ब्रह्मवैवर्तपुराणम्

प्रथमं ब्रह्मखण्डम् - षोडशोऽध्यायः

चिकित्साप्रणयनम् -


ब्राह्मण उवाच
इष्टः कालो यमो मृत्युकन्या व्याधिगणा अहो ।
कस्तेऽधुना च संदेहस्तं पृच्छ कन्यके शुभे ॥ १॥
ब्राह्मणस्य वचः श्रुत्वा हृष्टा मालावती सती ।
यन्मनोनिहितं प्रश्नं चकार जगदीश्वरम् ॥२॥
मालावत्युवाच
त्वया यः कथितो व्याधिः प्राणिनां प्राणहारकः ।
तत्कारणं च विविधं सर्वं वेदे निरूपितम् ॥३॥
यतो न संचरेद्व्याधिर्दुर्निवारोऽशुभावहः ।
तमुपायं च साकल्यं भवान्वक्तुमिहार्हति ॥४॥
यद्यत्पृष्टमपृष्टं वा ज्ञातमज्ञातमेव वा ।
सर्वं कथय तद्‌भद्रं त्वं गुरुर्दीनवत्सलः ॥५ ॥
मालावतीवचः श्रुत्वा विप्ररूपी जनार्दनः ।
संहितां वक्तुमारेभे संहितार्थं च वैद्यकीम् ॥६॥
ब्राह्मण उवाच
वन्दे तं सर्वतत्त्वज्ञं सर्वकारणकारणम् ।
वेदवेदाङ्‍गबीजस्य बीजं श्रीकृष्णमीश्वरम् ॥७॥
स ईशश्चतुरो वेदान्ससृजे मङ्गलालयान् ।
सर्वमङ्गलमङ्गल्यबीजरूपः सनातनः ॥८॥
ऋग्यजुःसामार्थवाख्यान्‌दृष्ट्‍वावेदान्प्रजापतिः ।
विचिन्त्य तेषामर्थं चैवाऽऽयुर्वेदं चकार सः ॥९॥
कृत्वा तु पञ्चमं वेदं भास्कराय ददौ विभुः ।
स्वतन्त्रसंहितां तस्माद्‌भास्करश्च चकार सः ॥ १०॥
भास्करश्च स्वशिष्येभ्य आयुर्वेदं स्वसंहिताम् ।
प्रददौ पाठयामास ते चक्रुः संहितास्ततः ॥ ११॥
तेषां नामानिविदुषां तन्त्राणि तत्कृतानिच ।
व्याधिप्रणाशबीजानि साध्विमत्तो निशामय ॥ १२॥
धन्वन्तरिर्दिवोदासः काशीराजोऽश्विनीसुतौ ।
नकुलः सहदेवोऽर्किश्च्यवनो जनको बुधः ॥ १३॥
जाबालो जाजलिः पैलः करथोऽगस्त्य एव च ।
एते वेदाङ्गवेदज्ञाः षोडश व्याधिनाशकाः ॥ १४॥
चिकित्सातत्त्वविज्ञानं नामतन्त्रं मनोहरम् ।
धन्वन्तरिश्च भगवांश्चकार प्रथमे सति ॥ १५॥
चिकित्सादर्पणं नाम दिवोदासश्चकार सः ।
चिकित्साकौमुदीं दिव्यां काशीराजश्चकार सः ॥ १६॥
चिकित्सासारतन्त्रं च भ्रमघ्नं चाश्विनीसुतौ ।
तन्त्रं वैद्यकसर्वस्वं नकुलश्च चकार सः ॥ १७॥
चकार सहदेवश्च व्याधिसिन्धुविमर्दनम् ।
ज्ञानार्णवं महातन्त्रं यमराजश्चकार ह ॥ १८॥
च्यवनो जीवदानं च चकार भगवानृषिः ।
चकार जनको योगी वैद्यसंदेहभञ्जनम् ॥ १९॥
सर्वसारं चन्द्रसुतो जाबालस्तन्त्रसारकम् ।
वेदाङ्गसारं तन्त्रं च चकार जाजलिर्मुनिः ॥२०॥
पैलो निदानं करथस्तन्त्रं सर्वधरं परम् ।
द्वैधनिर्णयतन्त्रं च चकार कुम्भसंभवः ॥२१॥
चिकित्साशास्त्रबीजानि तन्त्राण्येतानि षोडश ।
व्याधिप्रणाशबीजानि बलाधानकराणि च ॥२२॥
मथित्वा ज्ञानमन्त्रेणैवाऽऽयुर्वेदपयोनिधिम् ।
ततस्तस्मादुदाजह्रुर्नवनीतानि कोविदाः ॥२३॥
एतानि क्रमशो दृष्ट्वा दिव्यां भास्करसंहिताम् ।
आयुर्वेदं सर्वबीजं सर्वं जानामि सुन्दरि ॥२४॥
व्याधेस्तत्त्वपरिज्ञानं वेदनायाश्च निग्रहः ।
एतद्वैद्यस्य वैद्यत्वं न वैद्यः प्रभुरायुषः ॥२५॥
आयुर्वेदस्य विज्ञाता चिकित्सासु यथार्थवित् ।
धर्मिष्ठश्च दयालुश्च तेन वैद्यः प्रकीर्तितः ॥२६॥
जनकः सर्वरोगाणां दुर्वारो दारुणो ज्वरः ।
शिवभक्तश्चयोगी च निष्ठुरो विकृताकृतिः ॥२७॥
भीमस्त्रिपादस्त्रिशिराः षड्भुजो नवलोचनः ।
भस्मप्रहरणो रौद्रः कालान्तकयमोपमः ॥२८॥
मन्दाग्निस्तस्य जनको मन्दाग्नेर्जनकास्त्रयः ।
पित्तश्लेष्मसमीराश्च प्राणिनां दुःखदायकाः ॥२९॥
वायुजः पित्तजश्चैव श्लेष्मजश्च तथैव च ।
ज्वरभेदाश्च त्रिविधाश्चतुर्थश्च त्रिदोषजः ॥३०॥
पाण्डुश्च कामलः कुष्ठः शोथः प्लीहा च शूलकः ।
ज्वरातिसारग्रहणीकासव्रणहलीमकाः ॥३१॥
मूत्रकृच्छ्रश्च गुल्मश्च रक्तदोषविकारजः ।
विषमेहश्च कुब्जश्च गोदश्च गलगण्डकः ॥३२॥
भ्रमरी संनिपातश्च विषूची दारुणी सति ।
एषां भेदप्रभेदेन चतुःषष्टी रुजः स्मृताः ॥३३॥
मृत्युकन्यासुताश्चैते जरा तस्याश्च कन्यका ।
जरा च भ्रातृभिःसार्धं शश्वद्‌भ्रमति भूतले ॥३४॥
एते चोपायवेत्तारं न गच्छन्ति च संयतम् ।
पलायन्ते च तं दृष्ट्‍वा वैनतेयमिवोरगाः ॥३५॥
चक्षुर्जलं च व्यायामः पादाधस्तैलमर्दनम् ।
कर्णयोर्मूर्ध्नि तैलं च जराव्याधिविनाशनम् ॥३६॥
वसन्ते भ्रमणं वह्निसेवां स्वल्पां करोति यः ।
बालां च सेवते काले जरा तं नोपगच्छति ॥३७॥
खातशीतोदकस्नायी सेवते चन्दनद्रवम् ।
नोपयाति जरा तं च निदाघेऽनिलसेवकम् ॥३८॥
प्रावृष्युष्णोदकस्नायी घनतोयं न सेवते ।
समये च समाहारी जरा तं नोपगच्छति ॥३९॥
शरद्रौद्रं न गृह्णाति भ्रमणं तत्र वर्जयेत् ।
खातस्नायी समाहारी जरा तं नोपगच्छति ॥४०॥
खातस्नायी च हेमन्ते काले वह्निं च सेवते ।
भुङ्क्ते नवान्नमुष्णंच जरा तं नोपगच्छति ॥४१॥
शिशिरेंऽशुकवह्निं च कवोष्णान्नं च सेवते ।
यः कवोष्णोदकस्नायी जरा तं नोपगच्छति ॥४२॥
सद्योमांसं नवान्नं च बाला स्त्री क्षीरभोजनम् ।
घृतं च सेवते यो हि जरा तं नोपगच्छति ॥४३॥
भुङ्क्ते सदन्नं क्षुत्काले तृष्णायां पीयते जलम् ।
नित्यं भुङ्क्ते च ताम्बूलं जरा तं नोपगच्छति ॥४४॥
दधि हैयङ्गवीनं च नवनीतं तथा गुडम् ।
नित्यं भुङ्क्ते संयमी यो जरा तं नोपगच्छति ॥४५॥
शुष्कमांसं स्त्रियं वृद्धां बालार्कं तरुणं दधि ।
संसेवन्तं जरा याति प्रहृष्टा भ्रातृभिः सह ॥४६॥
रात्रौ ये दधि सेवन्ते पुंश्चलीश्च रजस्वलाः ।
तानुपैति जरा हृष्टा भ्रातृभिः सह सुन्दरि ॥४७॥
रजस्वला च कुलटा चावीरा जारदूतिका ।
शूद्रयाजकपत्‍नी या ऋतुहीना च या सति ॥४८॥
यो हि तासामन्नभोजो ब्रह्महत्यां लभेत्तु सः ।
तेन पापेन सार्धं सा जरा तमुपगच्छति ॥४९॥
पापानांव्याधिभिः सार्धं मित्रता संततं ध्रुवम् ।
पापंव्याधिजराबीजं विध्नबीजं च निश्चितम् ॥५०॥
पापेन जायते व्याधिः पापेन जायते जरा ।
पापेन जायते दैन्यं दुःखं शोको भयं कलिः ॥५१॥
तस्मात्पापं महावैरं दोषबीजममङ्गलम् ।
भारते सततं सन्तो नाऽऽचरन्ति भयातुराः ॥५२॥
स्वधर्माचारयुक्तं च दीक्षितं हरिसेवकम् ।
गुरुदेवातिथीनां च भक्तं सक्तं तपःसु च ॥५३॥
व्रतोपवासयुक्तं च सदा तीर्थनिषेवकम् ।
रोगा द्रवन्ति तं दृष्ट्‍वा वैनतेयमिवोरगाः ॥५४॥
एताञ्जरा न सेवेत व्याधिसंघश्च दुर्जयः ।
सर्वं बोध्यमसमये काले सर्वं ग्रसिष्यति ॥५५॥
ज्वरश्च सर्वरोगाणां जनकः कथितः सति ।
पित्तश्लेष्मसमीराश्च ज्वरस्य जनकास्त्रयः ॥५६॥
एते यथा संचरन्ति स्वयं यान्ति च देहिषु ।
तमेव विविधोपायं साध्वि मत्तो निशामय ॥५७॥
क्षुधि जाज्वल्यमानायामाहाराभाव एव च ।
प्राणिनां जायते पित्तं चक्रे च मणिपूरके ॥५८॥
तालबिल्वफलं भुक्त्वा जलपानं च तत्क्षणम् ।
तदेव तु भवेत्पित्तं सद्यः प्राणहरं परम् ॥५९॥
तप्तोदक च शिरसि भाद्रे तिक्तं विशेषतः ।
दैवग्रस्तश्च यो भुङ्क्ते पित्तं तस्य प्रजायते ॥६०॥
सशर्करं च धान्याकं पिष्टं शीतोदकान्वितम् ।
चणकं सर्वगव्यं च दधितक्रविवर्जितम् ॥६१॥
बिल्वतालफलं पक्वं सर्वभैक्षवमेव च ।
आर्द्रकं मुद्‌गसूपं च तिलपिष्टं सशर्करम् ॥६२॥
पित्तक्षयकरं सद्यो बलपुष्टिप्रदं परम् ।
पित्तनाशं च तद्‌बीजमुक्तमन्यन्निबोध मे ॥६३॥
भोजनानन्तरं स्नानं जलपानं विना तृषा ।
तिलतैलं स्निग्धतैलं स्निग्धमामलकीद्रवम् ॥६४॥
पर्यूषितान्नं तक्रं च पक्वं रम्भाफलं दधि ।
मेघाम्बु शर्करातोयं सुस्निग्धजलसेवनम् ॥६५॥
नारिकेलोदकं रूक्षस्नानं पर्युषितं जलम् ।
तरुमुञ्जापक्वफलं सुपक्वं कर्कटीफलम् ॥६६॥
जातस्नानं च वर्षासु मूलकं श्लेष्मकारकम् ।
ब्रह्मरन्ध्रे च तज्जन्म महद्वीर्यविनाशनम् ॥६७॥
वह्निस्वेदं भ्रष्टभङ्गं पक्वतैलविशेषकम् ।
भ्रमणं शुष्कभक्षं च शुष्कपक्वहरीतकी ॥६८॥
पिण्डारकमपक्वं च रम्भाफलमपक्वकम् ।
वेसवारः सिन्धुवारं अनाहारमपानकम् ॥६९॥
सघृतं रोचनाचूर्णं सघृतं शुष्कशर्करम् ।
मरीचं पिप्पलं शुष्कमार्द्रकं जीवकं मधु ॥७०॥
द्रव्याण्येतानि गान्धर्वि सद्यः श्लेष्महराणि च ।
बलपुष्टिकराण्येव वायुबीजं निशामय ॥७१ ॥
भोजनानन्तरं सद्यो गमनं धावनं तथा ।
छेदनं वह्नितापश्च शश्वद्‌भ्रमणमैथुनम् ॥७२॥
वृद्धस्त्रीगमनं चैव मनःसंताप एव च ।
अतिरूक्षमनाहारं युद्धं कलहमेव च ॥७३॥
कटुवाक्यं भयं शोकः केवलं वायुकारणम् ।
आज्ञाख्यचक्रे तज्जन्म निशामय तदौषधम् ॥७४॥
पक्वं रम्भाफलं चैव सबीजं शर्करोदकम् ।
नारिकेलोदक चैव सद्यस्तक्रं सुपिष्टकम् ॥७५॥
माहिषं दधि मिष्टं च केवलं वा सशर्करम् ।
सद्यः पर्युषितान्नं च सौवीरं शीतलोदकम् ॥७६॥
पक्वतैलविशेषं च तिलतैलं च केवलम् ।
लाङ्गली तालखर्जूरमुष्णमामलकीद्रवम् ॥७७॥
शीतलोष्णोदकस्नानं सुस्निग्धं चन्दनद्रवम् ।
स्निग्धपद्मपत्रतल्पं सुस्निग्धव्यजनानि च ॥७८॥
एतत्ते कथितं वत्से सद्यो वायुप्रणाशनम् ।
वायवस्त्रिविधाः पुंसां क्लेशसंतापकामजाः ॥७९॥
व्याधिसंघश्च कथितस्तन्त्राणि विविधानि च ।
तानि व्याधिप्रणाशाय कृतानि सद्‌भिरेव च ॥८०॥
तन्त्राण्येतानि सर्वाणि व्याधिक्षयकराणि च ।
रसायनादयो येषु चोपायाश्च सुदुर्लभाः ॥८१॥
न शक्तः कथितं साध्वि यथार्थं वत्सरेण च ।
तेषां च सर्वतन्त्राणां कृतानां च विचक्षणैः ॥८२॥
केन रोगेण त्वत्कान्तो मृतः कथय शोभने ।
तदुपायं करिष्यामि येन जीवेदयं सति ॥८३॥
सौतिरुवाच
ब्राह्मणस्य वचः श्रुत्वा कन्या चित्ररथस्य च ।
कथां कथितुमारेभे सा गान्धर्वी प्रहर्षिता ॥८४॥
मालावत्युवाच
योगेन प्राणांस्तत्याज ब्रह्मणः शापहेतुना ।
सभायां लज्जितः कान्तो ममविप्र निशामय ॥८५॥
सर्व श्रुतमपूर्व च शुभाख्यानं मनोहरम् ।
भवेद्‌भवे कुतः केषां महल्लभ्य विपद्विना ॥८६॥
अधुना मत्प्राणकान्तं देहि देहि विचक्षण ।
नत्वा वः स्वामिना सार्धं यास्यामि स्वगृहं प्रति ॥८७॥
मालावतीवचः श्रुत्वा विप्ररूपी जनार्दनः ।
सभां जगाम देवानां शीघ्रं विप्रस्तदन्तिकात् ॥८८॥
इति श्रीब्रह्मवैवर्ते महापुराणे सौतिशौनकसंवादे
ब्रह्मखण्डे चिकित्साप्रणगने षोडशोऽध्यायः ॥ १६॥


GO TOP