३५ ॥
गणेशं च दिनेशं च वह्नि विष्णुं शिवं शिवाम् ।
संपूज्य संयतोऽग्रे च ततोऽभीष्टं प्रपूजयेत् ॥ ३६ ॥
ध्यानेन वक्ष्यमाणेन ध्यात्वा बाह्यघटे बुधः ।
ध्यात्वा पुनः षोडशोपचारैस्तां पूजयेद्‌व्रती ॥ ३७ ॥
पूजोपयुक्तं नैवेद्यं यद्यद्वेदे निरूपितम् ।
वक्ष्यामि सांप्रतं किंचिद्यथाधीतं यथागमम् ॥ ३८ ॥
नवनीतं दधिं क्षीरं लाजांश्च तिललड्डुकान् ।
इक्षुमिक्षुरसं शुक्लवर्णं पक्वगुडं मधु ॥ ३९ ॥
स्वस्तिकं शर्करां शुक्लधान्यस्याक्षतमक्षतम् ।
अस्विन्नशुक्लधान्यस्य पृथुकं शुक्लमोदकम् ॥ ४० ॥
घृतसैन्धवसंस्कारैर्हविष्यैर्व्यञ्जनैस्तथा ।
यवगोधूमचूर्णानां पिष्टकं घृतसंस्कृतम् ॥ ४१ ॥
पिष्टकं स्वतिकस्यापि पक्वरम्भाफलस्य च ।
परमान्नं च सघृतं मिष्टान्नं च सुधोपमम् ॥ ४२ ॥
नारिकेलं तदुदकं केशरं मूलमार्द्रकम् ।
पक्वरम्भाफलं चारु श्रीफलं बदरीफलम् ॥ ४३ ॥
कालदेशोद्‌भव पक्वफलं शुक्लं सुसंस्कृतम् ।
सुगन्धि शुक्लपुष्पं च गन्धाढ्यं शुक्लचन्दनम् ॥ ४४ ॥
नवीनं शुक्लवस्त्रं च शङ्‍खं च सुमनोहरम् ।
माल्यं च शुक्लपुष्पाणां मुक्ताहीरादिभूषणम् ॥ ४५ ॥
यद्‌दृष्टं च श्रुतौ ध्यानं प्रशस्तं श्रुतिसुन्दरम् ।
तन्निबोध महाभाग भ्रमभञ्जनकारणम् ॥ ४६ ॥
सरस्वतीं शुक्लवर्णां सस्मितां सुमनोहराम् ।
कोटिचन्द्रप्रभाजुष्टपुष्टश्रीयुक्तविग्रहाम् ॥ ४७ ॥
वह्निशुद्धांशुकाधानां सस्मितां सुमनोहराम् ।
रत्‍नसारेन्द्रखचितवरभूषणभूषिताम ॥ ४८ ॥
सुपूजितां सुरगणैर्ब्रह्मविष्णुशिवादिभिः ।
वन्दे भक्त्या वन्दिता तां मुनीन्द्रमनुमानवैः ॥ ४९ ॥
एवं ध्यात्वा च मूलेन सर्वं दत्त्वा विचक्षणः ।
संस्तूय कवचं धृत्वा प्रणमेद्‌दण्डवद्‌भुवि ॥ ५० ॥
येषां स्यादिष्टदेवीयं तेषां नित्यं शुभं मुने ।
विद्यारम्भे च सर्वेषां वर्षान्ते पञ्चमीदिने ॥ ५१ ॥
सर्वोपयुक्तमूलं च वैदिकाष्टाक्षरः परः ।
येषां यदुपदेशो वा तेषां तन्मूलमेव च
सरस्वतीचतुर्थ्यन्तो वह्निजायान्त एव च ॥ ५२ ॥
श्रीं ह्रीं सरस्वत्यै स्वाहा ।
लक्ष्मीमायादिकं चैव मन्त्रोऽयं कल्पपादपः ॥ ५३ ॥
पुरा नारायणश्चेमं वाल्मिकाय कृपानिधिः ।
प्रददौ जाह्नवीतीरे पुण्यक्षेत्रे च भारते ॥ ५४ ॥
भृगुर्ददौ च शुक्राय पुष्करे सूर्यपर्वणि ।
चन्द्रपर्वणि मारीचो ददौ वाक्पतये मुदा ॥ ५५ ॥
भृगवे च ददौ तुष्टो ब्रह्मा बदरिकाश्रमे ।
आस्तीकाय जरत्कारुर्ददौ क्षीरोदसंन्निधौ ॥
विभाण्डक ददौ मेरौ ऋष्यशृङ्गाय धीमते ॥ ५६ ॥
शिवः कणादमुनये गौतमाय ददौ मुने ।
सूर्यश्च याज्ञवल्क्याय तथा कात्यायनाय च ॥ ५७ ॥
शेषः पाणिनये चैव भरद्वाजाय धीमते ।
ददौ शाकटायनाय सुतले बलिसंसदि ॥ ५८ ॥
चतुर्लक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् ।
यदि स्यात्सिद्धमन्त्रो हि बृहस्पतिसमो भवेत् ॥ ५९ ॥
कवचं शृणु विप्रेन्द्र यद्‌दत्तं विधिना पुरा ।
विश्वश्रेष्ठं विश्वजयं भृगवे गन्धमादने ॥ ६० ॥
भृगुरुवाच
ब्रह्मन्ब्रह्मविदां श्रेष्ठ ब्रह्मज्ञानविशारद ।
सर्वज्ञ सर्वजनक सर्वपूजकपूजित ॥ ६१ ॥
सरस्वत्याश्च कवचं ब्रूहि विश्वजयं प्रभो ।
अयातयाममन्त्राणां समूहो यत्र संयुतः ॥ ६२ ॥
ब्रह्मोवाच
शृणु वत्स प्रवक्ष्यामि कवचं सर्वकामदम् ।
श्रुतिसारं श्रुतिसुखं श्रुत्युक्तं श्रुतिपूजितम् ॥ ६३ ॥
उक्तं कृष्णेन गोलोके मह्यं वृन्दावने वने ।
रासेश्वरेण विभुना रासे वै रासमण्डले ॥ ६४ ॥
अतीव गोपनीयं च कल्पवृक्षसमं परम् ।
अश्रुताद्‌भुतमन्त्राणां समूहैश्च समन्वितम् ॥ ६५ ॥
यद्‍धृत्वा पठनाद्‌ब्रह्मन्बुद्धिमांश्च बृहस्पतिः ।
यद्धृत्वा भगवाञ्छुक्रः सर्वदैत्येषु पूजितः ॥ ६६ ॥
पठनाद्धारणाद्वाग्मी कवीन्द्रो वाल्मिको मुनिः ।
स्वायंभुवो मनुश्चैव यद्धृत्वा सर्वपूजितः ॥ ६७ ॥
कणादौ गौतमः कण्वः पाणिनिः शाकटायनः ।
ग्रन्थं चकार यद्धृत्वा दक्षः कात्यायनः स्वयम् ॥ ६८ ॥
धृत्वा वेदविभागं च पुराणान्यखिलानि च ।
चकार लीलामात्रेण कृष्णद्वैपायनः स्वयम् ॥ ६९ ॥
शातातपश्च संवर्तो वशिष्ठश्च पराशरः ।
यद्धृत्वा पठनाद्‌ग्रन्थं याज्ञवल्क्यश्चकार सः ॥ ७० ॥
ऋष्यशृङ्गो भरद्वाजश्चाऽऽस्तीको देवलस्तथा ।
जैगीषव्योऽथ जाबालिर्यद्धृत्वा सर्वपूजितः ॥ ७१ ॥
कवचस्यास्य विप्रेन्द्र ऋषिरेष प्रजापतिः ।
स्वयं बृहस्पतिश्छन्दो देवो रासेश्वरः प्रभुः ॥ ७२ ॥
सर्वतत्त्वपरिज्ञाने सर्वार्थेऽपि च साधने ।
कवितासु च सर्वासु विनियोगः प्रकीर्तितः ॥ ७३ ॥
ॐ ह्रीं सरस्वत्यै स्वाहा शिरो मे पातु सर्वतः ।
श्रीं वाग्देवतायै स्वाहाभालं मे सर्वदाऽवतु ॥ ७४ ॥ ।
ॐ सरस्वत्यै स्वाहेति श्रोत्रं पातु निरन्तरम् ।
ॐ श्रीं ह्रीं भारत्यै स्वाहा नेत्रयुग्मं सदाऽवतु ॥ ७५ ॥
ॐ ह्रीं वाग्वादिन्यै स्वाहा नासां मे सर्वतोऽवतु ।
ह्रीं विद्याधिष्ठातृदेव्यै स्वाहा श्रोत्रसदाऽवतु ॥ ७६ ॥
ॐ श्रीं ह्रीं ब्राह्म्यै स्वाहेति दन्तपङ्क्ती सदाऽवतु ।
ऐमित्येकाक्षरो मन्त्रो मम कण्ठं सदाऽवतु ॥ ७७ ॥
ॐ श्रीं ह्रीं पातु मे ग्रीवां स्कन्धं मे श्रीं सदाऽवतु ।
श्रीं विद्याधिष्ठातृदेव्यै स्वाहा वक्षः सदाऽवतु ॥ ७८ ॥
ॐ ह्रीं विद्यास्वरूपायै स्वाहा मे पातु नाभिकाम् ।
ॐ ह्रीं क्लीं वाण्यै स्वाहेति मम पृष्ठं सदाऽवतु ॥ ७९ ॥
ॐ सर्ववर्णात्मिकायै पादयुग्मं सदाऽवतु ।
ॐ वागधिष्ठातृदेव्यै सर्वाङ्गं मे सदाऽवतु ॥ ८० ॥
ॐ सर्वकण्ठवासिन्यै स्वाहा प्राच्यां सदाऽवतु ।
ॐ ह्रीं जिह्वाग्रवासिन्यै स्वाहाऽग्निदिशि रक्षतु ॥ ८१ ॥
ॐ ऐं श्रीं ह्रीं सरस्वत्यै बुधजनन्यै स्वाहा ।
सततं मन्त्रराजोऽयं दक्षिणे मां सदाऽवतु ॥ ८२ ॥
ॐ ह्रीं श्रीं त्र्यक्षरो मन्त्रो नैर्ऋत्यां मे सदाऽवतु ।
कविजिह्वाग्रवासिन्यै स्वाहा मां वारुणेऽवतु ॥ ८३ ॥
ॐ सदम्बिकायै स्वाहा वायव्यै मां सदाऽवतु ।
ॐ गद्यपद्यवासिन्यै स्वाहा मामुत्तरेऽवतु ॥ ८४ ॥
ॐ सर्वशास्त्रवासिन्यै स्वाहैशान्यां सदाऽवतु ।
ॐ ह्रीं सर्वपूजितायै स्वाहा चोर्ध्वं सदाऽवतु ॥ ८५ ॥
ऐं ह्रीं पुस्तकवासिन्यै स्वाहाऽधो मां सदाऽवतु ।
ॐ ग्रन्थबीजरूपायै स्वाहा मां सर्वतोऽवतु ॥ ८६ ॥
इति ते कथितं विप्र सर्वमन्त्रौघविग्रहम् ।
इदं विश्वजयं नाम कवचं ब्रह्मरूपकम् ॥ ८७ ॥
पुरा श्रुतं धर्मवक्त्रात्पर्वते गन्धमादने ।
तव स्रेहान्मयाऽऽख्यातं प्रवक्तव्यं न कस्यचित् ॥ ८८ ॥
गुरुमभ्यर्च्य विधिवद्वस्त्रालंकारचन्दनैः ।
प्रणम्य दण्डवद्‌भूमौ कवचं धारयेत्सुधीः ॥ ८९ ॥
पञ्चलक्षजपेनैव सिद्धं तु कवचं भवेत् ।
यदि स्यात्‌सिद्धकवचो बृहस्पतिसमो भवेत् ॥ ९० ॥
महावाग्मी कवीन्द्रश्च त्रैलोक्यविजयी भवेत् ।
शक्नोति सर्वं जेतुं स कवचस्य प्रभावतः ॥ ९१ ॥
इदं ते काण्वशाखोक्तं कथितं कवचं मुने ।
स्तोत्रं पूजाविधानं च ध्यानं वै वन्दनं तथा ॥ ९२ ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे नारदनारायणसंवादे
सरस्वतीकवचं नाम चतुर्थोऽध्यायः ॥ ४ ॥


GO TOP