ब्रह्मवैवर्तपुराणम्

प्रथमं ब्रह्मखण्डम् - एकोनविंशोऽध्यायः

विष्णुशंकरस्तोत्रकथनम् -


सौतिरुवाच
मालावती धनं दत्त्वा ब्राह्मणेभ्यः प्रहर्षिता ।
चकार विविधं वेशं स्वात्मनः स्वामिनः कृते ॥ १॥
भर्तुश्चकार शुश्रूषां पूजां च समयोचिताम् ।
तेन सार्धं सुरसिका रेमे सा सुचिरं मुदा ॥२॥
महापुरुषस्तोत्रं च पूजां च कवचं मनुम् ।
विस्मृतं बोधयामास स्वयं रहसि सुव्रता ॥३॥
पुरा दत्तं वसिष्ठेन स्तोत्रपूजादिकं हरेः ।
गन्धर्वाय च मालत्यै मन्त्रमेकं च पुष्करे ॥४॥
विस्मृतं स्तोत्रकवचं वसिष्ठश्च कृपानिधिः ।
गन्धर्वराजं रहसि बोधयामास शूलिनः ॥५॥
एवं चकार राज्यं च कुबेरभवनोपमे ।
आश्रमे परमानन्दो गन्धर्वो बान्धवैः सह ॥६॥
यथातथागताभिश्च स्त्रीभिरन्याभिरेव च ।
आगत्य ताभिः स्वस्वामी संप्राप्तः परया मुदा ॥७॥
शौनक उवाच
किं स्तोत्रं कवचं विष्णोर्मन्त्रपूजाविधिः पुरा ।
दत्तो विशिष्टस्ताभ्यां च तं भवान्वक्तुमर्हति ॥८॥
द्वादशाक्षरमन्त्रं च शूलिनः कवचादिकम् ।
दत्तं गन्धर्वराजाय वसिष्ठेन च किं पुरा ॥९॥
तदपि ब्रूहि हे सौते श्रोतुं कौतूहलं मम ।
शंकरस्तोत्रकवचं मन्त्रं दुर्गतिनाशनम् ॥१०॥
सौतिरुवाच
तुष्टाव येन स्तोत्रेण मालती परमेश्वरम् ।
तदेव स्तोत्रं दत्तं च मन्त्रं च कवचं शृणु ॥११॥
ॐ नमो भगवते रासमण्डलेशाय स्वाहा ।
इदं मन्त्रं कल्पतरुं प्रददौ षोडशाक्षरम् ॥१२॥
पुरा दत्तं कुमाराय ब्रह्मणा पुष्करे हरेः ।
पुरा दत्तं च कृष्णेन गोलोके शंकराय च ॥ १३॥
ध्यानं च विष्णोर्वेदोक्तं शाश्वतं सर्वदुर्लभम् ।
मूलेन सर्वं देयं च नैवेद्यादिकमुत्तमम् ॥१४॥
अतीव गुप्तकवचं पितुर्वक्त्रान्मया श्रुतम् ।
पित्रे दत्तं पुरा विप्र गङ्गायां शूलिना ध्रुवम् ॥१५॥
शूलिने ब्रह्मणा दत्तं गोलोके रासमण्डले ।
धर्माय गोपीकान्तेन कृपया परमाद्‌भुतम् ॥ १६॥
ब्रह्मोवाच
राधाकान्त महाभाग कवचं यत्प्रकाशितम् ।
ब्रह्माण्डपावनं नाम कृपया कथय प्रभो ॥१७॥
मां महेशं च धर्मं च भक्तं च भक्तवत्सल ।
त्वत्प्रसादेन पुत्रेभ्यो दास्यामि भक्तिसंयुतः ॥१८॥
श्रीकृष्ण उवाच
शृणु वक्ष्यामि ब्रह्मेश धर्मेदं कवचं परम् ।
अहं दास्यामि युष्मभ्यं गोपनीयं सुदुर्लभम् ॥१९॥
यस्मै कस्मै न दातव्यं प्राणतुल्यं ममैव हि ।
यत्तेजो मम देहेऽस्ति तत्तेजः कवचेऽपि च ॥२०॥
कुरु सृष्टिमिमं धृत्वा धाता त्रिजगतां भव ।
संहर्ता भव हे शंभो मम तुल्यो भवे भव ॥२१॥
हे धर्म त्वमिदं धृत्वा भव साक्षी च कर्मणाम् ।
तपसां फलदातारो यूयं भवत मद्वरात् ॥२२॥
ब्रह्माण्डपावनस्यास्य कवचस्य हरिः स्वयम् ।
ऋषिश्छन्दश्च गायत्री देवोऽहं जगदीश्वरः ॥२३॥
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।
त्रिलक्षवारपठनात्सिद्धिदं कवचं विधे ॥२४॥
यो भवेत्सिद्धकवचो मम तुल्यो भवेच्च सः ।
तेजसा सिद्धियोगेन ज्ञानेन विक्रमेण च ॥२५॥
प्रणवो मे शिरः पातु नमो रासेश्वराय च ।
भालं पायान्नेत्रयुग्मं नमो राधेश्वराय च ॥२६॥
कृष्णः पायाच्छ्रोत्रयुग्मं हे हरे घ्राणमेव च ।
जिह्विकां वह्निजाया तु कृष्णायेति च सर्वतः ॥२७॥
श्रीकृष्णाय स्वाहेति च कण्ठं पातु षडक्षरः ।
ह्रीं कृष्णाय नमो वक्त्रं क्लीं पूर्वश्च भुजद्वयम् ॥२८॥
नमो गोपाङ्गनेशाय स्कन्धावष्टाक्षरोऽवतु ।
दन्तपङ्क्तिमोष्ठयुग्मं नमो गोपीश्वराय च ॥२९॥
ॐ नमो भगवते रासमण्डलेशाय स्वाहा ।
स्वयं वक्षःस्थलं पातु मन्त्रोऽयं षोडशाक्षरः ॥३०॥
ऐं कृष्णाय स्वाहेति च कर्णयुग्मं सदाऽवतु ।
ॐ विष्णवे स्वाहेति च कपोलं सर्वतोऽवतु ॥३१॥
ॐ हरये नम इति पृष्ठं पादं सदाऽवतु ।
ॐ गोवर्धनधारिणे स्वाहा सर्वशरीरकम् ॥३२॥
प्राच्यां मां पातु श्रीकृष्ण आग्नेय्यां पातु माधवः ।
दक्षिणे पातु गोपीशो नैर्ऋत्यां नन्दनन्दनः ॥३३॥
वारुण्यां पातु गोविन्दो वायव्यां राधिकेश्वरः ।
उत्तरे पातु रासेश ऐशान्यामच्युतः स्वयम् ॥३४॥
सततं सर्वतः पातु परो नारायणः स्वयम् ।
इति ते कथितं ब्रह्मन्कवचं परमाद्‌भुतम् ॥३५॥
मम जीवनतुल्यं च युष्मभ्यं दत्तमेव च ।
अश्वमेधसहस्राणि वाजपेयशतानि च ॥
कलां नार्हन्ति तान्येव कवचस्यैव धारणात् ॥३६॥
गुरुमभ्यर्च्य विधिवद्‌वस्त्रालंकारचन्दनैः ।
स्नात्वा तं च नमस्कृत्य कवचं धारयेत्सुधीः ॥३७॥
कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः ।
यदि स्यात्सिद्धकवचो विष्णुरेव भवेद्‌द्विज ॥३८॥
सौतिरुवाच
शिवस्य कवचं स्तोत्रं श्रूयतामिति शौनक ।
वसिष्ठेन च यद्‌दत्तं गन्धर्वाय च यो मनुः ॥३९॥
ॐ नमो भगवते शिवाय स्वाहेति च मनुः ।
दत्तो वसिष्ठेन पुरा पुष्करे कृपया विभो ॥४०॥
अयं मन्त्रो रावणाय प्रदत्तो ब्रह्मणा पुरा ।
स्वयं शंभुश्च बाणाय तथा दुर्वाससे पुरा ॥४१॥
मूलेन सर्वं देयं च नैवेद्यादिकमुत्तमम् ।
ध्यायेन्नित्यादिकं ध्यानं वेदोक्तं सर्वसंमतम् ॥४२॥
ॐ नमो महादेवाय ।

बाणासुर उवाच
महेश्वर महाभाग कवचं यत्प्रकाशितम् ।
संसारपावनं नाम कृपया कथय प्रमो ॥४३॥
महेश्वर उवाच
शृणु वक्ष्यामि हे वत्स कवचं परमाद्‌भुतम् ।
अहं तुभ्यं प्रदास्यामि गोपनीयं सुदुर्लभम् ॥४४॥
पुरा दुर्वाससे दत्तं त्रैलोक्यविजयाय च ।
ममैवेदं च कवचं भक्त्या यो धारयेत्सुधीः ॥४५॥
नेतुं शक्नोति त्रैलोक्यं भगवन्नवलीलया ।
संसारपावनस्यास्य कवचस्य प्रजापतिः ॥४६॥
ऋषिश्छन्दश्च गायत्री देवोऽहं च महेश्वरः ।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥४७॥
पञ्चलक्षजपेनैव सिद्धिदं कवचं भवेत् ।
यो भवेत्सिद्धकवचो मम तुल्यो भवेद्‌भुवि
तेजसा सिद्धियोगेन तपसा विक्रमेण च ॥ ४८॥
शंभुर्मे मस्तकं पातु मुखं पातु महेश्वरः ।
दन्तपङ्क्तिं नीलकण्ठोऽप्यधरोष्ठं हरः स्वयम् ॥४९॥
कण्ठं पातु चन्द्रचूडः स्कन्धौ वृषभवाहनः ।
वक्षःस्थलं नीलकण्ठः पातु पृष्ठं दिगम्बरः ॥५०॥
सर्वाङ्गं पातु विश्वेशः सर्वदिक्षु च सर्वदा ।
स्वप्ने जागरणे चैव स्थाणुर्मे पातु संततम् ॥५१॥
इति ते कथितं बाण कवचं परमाद्‌भुतम् ।
यस्मै कस्मै न दातव्यं गोपनीयं प्रयत्‍नतः ॥५२॥
यत्फलं सर्वतीर्थानां स्नानेन लभते नरः ।
तत्फलं लभते नूनं कवचस्यैव धारणात् ॥५३॥
इदं कवचमज्ञात्वा भजेन्मां यः सुमन्दधीः ।
शतलक्षप्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥५४॥
सौतिरुवाच
इदं च कवचं प्रोक्तं स्तोत्रं च शृणु शौनक ।
मन्त्रराजः कल्पतरुर्वसिष्ठो दत्तवान्पुरा ॥५५॥
ॐ नमः शिवाय ।
बाणासुर उवाच -
वन्दे सुराणां सारं च सुरेशं नीललोहितम् ।
योगीश्वरं योगबीजं योगिनां च गुरोर्गुरुम् ॥५६॥
ज्ञानानन्दं ज्ञानरूपं ज्ञानबीजं सनातनम् ।
तपसां फलदातारं दातारं सर्वसंपदाम् ॥५७॥
तपोरूपं तपोबीजं तपोधनधनं वरम् ।
वरं वरेण्यं वरदमीड्यं सिद्धगणैर्वरैः ॥५८॥
कारणं भुक्तिमुक्तीनां नरकार्णवतारणम् ।
आशुतोषं प्रसन्नास्यं करुणामयसागरम् ॥५९॥
हिमचन्दनकुन्देन्दुकुमुदाम्भोजसंनिभम् ।
ब्रह्मज्योतिःस्वरूपं च भक्तानुग्रहविग्रहम् ॥६०॥
विषयाणां विभेदेन बिभ्रतं बहुरूपकम् ।
जलरूपमग्निरूपमाकाशरूपमीश्वरम् ॥६१॥
वायुरूपं चन्द्ररूपं सूर्यरूपं महत्प्रभुम् ।
आत्मनः स्वपदं दातुं समर्थमवलीलया ॥६२॥
भक्तजीवनमीशं चं भक्तानुग्रहकारकम् ।
वेदा न शक्ता यं स्तोतुं किमहं स्तौमि तं प्रभुम् ॥६३॥
अपरिच्छिन्नमीशानमहो वाङ्‍मनसोः परम् ।
व्याघ्रचर्माम्बरधरं वृषभस्थं दिगम्बरम् ।
त्रिशूलपट्टिशधरं सस्मितं चन्द्रशेखरम् ॥ ६४॥
इत्युक्त्वा स्तवराजेन नित्यं बाणः सुसंयतः ।
प्राणमच्छंकरं भक्त्या दुर्वासाश्च मुनीश्वरः ॥६५॥
इदं दत्तं वसिष्ठेन गन्धर्वाय पुरा मुने ।
कथितं च महास्तोत्रं शूलिनः परमाद्‌भुतम् ॥६६॥
इदं स्तोत्रं महापुण्यं पठेद्‌भक्त्या च यो नरः ।
स्नानस्यसर्वतीर्थानां फलमाप्नोति निश्चितम् ॥६७॥
अपुत्रो लभते पुत्रं वर्षमेकं शृणोति यः ।
संयतश्च हविष्याशी प्रणम्य शंकरं गुरुम् ॥६८॥
गलत्कुष्ठी महाशूली वर्षमेकं शृणोति यः ।
अवश्यं मुच्यते रोगाद्‌व्यासवाक्यमिति श्रुतम् ॥६९॥
कारागारेऽपि बद्धो यो नैव प्राप्नोति निर्वृतिम् ।
स्तोत्रं श्रुत्वा मासमेकं मुच्यते बन्धनाद्ध्रुवम् ॥७०॥
भ्रष्टराज्यो लभेद्‌राज्यं भक्त्या मासं शृणोति यः ।
मासं श्रुत्वा संयतश्च लभेद्‌भ्रष्टधनो धनम् ॥७१॥
यक्ष्मग्रस्तो वर्षमेकमास्तिको यः शृणोति चेत् ।
निश्चितं मुच्यते रोगाच्छंकरस्य प्रसादतः ॥७२॥
यः शृणोति सदा भक्त्या स्तवराजमिमं द्विज ।
तस्यासाध्यं त्रिभुवने नास्ति किंचिच्च शौनक ॥७३॥
कदाचिद्‌बन्धुविच्छेदो न भवेत्तस्य भारते ।
अचलं परमैश्वर्यं लभते नात्र संशयः ॥७४॥
सूसंयतोऽतिभक्त्या च मासमेकं शृणोति यः ।
अभार्यो लभते भार्यां सुविनीता सतीं वराम् ॥७५॥
महामूर्खश्च दुर्मेधा मासमेकं शृणोति यः ।
बुद्धिं विद्यां च लभते गुरूपदेशमात्रतः ॥७६॥
कर्मदुःखी दरिद्रश्च मासं भक्त्या शृणोति यः ।
ध्रुवं वित्तं भवेत्तस्य शंकरस्य प्रसादतः ॥७७॥
इह लोके सुखं भुक्त्वा कृत्वा कीर्तिं सुदुर्लभाम् ।
नानाप्रकारधर्मं च यात्यन्ते शंकरालयम् ॥७८॥
पार्वदप्रवरो भूत्वा सेवते तत्र शंकरम् ।
यः शृणोति त्रिसंध्यं च नित्यं स्तोत्रमनुत्तमम् ॥७९॥
इति श्रीब्रह्मवैवर्ते महापुराणे सौतिशौनकसंवादे ब्रह्मखण्डे
विष्णुशंकरस्तोत्रकथनं नामैकोनविंशोऽध्यायः ॥ १९॥


GO TOP