ब्रह्मवैवर्तपुराणम् - प्रथमं ब्रह्मखण्डम् - सप्तदशोऽध्यायः

ब्रह्मवैवर्तपुराणम्

प्रथमं ब्रह्मखण्डम् - सप्तदशोऽध्यायः

विष्णुसुरसंघसंवादे विष्णुप्रशंसाप्रणयनम् -


सौतिरुवाच
दृष्ट्वा द्विजं देवसंघः प्रत्युत्थानं चकार च ।
परस्परं च संभाषा बभूव तत्र संसदि ॥ १॥
मा तं बुबुधिरे देवाः श्रीहरिं विप्ररूपिणम् ।
पौर्वापर्यं विस्मृताश्च मोहिता विष्णुमायया ॥२॥
सुरान्संबोध्य विप्रश्च वाचा मधुरया द्विज ।
उवाच सत्यं परमं प्राणिनां यच्छुभावहम् ॥३॥
ब्राह्मण उवाच
उपबर्हणभार्येयं कन्या चित्ररथस्य च ।
ययाचे जीवदानं च स्वामिनः शोककर्षिता ॥४॥
अधुना किमनुष्ठानमस्य कार्यस्य निश्चितम् ।
तन्मां ब्रूत सुराः सर्वे नित्यं यत्समयोचितम् ॥५॥
शप्तुकामा सुरान्सर्वान्साध्वी तेजस्विनी वरा ।
अहं क्षेमाय युष्माकमागतो बोधिता सती ॥६॥
स्तुतिः कृता च युष्मामिः श्वेतद्वीपे हरेरपि ।
युष्माकमीशो विष्णुश्च कथमेवात्र नाऽऽगतः ॥७॥
बभूवाऽऽकाशवाणीति पश्चाद्यास्यति केशवः ।
विपरीतं कथं भूतं वाणीवाक्यमचञ्चलम् ॥८॥
ब्राह्मणस्य वचः श्रुत्वा स्वयं ब्रह्मा जगद्‌गुरुः ।
उवाच वचनं सत्यं हितं परममङ्गलम् ॥९॥
ब्रह्मोवाच
मत्पुत्रो नारदः शस्तो गन्धर्वश्चोपबर्हणः ।
योगेन प्राणांस्तत्याज पुनः शापान्ममैव हि ॥ १० ॥
कालं लक्षयुगं व्याप्य स्थितिरस्य महीतले ।
शूद्रयोनिं ततः प्राप्य भविता मत्सुतः पुनः ॥ ११ ॥
अस्य कालावशेषस्य किंचिदस्ति द्विजोत्तम ।
तत्तु वर्षसहस्रं चैवाऽऽयुरस्यास्ति सांप्रतम् ॥ १२॥
दास्यामि जीवदानं च स्वयं विष्णोः प्रसादतः ।
यथैनं न स्पृशेच्छापस्तत्करिष्यामि निश्चितम् ॥ १३॥
नाऽगतो हरिरत्रेति त्वया यत्कथितं द्विज ।
हरिः सर्वत्र सर्वात्मा विग्रहः कुत आत्मनः ॥ १४॥
स्वेच्छामयः परं ब्रह्म भक्तानुग्रहविग्रहः ।
सर्वं पश्यति सर्वज्ञः सर्वत्रास्ति सनातनः ॥ १५॥
विषिश्च व्याप्तिवचनो नुश्च सर्वत्रवाचकः ।
सर्वव्यापी च सर्वात्मा तेन विष्णुः प्रकीर्तितः ॥ १६॥
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥ १७॥
कर्मारम्भे च मध्ये वा शेषे विष्णुं च यः स्मरेत् ।
परिपूर्णं तस्य कर्म वैदिकं च भवेद्‌द्विज ॥ १८॥
अहं स्रष्टा च जगतां विधाता संहरो हरः ।
धर्मश्च कर्मणां साक्षी यस्याऽऽज्ञापरिपालकः ॥ १९॥
कालः संहरते लोकान्यमः शास्ता च पापिनाम् ।
उपैति मृत्युः सर्वांश्च भिया यस्याऽऽज्ञया सदा ॥२०॥
सर्वेशा या च सर्वाद्या प्रकृतिः सर्वसूः पुरा ।
सा भीता यस्य पुरतो यस्याऽऽज्ञापरिपालिका ॥२१॥
महेश्वर उवाच
पुत्राणां ब्रह्मणस्तेषां कस्य वंशोद्‌भवो भवान् ।
वेदानधीत्य भवता ज्ञातः कः सार एव च ॥२२॥
शिष्यः कस्य मुनीन्द्रस्य कस्त्वं नाम्नाच भो द्विज ।
विभर्ष्यर्कातिरिक्तं च शिशुरूपोऽसि सांप्रतम् ॥२३॥
विडम्बयसिदेवांश्च विष्णुमस्माकमीश्वरम् ।
हृदिस्थं च न जानासि परमात्मानमीश्वरम् ॥२४॥
यस्मिन्गते पतेद्‌देहो देहिनां परमात्मनि ।
प्रयान्ति सर्वे तत्पचान्नरदेवानुगा इव ॥२५॥
जीवस्तत्प्रतिबिम्बश्च मनो ज्ञानं च चेतना ।
प्राणाश्चेन्द्रियवर्गाश्च बुद्धिर्मेधा धृतिः स्मृतिः ॥२६॥
निद्रा दया च तन्द्रा च क्षुत्तृष्णा पुष्टिरेव च ।
श्रद्धा संतुष्टिरिच्छा च क्षमा लज्जादिकाः स्मृताः ॥२७॥
प्रयाति यत्पुरः शक्तिरीश्वरे गमनोन्मुखे ।
एते सर्वे च शक्तिश्च यस्याऽऽज्ञापरिपालकाः ॥२८॥
ईश्वरे च स्थिते देही क्षमश्च सर्वकर्मसु ।
गतेऽस्पृश्यः शवस्त्याज्यः कस्तं देही न मन्यते ॥२९॥
स्वयं ब्रह्मा च जगतां विधाता सर्वकारकः ।
पादारविन्दमनिशं ध्यायते द्रष्टुमक्षमः ॥३०॥
युगलक्षं तपस्तप्तं श्रीकृष्णस्य च वेधसा ।
तदा बभूव ज्ञानी च जगत्स्रष्टुं क्षमस्तदा ॥३१॥
असंस्थकालं सुचिरं तपस्तप्तं हरेर्मया ।
तृप्तिं जगाम न मनस्तृप्यते केन मङ्गले ॥३२॥
अधुना पञ्चवक्त्रेण यन्नामगुणकीर्तनम् ।
गायन्भ्रमामि सर्वत्र निःस्पृहः सर्वकर्मसु ॥३३॥
मतो याति च मृत्युश्च यन्नामगुणकीर्तनात् ।
शश्वज्जपन्तं तन्नाम दृष्ट्वा मृत्युः पलायते ॥३४॥
सर्वब्रह्माण्डसंहर्ताऽप्यहं मृत्युंजयाभिधः ।
सुचिरं तपसा यस्य गुणनामानुकीर्तनात् ॥३५॥
काले तत्र विलीनोऽहमाविर्भूतस्ततः पुनः ।
न कालो मम संहर्ता न मृत्युर्यत्प्रसादतः ॥३६॥
गोलोके यः स वैकुण्ठे श्वेतद्वीपे स एव च ।
अंशांशिनोर्न भेदश्च ब्रह्मन्वह्निस्फुलिंगवत् ॥३७॥
मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः ।
अष्टाविंशतिमे शक्रे गते च ब्रह्मणो दिनम् ॥३८॥
एतत्संख्याविशिष्टस्य शतवर्षायुषो विधेः ।
पाते लोचनपातश्च यद्विष्णोः परमात्मनः ॥३९॥
अहं कलानावृषभः कृष्णस्य परमात्मनः ।
पारं महिम्नः को गच्छेन्न जानामि च किंचन ॥४०॥
इत्युक्त्वा शंकरस्तत्र विरराम च शौनक ।
धर्मश्च वक्तुमारेभे यः साक्षी सर्वकर्मणाम् ॥४१॥
धर्म उवाच
यत्पाणिपादौ सर्वत्र चक्षुश्च सर्वदर्शनम् ।
सर्वान्तरात्मा प्रत्यक्षोऽप्रत्यक्षश्च दुरात्मनः ॥४२॥
अधुनाऽपि सभां विष्णुर्नायाति इति यद्वचः ।
त्वयोक्तं तत्कया बुद्ध्या मुनीनां च मतिभ्रमः ॥४३॥
महन्निन्दा भवेद्यत्र नैव साधुः शृणोति ताम् ।
निन्दकः श्रोतृभिः सार्धं कुम्भीपाकं व्रजेद्युगम् ॥४४॥
श्रुत्वादैवान्महन्निन्दां श्रीविष्णोः स्मरणाद्‌बुधः ।
मुच्यते सर्वपापेभ्यः पुण्यं प्राप्नोति दुर्लभम् ॥४५॥
कामतोऽकामतोवाऽपि विष्णुनिन्दा करोति यः ।
यः शृणोति हसति वा सभामध्ये नराधमः ॥४६॥
कुम्भीपाके पचति स यावद्धि ब्रह्मणो वयः ।
स्थलं भवेदपूतं च सुरापात्रं यथा द्विज ॥४७॥
प्राणी च नरकं याति श्रुतं तत्रैव चेद्ध्रुवम् ।
विष्णुनिन्दा च त्रिविधा ब्रह्मणा कथिता पुरा ॥४८॥
अप्रत्यक्षं च कुरुते किंवा तं च न मन्यते ।
देवान्यसाम्यं कुरुते ज्ञानहीनो नराधमः ॥४९॥
तस्यात्र निष्कृतिर्नास्ति यावद्वै ब्रह्मणः शतम् ।
गुरोर्निन्दां यः करोति पितुर्निन्दां नराधमः ।
स याति कालसूत्रं च यावच्चन्द्रदिवाकरौ ॥ ५०॥
विष्णुर्गुरुश्च सर्वेषां जनको ज्ञानदायकः ।
पोष्टा पाता भयत्राता वरदाता जगत्त्रये ॥५१॥
एषां च वचनं श्रुत्वा त्रयाणां विप्रपुंगव ।
प्रहस्योवाच तान्देवान्वाचा मधुरया पुनः ॥५२॥
ब्राह्मण उवाच
का कृताविष्णुनिन्दाऽहो हे देवा धर्मशालिनः ।
नाऽऽगतो हरिरत्रेति व्यर्थाऽऽकाशसरस्वती ॥५३॥
इति प्रोक्तं मया भद्रं ब्रूत धर्मार्थमीश्वराः ।
सभायां पाक्षिकाः सन्तो घ्नन्ति स्म शतपूरुषम् ॥५४॥
पूतं च भावुका ब्रूत विष्णुः सर्वत्र संततम् ।
इति चेत्तत्कथं याताः श्वेतद्वीपं वराय च ॥५५॥
अंशांशिनोर्न भेदश्चेदात्मनश्चेति निश्चितम् ।
कलां हित्वा निषेवन्ते सन्तः पूर्णतमं कथम् ॥५६॥
कोटिजन्मदुराराध्यमसाध्यमसतामपि ।
आशा बलवती पुंसां कृष्णं सेवितुमिच्छति ॥५७॥
किं क्षुद्राः किं महान्तश्च वाञ्छन्ति परमं पदम् ।
लब्धुमिच्छति चन्द्रं च बाहुभ्यां वामनो यथा ॥५८॥
यो विष्णुर्विषयी विश्वे श्वेतद्वीपनिवासकृत् ।
यूयं ब्रह्मेशधर्माश्च दिक्पालाश्च दिगीश्वराः ॥५९॥
ब्रह्मविष्णुशिवाद्याश्च सुरलोकाश्चराचराः ।
एवं कतिविधाः सन्ति प्रतिविश्वेषु संततम् ॥६०॥
विश्वानां च सुराणां च कः संख्यां कर्तुमीश्वरः ।
सर्वेषामीश्वरः कृष्णो भक्तानुग्रहविग्रहः ॥६१॥
ऊर्ध्वं च सर्वब्रह्माण्डाद्वैकुण्ठं सत्यमीप्सितम् ।
तस्मादूर्ध्वं च गोलोकः पञ्चाशत्कोटियोजनम् ॥६२॥
चतुर्भूजश्च वैकुण्ठे लक्ष्मीकान्तः सनातनः ।
सुनन्दनन्दकुमुदपार्षदादिभिरावृतः ॥६३॥
गोलोके द्विभुजः कृष्णो राधाकान्तः सनातनः ।
गोपाङ्गनादिभिर्युक्तो द्विभुजैर्गोपपार्षदैः ॥६४॥
परिपूर्णतमं ब्रह्म स चाऽऽत्मा सर्वदेहिनाम् ।
स्वेच्छामयश्च विहरेद्‌रासे वृन्दावने सदा ॥६५॥
तज्ज्योतिर्मण्डलाकारं सूर्यकोटिसमप्रभम् ।
ध्यायन्ते योगिनः सन्तः संततं च निरामयम् ॥६६॥
नवीननीरदश्यामं द्विभुजं पीतवाससम् ।
कोटिकन्दर्पलावण्यलीलाधाम मनोहरम् ॥६७॥
किशोरवयसं शश्वच्छान्तं सस्मितमीश्वरम् ।
ध्यायन्ते वैष्णवाः सन्तः सेवन्ते सत्यविग्रहम् ॥६८॥
यूयं च वैष्णवा ब्रूत कस्य वंशोद्‌भवो भवान् ।
शिष्यः कस्य मुनीन्द्रस्येत्येवं मां च पुनः पुनः ॥६९॥
यस्य वंशोद्‌भवोऽहं च यस्य शिष्यश्च बालकः ।
तस्येदं वचनं ज्ञानं देवसंघा निबोधत ॥७०॥
शीघ्रं जीवय गन्धर्वं देवेश्वर सुरेश्वर ।
व्यक्ते विचारे मूर्खः को वाग्युद्धे किं प्रयोजनम् ॥७१॥
इत्युक्त्वा बालकस्तत्र विप्ररूपी जनार्दनः ।
विरराम सभामध्ये प्रजहास च शौनक ॥७२॥
इति श्रीब्रह्मवैवर्ते महापुराणे सौतिशौनकसंवादे ब्रह्मखण्डं
विष्णुसुरसंघसंवादे विष्णुप्रशंसाप्रणयनं नाम सप्तदशोऽध्यायः ॥ १७॥


GO TOP