ब्रह्मवैवर्तपुराणम्

प्रथमं ब्रह्मखण्डम् - अष्टादशोऽध्यायः

महापुरुषस्तोत्रप्रणयनम् -


सौतिरुवाच
देवाः सार्धं ब्राह्मणेन मोहिता विष्णुमायया ।
प्रययुर्मालतीमूलं ब्रह्मेशानपुरोगमाः ॥१॥
ब्रह्मा कमण्डलुजलं ददौ गात्रे शवस्य च ।
संचारं मनसस्तस्य चकार सुन्दरं वपुः ॥२॥
ज्ञानदानं ददौ तस्म ज्ञानानन्दः शिवः स्वयम् ।
धर्मज्ञानं स्वयं धर्मो जीवदानं च ब्राह्मणः ॥३॥
वह्निदर्शनमात्रेण बभूव जठरानलः ।
कामदर्शनमात्रेण सर्वकामः सुनिश्चितम् ॥४॥
तस्य वायोरधिष्ठानाज्जगत्प्राणस्वरूपिणः ।
निःश्वासस्य च संचारः प्राणानां च बभूव ह ॥५॥
तूर्याधिष्ठानमात्रेण दृष्टिशक्तिर्बभूव ह ।
वाक्यं वाणीदर्शनेन शोभा श्रीदर्शनेन च ॥६॥
शवस्तथाऽपि नोत्तस्थौ यथा शेते जडस्तथा ।
विशिष्टबोधनं प्राप चाधिष्ठानं विनाऽऽत्मनः ॥७॥
ब्रह्मणो वचनात्साध्वी तुष्टाव परमेश्वरम् ।
स्नात्वा शीघ्रं सरित्तोये धृत्वा धौते च वाससी ॥८॥
मालावत्युवाच
वन्दे तं परमात्मानं सर्वकारणकारणम् ।
विना येन शवाः सर्वे प्राणिनो जगतीतले ॥९॥
निर्लिप्तं साक्षिरूपं च सर्वेषां सर्वकर्मसु ।
विद्यमानमदृष्टं च सर्वेः सर्वत्र सर्वदा ॥ १०॥
येन सृष्टा च प्रकृतिः सर्वाधारा परात्परा ।
ब्रह्मविष्णुशिवादीनां प्रसूर्या त्रिगुणात्मिका ॥११॥
जगत्स्रष्टा स्वयं ब्रह्मा नियतो यस्य सेवया ।
पाता विष्णुश्च जगतां संहर्ता शंकरः स्वयम् ॥१२॥
ध्यायन्ते यं सुराः सर्वे मुनयो मनवस्तथा ।
सिद्धाश्चयोगिनः सन्तः संततं प्रकृतेः परम् ॥ १३॥
साकारं च निराकारं परं स्वेच्छामयं विभुम् ।
वरं वरेष्यं वरदं वराहं वरकारणम् ॥ १४॥
तपः फलं तपोबीजं तपसां च फलप्रदम् ।
स्वयं तपःस्वरूपं च सर्वरूपं च सर्वतः ॥१५॥
सर्वाधारं सर्वबीजं कर्म तत्कर्मणां फलम् ।
तेषां च फलदातारं तद्‌बीजं क्षयकारणम् ॥ १६॥
स्वयं तेजः स्वरूपं च भक्तानुग्रहविग्रहम् ।
सेवा ध्यानं न घटते भक्तानां विग्रहं विना ॥ १७॥
तत्तेजो मण्डलाकारं सूर्यकोटिसमप्रभम् ।
अतीव कमनीयं च रूपं तत्र मनोहरम् ॥ १८॥
नवीननीरदश्यामं शरत्पङ्कजलोचनम् ।
शरत्पार्वणचन्द्रास्यमीषद्धास्यसमन्वितम् ॥ १९॥
कोटिकन्दर्पलावण्यं लीलाधाम मनोहरम् ।
चन्दनोक्षितसर्वाङ्गं रत्‍नभूषणभूषितम् ॥२०॥
द्विभुजं मुरलीहस्तं पीतकौशेयवाससम् ।
किशोरवयसं शान्तं राधाकान्तमनन्तकम् ॥२१॥
गापोङ्गनापरिवृतं कुत्रचिन्निर्जने वने ।
कुत्रचिद्‌रासमध्यस्थं राधया परिषेवितम् ॥२२॥
कुत्रचिद्‌गोपवेषं च वेष्टितं गोपबालकैः ।
शतशृङ्गाचलोत्कृष्टे रम्ये वृन्दावने वने ॥२३॥
निकरं कामधेनूनां रक्षन्तं शिशुरूपिणम् ।
गोलोके विरजातीरे पारिजातवने वने ॥२४॥
वेणुं क्वणन्तं मधुरं गोपीसंमोहकारणम् ।
निरामये च वैकुण्ठे कुत्रचिच्च चतुर्भुजम् ॥२५॥
लक्ष्मीकान्तं पार्षदैश्च सेवितं च चतुर्भुजैः ।
कुत्रचित्स्वांशरूपेण जगतां पालनाय च ॥२६॥
श्वेतद्वीपे विष्णुरूपं पद्मया परिषेवितम् ।
कुत्रचित्स्वांशकलया ब्रह्माण्डे ब्रह्मरूपिणम् ॥२७॥
शिवस्यरूपं शिवदं स्वांशेन शिवरूपिणम् ।
स्वात्मनः षोडशांशेन सर्वाधारं परात्परम् ॥२८॥
स्वयं महाविराड्‍रूपं विश्वौघो यस्य लोमसु ।
लीलया स्वांशकलया जगतां पालनाय च ॥२९॥
नानावतारं बिभ्रन्तं बीजं तेषां सनातनम् ।
वसन्तं कुत्रचित्सन्तं योगिनां हृदये सताम् ॥३०॥
प्राणरूपं प्राणिनां च परमात्मानमीश्वरम् ।
तं च स्तोतुमशक्ताऽहमबला निर्गुणं विभुम् ॥३१॥
निर्लक्ष्यं च निरीहं च सारं वाङ्‍मनसोः परम् ।
यं स्तोतुमक्षमोऽनन्तः सहस्रवदनेन च ॥३२॥
पञ्चवक्त्रश्चतुर्वक्त्रो गजवक्त्रः षडाननः ।
यं स्तोतुं न क्षमा माया मोहिता यस्य मायया ॥३३॥
यं स्तोतुं न क्षमा श्रीश्च जडीभूता सरस्वती ।
वेदा न शक्तायं स्तोतुं को वा विद्वांश्च वेदवित् ॥३४॥
किं स्तौमि तमनीहं च शोकार्ता स्त्रीपरात्परम् ।
इत्युक्त्वा सा च गान्धर्वी विरराम रुरोद च ॥३५॥
कृपानिधिं प्रणनाम भयार्ता च पुनः पुनः ।
कृष्णश्च शक्तिभिः सार्धमधिष्ठानं चकार ह ॥३६॥
भर्तृरम्यन्तरे तस्याः परमात्मा निराकृतिः ।
उत्थाय शीघ्रं वीणां च धृत्वा च वाससी पुनः ॥३७॥
प्रणनाम देवसंघं ब्राह्मणं पुरतः स्थितम् ।
नेदुर्दुन्दुभयो देवाः पुष्पवृष्टिं च चक्रिरे ॥३८॥
दृष्ट्‌वा चोपरि दम्पत्योः प्रददुः परमाशिषम् ।
गन्धर्वो देवपुरतो ननर्त च जगौ क्षणम् ॥३९॥
जीवितं पुरतः प्राप देवानां च वरेण च ।
जगाम पत्‍न्या सार्धं च पित्रा मात्रा च हर्षितः ॥४०॥
उपबर्हणगन्धर्वो गन्धर्वनगरं पुनः ।
मालावती रत्‍नकोटिं धनानि विविधानि च ॥४१॥
प्रददौ ब्राह्मणेभ्यश्च भोजयामास तान्सती ।
वेदांश्च पाठयामास कारयामास मङ्गलम् ॥४२॥
महोत्सवं च विविधं हरेर्नामैकमङ्गलम् ।
जग्मुर्देवाश्च स्वस्थानं विप्ररूपी हरिः स्वयम् ॥४३॥
एतत्ते कथितं सर्वं स्तवराजं च शौनक ।
इदं स्तोत्रं पुण्यरूपं पूजाकाले तु यः पठेत् ॥४४॥
हरिभक्तिं हरेर्दास्यं लभते वैष्णवो जनः ।
वरार्थी यः पठेद्‌भक्त्या चाऽऽस्तिकः परमास्थया ॥४५॥
धर्मार्थकाममोक्षाणां निश्चितं लभते फलम् ।
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ॥४६॥
भार्यार्थी लभते भार्यां पुत्रार्थी लभते सुतम् ।
धर्मार्थी लभते धर्म यशोऽर्थी लभते यशः ॥४७॥
भ्रष्टराज्यो लभेद्‌राज्यं प्रजाभ्रष्टः प्रजां लभेत् ।
रोगार्तो मुच्यते रोगाद्‌बद्धो मुच्येत बन्धनात् ॥४८॥
भयान्मुच्येत भीतस्तु धनं नष्टधनो लभेत् ।
दस्युग्रस्तो महारण्ये हिंस्रजन्तुसमन्वितः ॥४९॥
दावाग्निदग्धो मुच्येत निमग्नश्च जलार्णवे ॥ ५०॥
इति श्रीब्रह्मवैवर्ते महापुराणे गन्धर्वजीवदाने
महापुरुषस्तोत्रप्रणयनं नामाष्टादशोऽध्यायः ॥ १८॥


GO TOP