ब्रह्मवैवर्तपुराणम्
प्रथमं ब्रह्मखण्डम् - पञ्चदशोऽध्यायः
मालावतीकालपुरुषसंवादः -
ब्राह्मण उवाच
केन रोगेण हि मृतोऽधुना साध्वि तव प्रियः ।
सर्वरोगचिकित्सां च जानामि च चिकित्सकः ॥ १॥
मृततुल्यं मृतं रोगात्सप्ताहाभ्यन्तरे सति ।
महाज्ञानेन तं जीवं जीवयाम्यवलीलया ॥२॥
राजमृत्युं यमं कालं व्याधिमानीय त्वत्पुरः ।
निबध्य दातुं शक्तोऽहं व्याधो बध्वा पशुं यथा ॥३॥
बतो न संचरेद्व्याधिर्देहेषु देहधारिणाम् ।
व्याधीनां कारणं यद्यत्सर्वं जानामि सुन्दरि ॥४॥
बतो न संचरेद्व्याधिबीजं दुष्टममङ्गलम् ।
तदुपायं विजानामि शास्त्रतत्त्वानुसारतः ॥५॥
वो वा योगेन खेदेन देहत्यागं करोति च ।
तस्य तं जीवनोपायं जानामि योगधर्मतः ॥६॥
बाह्मणस्यवचः श्रुत्वा स्फीता मालावती सती ।
सस्मिता स्निग्धचित्तासा तमुवाच प्रहर्षिता ॥७॥
मालावत्युवाच
अहो श्रुतं किमाश्चर्यं वचनं बालवक्त्रतः ।
वयसाऽतिशिशुर्दृष्टो ज्ञानं योगविदां परम् ॥८॥
त्वया कृता प्रतिज्ञा च कान्तं जीवयितुं मम ।
विपरीतं न सद्वाक्यं तत्क्षणं जीवितः पतिः ॥९॥
जीवयिष्यति मत्कान्तं पश्चाद्वेदविदां वरः ।
यद्यत्पृच्छामि संदेहात्तद्भवान्वक्तुमर्हति ॥ १०॥
सभायां जीविते कान्ते तस्य तीव्रस्य संनिधौ ।
त्वां हि प्रष्टुं न शक्ताऽहं विद्यमाने मदीश्वरे ॥ ११॥
एते ब्रह्मादयो देवा विद्यमानाश्च संसदि ।
त्वं च वेदविदां श्रेष्ठो न च कश्चिन्मदीश्वरः ॥ १२॥
नारीं रक्षति भर्ता चेन्न कोऽपि खण्डितुं क्षमः ।
शास्तिं करोति यदि स न कोऽपि रक्षिता भुवि ॥ १३॥
एवं वेदेषु नो शक्तिः शक्रे वा ब्रह्मरुद्रयोः ।
स्त्रीपुंभावश्च बोद्धव्यः स्वामी कर्ता च योषिताम् ॥ १४॥
स्वामी कर्ता च हर्ता च शास्ता पोष्टा च रक्षिता ।
अभीष्टदेवः पूज्यश्च न गुरुः स्वामिनः परः ॥ १५॥
कन्यासत्कुलजाता या सा कान्तवशवर्तिनी ।
या स्वतन्त्रा च सा दुष्टा स्वभावात्कुटिला ध्रुवम् ॥ १६॥
दुष्टा परपुमांसं च सेवते या नराधमा ।
सा निन्दति पतिं शश्वदसद्वंशप्रसूतिका ॥ १७॥
उपबर्हणभार्याऽहं कन्या चित्ररथस्य च ।
वधूर्गन्धर्वराजस्य कान्तभक्ता सदा द्विज ॥ १८॥
सर्व कालयितुं शक्तस्त्वं च वेदविदां वर ।
कालं यमं मृत्युकन्यां मदभ्याशं समानय ॥ १९॥
मालावतीवचः श्रुत्वा विप्रो वेदविदां वरः ।
सभामध्ये समाहूय तान्प्रत्यक्षं चकार ह ॥२०॥
ददर्श मृत्युकन्यां च प्रथमं मालती सतो ।
कृष्णवर्णां घोररूपां रक्ताम्बरधरां वराम् ॥२१ ॥
सस्मितां षड्भुजां शान्तां दयायुक्तां महासतीम् ।
कालस्य स्वामिनो वामे चतुःषष्टिसुतान्विताम् ॥२२॥
कालं नारायणांशं च ददर्श पुरतः सती ।
महोग्ररूपं विकटं ग्रीष्मसूर्यसमप्रभम् ॥२३॥
षड्वक्त्रं षोडशभुजं चतुर्विंशतिलोचनम् ।
षट्पादं कृष्णवर्णं च रक्ताम्बरधरं परम् ॥२४॥
देवस्य देवं विकृतं सर्वसंहाररूपिणम् ।
कालाधिदेवं सर्वेशं भगवन्तं सनातनम् ॥२५॥
ईषद्धास्यप्रसनास्यमक्षमालाकरं वरम् ।
जपन्तं परमं ब्रह्म कृष्णमात्मानमीश्वरम् ॥२६॥
सती ददर्श पुरतो व्याधिसंघान्सुदुर्जयान् ।
वयसाऽतिमहावृद्धान्स्तनंधान्मातृसंनिधौ ॥२७॥
स्थूलपादं कृष्णवर्णं धर्मिष्ठं रविनन्दनम् ।
जपन्तं परमं ब्रह्म भगवन्तं सनातनम् ॥२८॥
धर्माधर्मविचारज्ञं परं धर्मस्वरूपिणम् ।
पापिनामपि शास्तारं ददर्श पुरतो यमम् ॥२९॥
तांश्च दृष्ट्वा च निःशङ्का पप्रच्छ प्रथमं यमम् ।
मालावती महासाध्वी प्रहृष्टवदनेक्षणा ॥३०॥
मालावत्युवाच
हे धर्मराज धर्मिष्ठ धर्मशास्त्रविशारद ।
कालव्यतिक्रमे कान्तं कथं हरसि मे विभो ॥३१ ॥
यम उवाच
अप्राप्तकालो म्रियते न कश्चिज्जगतीतले ।
ईश्वराज्ञां विना साध्वि नामृतं चालयाम्यहम् ॥३२॥
अहं कालो मृत्युकन्या व्याधयश्च सुदुर्जयाः ।
निषेकेण प्राप्तकालं कालयन्तीश्वराज्ञया ॥३३॥
मृत्युकन्या विचारज्ञा यं प्राप्नोति निषेकतः ।
तमहं कालयाम्येव पृच्छतां केन हेतुना ॥३४॥
मालावत्युवाच
त्वमपि स्त्री मृत्युरुया जानासि स्वामिवेदनम् ।
कथं हरसि मत्कान्तं जीवितायां मयि प्रिये ॥३५॥
मृत्युकन्योवाच
पुरा विश्वसृजा सृष्टाऽप्यहमेवात्र कर्मणि ।
न च क्षमा परित्यक्तुं बहुना तपसा सति ॥३६॥
सती सतीनां मध्ये च काचित्तेजस्विनी वरा ।
मामेव भस्मसात्कर्तुं क्षमा यदि भवेद्भवे ॥३७॥
सर्वापच्छान्तिरेवेह तदा भवति सुन्दरि ।
पुत्राणां स्वामिनः पश्चाद्भविता यद्भविष्यति ॥३८॥
कालेन प्रेरिताऽहं च मत्पुत्रा व्याधयश्च वै ।
न मत्सुतानां दोषश्च न च मे शृणु निश्चितम् ॥३९॥
पृच्छ कालं महात्मानं धर्मज्ञं धर्मसंसदि ।
तदा यदुचितं भद्रे तत्करिष्यसि निश्चितम् ॥४०॥
मालावत्युवाच
हे कालकर्मणां साक्षिन्कर्मरूप सनातन ।
नारायणांश भगवन्नमस्तुभ्यं पराय च ॥४१॥
कथं हरसि मत्कान्तं जीवितायां मयि प्रभो ।
जानासि सर्वदुःखं चसर्वज्ञस्त्वं कृपानिधे ॥४२॥
कालपुरुष उवाच
कोवाऽहं को यमः का च मृत्युकन्या च व्याधयः ।
वय भ्रमामः सततमीशाज्ञापरिपालकाः ॥४३॥
यस्य सृष्टा च प्रकृतिर्ब्रह्मविष्णुशिवादयः ।
सुरा मुनीन्द्रा मनवो मानवाः सर्वजन्तवः ॥४४॥
ध्यायन्ते तत्पदाम्भोजं योगिनश्च विचक्षणाः ।
जपन्ति शश्वन्नामानि पुण्यानि परमात्मनः ॥४५॥
यद्भयाद्वाति वातोऽयं सूर्यस्तपति यद्भयात् ।
स्रष्टा ब्रह्माऽऽज्ञया यस्यपाता विष्णुर्यदाज्ञया ॥४६॥
संहर्ता शंकरः सर्वंजगतां यस्य शासनात् ।
धर्मश्च कर्मणां साक्षी यस्याऽऽज्ञापरिपालकः ॥४७॥
राशिचक्रं ग्रहा सर्वे ब्रमन्ति यस्य शासनात् ।
दिगीशाश्चैव दिक्पाला यस्याऽऽज्ञापरिपालकाः॥४८॥
यस्याऽज्ञया चतरवः पुष्पाणि च फलानि च ।
बिभ्रत्येव ददत्येव काले मालावति सति ॥४९॥
यस्याऽऽज्ञया जलाधारा सर्वाधारा वसुंधरा ।
क्षमावती च पृथिवी कम्पिता न भयेन च ॥५०॥
सहसा मोहिता माया मायया यस्य संततम् ।
सर्वप्रसूर्या प्रकृतिः सा भीता यद्भयादहो ॥५१ ॥
यस्यान्तं न विदुर्वेदा वस्तूनां भावगा अपि ।
पुराणानि च सर्वाणि यस्यैव स्तुतिपाठकाः ॥५२॥
यस्य नाम विधिर्विष्णुः सेवते सुमहान्विराट् ।
षोडशांशो भगवतः स एव तेजसो विभोः ॥५३॥
सर्वेश्वरः कालकालो मृत्योर्मुत्युः परात्परः ।
सर्वविघ्नविनाशाय तं कृष्णं परिचिन्तय ॥५४॥
सर्वाभीष्टं च भर्तारं प्रदास्यति कृपानिधिः ।
इमे यत्प्रेरिताः सर्वे स दाता सर्वसंपदाम् ॥५५॥
इत्युक्त्वा कालपुरुषो विरराम च शौनक ।
कथां कथितुमारेभे पुनरेव तु ब्राह्मणः ॥५६॥
इति श्रीब्रह्मवैवर्ते महापुराणे सौतिशौनकसंवादे ब्रह्मखण्डं
मालावतीकालपुरुषसंवादे पञ्चदशोऽध्यायः ॥ १५॥
GO TOP
|