ब्रह्मवैवर्तपुराणम्

प्रथमं ब्रह्मखण्डम् - विंशोऽध्यायः

उपबर्हणजन्मकथनम् -


सौतिरुवाच
मुदा मालावतीसार्धं गन्धर्वश्चोपबर्हणः ।
रेमे कालावशेषं च ताभिश्च निर्जने वने ॥ १॥
गन्धर्वराजो मुमुदे पुत्रदारादिभिः सह ।
नानाविधं क्रतुवरं महत्पुण्यं चकार ह ॥२॥
राजत्वं बुभुजे राजा कुबेरभवनोपमे ।
रेमे सुशीलया सार्धं स्थिरयौवनयुक्तया ॥३॥
गन्धर्वराजः काले च गङ्गातीरे मनोहरे ।
पत्‍न्या सार्धमसूंस्त्यक्त्वावैकुण्ठ च ययौ मुदा ॥४॥
शैवः शिवप्रसादेन पुत्रस्य विष्णुसेवया ।
बभूव दासो वैकुण्ठे विष्णोः श्यामचतुर्भुजः ॥५॥
कृत्वा पित्रोश्च सत्कारं गन्धर्वश्चोपबर्हणः ।
ब्राह्मणेभ्यो ददौ विप्र धनानि विविधानि च ॥६॥
काले स्वयं ब्रह्मशापात्प्राणांस्त्यक्त्वा विचक्षणः ।
स जज्ञे वृषलीगर्भे ब्रह्मबीजेन शौनक ॥७॥
मालावती वह्निकुण्डे पुष्करे भारते भुवि ।
कृत्वा तु वाञ्छितं कामं प्राणांस्तत्याज सा सती ॥८॥
सृञ्जयस्य तु पत्‍न्यां च मनुवंशोद्‌भवस्य च ।
जज्ञे नृपस्य साध्वीसा पुण्या जातिस्मरा वरा ॥९॥
उपबर्हणगन्धर्वः पतिर्मे भवितेति च ।
इतिकामा कामुकी सा सुन्दरी सुन्दरीवरा ॥ १०॥
शौनक उवाच
ब्रह्मवीर्याच्छूद्रपत्‍न्या गन्धर्वश्चोपबर्हणः ।
जातः केन प्रकारेण तद्‌भवान्वक्तुमर्हति ॥ ११॥
सौतिरुवाच
कान्यकुब्जे च देशे च द्रुमिलो नाम राजकः ।
कलावती तस्य पत्‍नी वन्ध्या चापि पतिव्रता ॥ १२॥
स्वामिदोषेण सा वन्ध्या काले च भर्तुराज्ञया ।
उपतस्थे वने घोरे नारदं काश्यपं मुनिम् ॥ १३॥
ध्यायमानं च श्रीकृष्णं ज्वलन्तं ब्रह्मतेजसा ।
तस्थौ सुवेशं कृत्वा सा ध्यानान्तं च मुनेः पुरः ॥ १४॥
ग्रीष्ममध्याह्नमार्तण्डप्रभातुल्येन तेजसा ।
तपन्तं दूरतोऽप्येवं समीपं गन्तुमक्षमा ॥ १५॥
ध्यानान्ते च मुनिश्रेष्ठः परं कृष्णपरायणः ।
ददर्श पुरतो दूरे सुन्दरीं स्थिरयौवनाम् ॥१६॥
चारुचम्पकवर्णाभां शरत्पङ्कजलोचनाम् ।
शरत्पार्वणचन्द्रास्यां रत्‍नभूषणभूषिताम् ॥ १७॥
बृहन्नितम्बभारार्तां पीनश्रोणिपयोधराम् ।
शोभितां पीतवस्त्रेण सस्मितां रक्तलोचनाम् ॥ १८॥
मोहितां मुनिरूपेण कामबाणप्रपीडिताम् ।
दर्शयन्ती स्तनश्रोणिं मैथुनासक्तचेतसा ॥ १९॥
सिंदूरबिन्दुभूषाढ्यां सुचारुकज्जलोज्ज्वलाम् ।
पादालक्तकशोभाढ्यां रूपेणैव यथोर्वशीम् ॥२०॥
मुनिः पप्रच्छ दृष्ट्वा तां का त्वं कामिनि निर्जने ।
कस्य पत्‍नी कथं वाऽत्र सत्यं ब्रूहि च पुंश्चलि ॥२१॥
मुनेश्च वचनं श्रुत्वा कम्पिता च कलावती ।
उवाच विनयेनैव कृत्वा च श्रीहरिं हृदि ॥२२॥
कलावत्युवाच
गोपिकाऽहं द्विजश्रेष्ठ द्रुमिलस्य च कामिनी ।
पुत्रार्थिनी चाऽऽगताऽहं त्वन्मूलं भर्तुराज्ञया ॥२३॥
वीर्याधानं कुरु मयि स्त्री नोपेक्ष्या ह्युपस्थिता ।
तेजीयसां न दोषाय वह्नेः सर्वभुजो यथा ॥२४॥
वृषलीवचनं श्रुत्वा चुकोप मुनिसत्तमः ।
उवाच नित्यं सत्यं च कोपप्रस्फुरिताधरः ॥२५॥
काश्यप उवाच
यः स्वलक्ष्मीं च भोगार्हां पराय दातुमिच्छति ।
तं सा त्यजति मूढं च वेदवाद इति ध्रुवम् ॥२६॥
न त्वं द्रुमिलभोगार्हा पुनरेव भविष्यसि ।
विरक्तेन स्वयं त्यक्ता न गृह्णाति च त्वां पुनः ॥२७॥
यः शूद्रपत्‍नीं गृह्णाति ब्राह्मणो ज्ञानदुर्बलः ।
स चाण्डालो भवेत्सत्यं न कर्मार्हो द्विजातिषु ॥२८॥
पितृश्राद्धे च यज्ञे च शिलास्पर्शे सुरार्चने ।
नाधिकारश्च तस्यैवमित्याह कमलोद्‌भवः ॥२९॥
कुम्भीपाकं स्वयं याति पातयित्वा च पूरुषान् ।
मातामहान्स्वात्मनश्च दश पूर्वान्दशापरान् ॥३०॥
तत्तर्पणं मूत्रमेव पिण्डः सद्यः पुरीषकम् ।
शालग्रामस्य तत्स्पर्शे चोपवासस्त्रिरात्रकम् ॥३१॥
तदिष्टदेवो गृह्णाति न नैवेद्यं न तज्जलम् ।
संन्यासिनां ब्राह्मणानां तदन्नं च पुरीषवत् ॥३२॥
कुम्भीपाके पच्यते स शक्रान्तं यावदेव हि ।
एकविंशतिपुरुषैः सार्धं सत्यं च पुंश्चलि ॥३३॥
पत्रोच्छिष्टं च यो भुङ्क्ते शूद्राणां ब्राह्मणाधमः ।
तत्तुल्योऽधरभोजी चैवेत्याङ्गिःरसभाषितम् ॥३४॥
शूद्रो वा यदि गृह्णाति ब्राह्मणीं ज्ञानदुर्बलः ।
स पच्यते कालसूत्रे यावदिन्द्राश्चतुर्दश ॥३५॥
अष्टादशेन्द्रावच्छिन्नं कालं च कालसूत्रके ।
ब्राह्मणी पच्यते तत्र भक्षिता क्रिमिभिर्ध्रुवम् ॥३६॥
ततश्चाण्डालयोनौ च लब्ध्या जन्म च ब्राह्मणी ।
शूद्रश्च कुष्ठी भवति ज्ञातिभिः परिवर्जितः ॥३७॥
इत्युक्त्वा च मुनिश्रेष्ठो विरराम च शौनक ।
वृषली तत्पुरस्तस्थौ शुष्ककण्ठौष्ठतालुका ॥३८॥
एतस्मिन्नन्तरे तेन पथा याति च मेनका ।
तस्या ऊरुं स्तनं दृष्ट्वा मुनेर्वीर्यं पपात ह ॥३९॥
ऋतुस्नाता च वृषली कृत्वा तद्‌भक्षणं मुदा ।
मुनिं प्रणम्य सा हृष्टा प्रययौ भर्तुरन्तिकम् ॥४०॥
गत्वा प्रणम्य द्रुमिलं कान्ता कान्तं मनोहरम् ।
सर्वं निवेदयामास वृत्तान्तं गर्भहेतुकम् ॥४१॥
कलावतीवचः श्रुत्वा प्रहृष्टवदनेक्षणः ।
उवाच कान्ता मधुरं परिणामसुखावहम् ॥४२॥
द्रुमिल उवाच
विप्रस्य वीर्यं त्वद्‌गर्भे वैष्णवस्य महात्मनः ।
वैष्णवो भविता बालस्त्वं च भाग्यवती सती ॥४३॥
यद्‌गर्भे वैष्णवो जातो यस्य वीर्येण वा सति ।
तयोर्याति च वैकुण्ठं पुरुषाणां शतं शतम् ॥४४॥
तौ च विष्णुविमानेन सद्‌रत्‍ननिर्मितेन च ।
यातौ वैकुण्ठनगरं जन्ममृत्युजराहरम् ॥४५॥
कस्यचिद्‌ब्राह्मणस्यैव गेहं गच्छ शुभानने ।
पश्चान्ममान्तिकं भद्रे यास्यसीति हरेः पुरम् ॥४६॥
इत्युक्त्वा गोपराजश्च स्नात्वा कृत्वा तु तर्पणम् ।
संपूज्याभीष्टदेवं च ब्राह्मणेभ्यो धनं ददौ ॥४७॥
अश्वानां च चतुर्लक्षं गजानां लक्षमेव च ।
शतं मत्तगजेन्द्राणां ब्राह्मणेभ्यो ददौ मुदा ॥४८॥
उच्चैःश्रवःपञ्चलक्षं रथानां च सहस्रकम् ।
शकटानां त्रिलक्षं च ब्राह्मणेभ्यो ददौ मुदा ॥४९॥
गवां द्वादशलक्षं च महिषाणां त्रिलक्षकम् ।
त्रिलक्षं राजहंसानां ब्राह्मणेभ्यो ददौ मुदा ॥५०॥
पारावतानां लक्षं च शुकानां च शतं मुने ।
लक्षं च दासदासीनां ब्राह्मणेभ्यो ददौ मुदा ॥५१॥
ग्रामाणां च सहस्रं च नगराणां शतं शतम् ।
धान्यतण्डुलशैलं च ब्राह्मणेभ्यो ददौ मुदा ॥५२॥
शतकोटिं सुवर्णानां रत्‍नानां च सहस्रकम् ।
मुद्राणां कोटिकलशं ब्राह्मणेभ्यो ददौ मुदा ॥५३॥
ददौ तैजसपात्राणां भूषणानामसंख्यकम् ।
ता स्त्रियं रत्‍नभूषाढ्यां ब्राह्मणेभ्यो ददौ मुदा ॥५४॥
राज्यं दत्त्वा महाराजोऽप्यन्तर्बाह्ये हरिं स्मरन् ।
जगाम बदरीं गोपो मनोगामी मुदाऽन्वितः ॥५५॥
तत्र मासं तपः कृत्वा गङ्गातीरे मनोहरे ।
प्राणांस्तत्याज योगेन सद्यो दृष्टो महर्षिभिः ॥५६॥
स च विष्णुविमानेन रत्‍नेन्द्रनिर्मितेन च ।
संयुक्तो विष्णुदूतैश्च वैकुण्ठं च जगाम ह ॥५७॥
तत्र प्राप्य हरेर्दास्यं हरिदासो बभूव सः ।
वृत्तान्तं च कलावत्याः श्रूयतामिति शौनक ॥५८॥
गते कलावती नाथे उच्चैश्च प्ररुरोद ह ।
वह्नौ प्राणांस्त्यक्तुकामा ब्राह्मणेनैव रक्षिता ॥५९॥
ब्राह्मणो मातरित्युक्त्वा तां गृहीत्वा मुदाऽन्वितः ।
जगाम रत्‍नपूर्णं च स्वगेहं च क्षणेन च ॥६०॥
सा विप्रगेहे साध्वी च सुषाव तनयं वरम् ।
तप्तकाञ्चनवर्णाभं ज्वलन्तं ब्रह्मतेजसा ॥६१॥
तत्रस्था योषितः सर्वा ददृशुर्बालकं शुभम् ।
ग्रीष्ममध्याह्नमार्तण्डजितं तं ब्रह्मतेजसा ॥६२॥
कामदेवाधिकं रूपे चन्द्राधिकशुभाननम् ।
शरत्पार्वणचन्द्रास्यं शरत्पङ्कजलोचनम् ॥६३॥
हस्तपादादिललितं सुकपोलं मनोहरम् ।
पद्मचक्राङ्कितं पादपद्मं वाऽतुलमुज्ज्वलम् ॥६४॥
करयुग्मं वाऽतुलं च रुदन्तं च स्तनार्थिनम् ।
योषितो बालकं दृष्ट्वा प्रययुः स्वाश्रमं मुदा ॥६५॥
पुत्रदारयुतो विप्रः प्रहृष्टश्च ननर्त ह ।
स बालो ववृधे तत्र शुक्लपक्षे यथा शशी ॥६६॥
पुपोष ब्राह्मणस्तां च सपुत्रां च यथा सुताम् ॥६७॥
इति श्रीब्रह्मवैवर्ते महापुराणे सौतिशौनकसंवादे ब्रह्मखण्डे
उपबर्हणजन्मकथनं नाम विंशोऽध्यायः ॥२०॥


GO TOP