ब्रह्मवैवर्तपुराणम्
प्रथमं ब्रह्मखण्डम् - चतुर्दशोऽध्यायः
विष्णुमालावतीसंवादः -
सौतिरुवाच
तत्र स्थित्वा क्षणं देवा ब्रह्मेशानपुरोगमाः ।
ययुर्मालावतीमूलं परं मङ्गलदायकाः ॥ १॥
मालावती सुरान्दृष्ट्वा प्रणनाम पतिव्रता ।
रुरोद कान्तं संस्थाप्य देवानां संनिधौ मुने ॥२॥
एतस्मिन्नन्तरे तत्र कश्चिद्ब्राह्मणबालकः ।
आजगाम सुराणां च सभामतिमनोहरः ॥३॥
दण्डी छत्री शुक्लवासा बिभ्रत्तिलकमुज्ज्वलम् ।
दीर्घपुस्तकहस्तश्च सुप्रशान्तश्च सुस्मितः ॥४॥
चन्दनोक्षितसर्वाङ्गः प्रज्वलन्ब्रह्मतेजसा ।
सुरान्संभाष्य तत्रैव विस्मितान्विष्णुमायया ॥५॥
तत्रोवास सभामध्ये तारामध्ये यथा शशी ।
उवाच देवान्सर्वांश्च मालतीं च विचक्षणः ॥६॥
ब्राह्मण उवाच
कथमत्र सुराः सर्वे ब्रह्मेशानपुरोगमाः ।
स्वयं विधाता जगतां स्रष्टा बै केन कर्मणा ॥७॥
सर्वब्रह्माण्डसंहर्ता शम्भुरत्र स्वयं विभुः ।
अहो त्रिजगतां साक्षी धर्मो वै सर्वकर्मणाम् ॥८॥
कथं रविः कथं चन्द्रः कथमत्र हुताशनः ।
कथं कालो मृत्युकन्या कथं शस्त्र यमादयः ॥९॥
हे मालावति ते क्रोडे कोऽतिशुष्कः शवोऽनघे ।
जीविकायाः कथं मूले योषितश्च पुमाञ्छवैः ॥ १०॥
इत्युक्त्वा तांश्च तां विप्रो विरराम सभातले ।
मालावती तं प्रणम्य समुवाच विचक्षणम् ॥ ११॥
मालावत्युवाच
आनन्दपूर्वकं वन्दे विप्ररूपं जनार्दनम् ।
तुष्टा देवा हरिस्तुष्टो यस्य पुष्पजलेन च ॥ १२॥
अवधानं कुरु विभो शोकार्ताया निवेदने ।
समा कृपा सतां शश्वद्योग्यायोग्ये कृपावताम् ॥ १३॥
उपबर्हणभार्याऽहं कन्या चित्ररथस्य च ।
सर्वे मालावतीं कृत्वा वदन्ते विप्रपुंगव ॥१४॥
दिव्यं लक्षयुगं रम्ये स्थाने स्थाने मनोहरे ।
कृता स्वच्छन्दतः क्रीडा चानेन स्वामिना सह ॥ १५॥
प्रिये स्नेहो हि साध्वीनां यावान्विप्रेन्द्र योषिताम् ।
सर्वं शास्त्रानुसारेण जानासि त्वं विचक्षण ॥ १६॥
अकस्माद्ब्रह्मणः शापात्प्राणांस्तत्याज मत्पतिः ।
देवानुद्दिश्य विलपे यथा जीवति मत्पतिः ॥ १७॥
स्वकार्यसाधने सर्वे व्यग्राश्च जगतीतले ।
भावाभावं न जानन्ति केवलं स्वार्थतत्पराः ॥ १८॥
सुखं दुःखं भयं शोकः संतापः कर्मणां नृणाम् ।
ऐश्वर्यं परमानन्दो जन्म मृत्युश्च मोक्षणम् ॥ १९॥
देवाश्च सर्वजनका दातारः कर्मणां फलम् ।
कर्तारः कर्मवृक्षाणां मूलच्छेदं च लीलया ॥२०॥
नहि देवात्परो बन्धुर्नहि देवात्परो बली ।
दयावान्नहि देवाच्च न च दाता ततः परः ॥२१॥
सर्वानेवानहं याचे पतिदानं ममेप्सितम् ।
धर्मार्थकाममोक्षाणां फलदांश्च सुरद्रुमान् ॥२२॥
यदि दास्यन्ति देवा मे कान्तदानं यथेप्सितम् ।
भद्रं तदाऽन्यथा तेभ्यो दास्यामि स्त्रीवधं ध्रुवम् ॥२३॥
शपिष्यामि च सर्वांश्च दारुणं दुर्निवारकम् ।
दुर्निवार्यः सतीशापस्तपसा केन वार्यते ॥२४॥
इत्युक्त्वा मालती साध्वी शोकार्ता सुरसंसदि ।
विरराम द्विजश्रेष्ठस्तामुवाच च शौनक ॥२५॥
ब्राह्मण उवाच
कर्मणां फलदातारो देवाः सत्यं च मालति ।
न सद्यः सुचिरेणैव धान्यं कृषकवन्नृणाम् ॥२६॥
गृही च कृषकद्वारा क्षेत्रे धान्यं वपेप्सति ।
तदङ्कुरो भवेत्काले काले वृक्षः फलत्यपि ॥२७॥
काले सुपक्वं भवति काले प्राप्नोति तद्गृही ।
एवं सर्वं समुन्नेयं चिरेण कर्मणः फलम् ॥२८॥
अष्ठीं वपति संसारे गृहस्थो विष्णुमायया ।
काले तदङ्कुरो वृक्षः काले प्राप्नोति तत्फलम् ॥२९॥
पुष्पवान्पुण्यभूमौ च करोति सुचिरं तपः ।
तेषां च फलदातारो देवाः सत्यं न संशयः ॥३०॥
ब्राह्मणानां मुखे क्षेत्रे श्रेष्ठेऽनूपर एव च ।
यो यज्जुहोति भक्त्या च स तत्प्राप्नोति निश्चितम् ॥३१॥
न मलं न च सौन्दर्यं नैश्वर्यं न धनं सुतः ।
नैव स्त्री न च सत्कान्तः किं भवेत्तपसा विना ॥३२॥
सेवते प्रकृतिं यो हि भक्त्या जन्मनि जन्मनि ।
स लभेत्सुन्दरीं कान्तां विनीतां च गुणान्विताम् ॥३३॥
श्रियं च निश्चलां पुत्रं पौत्रं भूमिं धनं प्रजाम् ।
प्रकृतेश्च वरेणैव लभेद्भक्तोऽवलीलया ॥३४॥
शिवं शिवस्वरूपं च शिवदं शिवकारणम् ।
ज्ञानानन्दं महात्मानं परं मृत्युंजयं वरम् ॥३५॥
तमीशं सेवतेयो हि भक्त्या जन्मनि जन्मनि ।
पुमान्प्राप्नोति सत्कान्तां कामिनी चापि सत्पतिम् ॥३६॥
विद्यां ज्ञानं सुकवितां पुत्रं पौत्रं परां श्रियम् ।
बलं धनं विक्रमं च लभेद्धरवरेण सः ॥३७॥
ब्रह्माणं भजते यो हि लभेत्सोऽपि प्रजां श्रियम् ।
विद्यामैश्वर्यमानन्दं वरेण ब्रह्मणो नरः ॥३८॥
यो नरो भजते भक्त्या दीननाथं दिनेश्वरम् ।
विद्यामारोग्यमानन्दं धनं पुत्रं लभेद्ध्रुवम् ॥३९॥
गणेश्वरं यो भजते देवदेवं सनातनम् ।
सर्वाग्रपूज्य सर्वेशं भक्त्या जन्मनि जन्मनि ॥४०॥
विघ्ननाशो भवेत्तस्य स्वप्ने जागरणेऽनिशम् ।
परमानन्दमैश्वर्यं पुत्रं पौत्रं धनं प्रजाः ॥४१॥
ज्ञानं विद्यां सुकविता लभते तद्वरेण च ।
भजते यो हि विष्णुं च लक्ष्मीकान्तं सुरेश्वरम् ॥४२॥
वरार्थी चेल्लभेत्सर्वं निर्वाणमन्यथा ध्रुवम् ।
शान्तं निषेव्य पातारं सत्यं सत्यं लभेन्नरः ॥४३॥
सर्वं तपः सर्वधर्म यशः कीर्तिमनुत्तमाम् ।
विष्णुं निषेव्य सर्वेशं यो मूढो लभते वरम् ॥४४॥
विडम्बितो विधात्राऽसौ मोहितो विष्णुमायया ।
माया नारायणीशाना सर्वप्रकृतिरीश्वरी ॥४५॥
सा कृपां कुरुते यं च विष्णुमन्त्रं ददाति तम् ।
धर्मं यो भजते धर्मी सर्वधर्म लभेद्ध्रुवम् ॥४६॥
इहलोके सुखं भुक्त्वा याति विष्णोः परं पदम् ।
योयं देवं भजेद्भक्त्या स चाऽऽदौ लभते च तम् ॥४७॥
काले पश्चात्तेन सार्धं परं विष्णोः पदं लभेत् ।
श्रीकृष्णं भजते यो हि निर्गुणं प्रकृतेः परम् ॥४८॥
ब्रह्मविष्णुशिवादीनां सेव्यं बीजं परात्परम् ।
अक्षरं परमं ब्रह्म भगवन्तं सनातनम् ॥४९॥
साकारं च निराकारं ज्योतिः स्येच्छामयं विभुम् ।
सर्वाधारं च सर्वेशं परमानन्दमीश्वरम् ॥५०॥
निर्लिप्तं साक्षिरूपं च भक्तानुग्रहविग्रहम् ।
जीवन्मुक्तः स सत्यं हि न वरं लभते सुधीः ॥५१॥
स सर्वं मन्यते तुच्छं सालोक्यादिचतुष्टयम् ।
ब्रह्मत्वममरत्वं वा मोक्षं यत्तुच्छवत्सति ॥५२॥
ऐश्वर्यं लोष्टतुल्यं च नश्वरं चैव मन्यते ।
इन्द्रत्वं च मनुत्वं च चिरजीवित्वमेव वा ॥५३॥
जलबुद्बुदवद्बुद्ध्या चातितुच्छं न गण्यते ।
स्वप्ने जागरणे वाऽपि शश्वत्सेवां च वाञ्छति ॥५४॥
दास्यं विना न याचेत श्रीकृष्णस्य पदं परम् ।
तत्पादाब्जे दृढां भक्ति लब्ध्वा पूर्णो निरन्तरम् ॥५५॥
परिपूर्णतमं ब्रह्म निषेव्यं सुस्थिरैः सदा ।
आत्मनः कुलकोटिं च शतं मातामहस्य च ॥५६॥
श्वशुरस्य शतं पूर्वमुद्धृत्य चावलीलया ।
दासं दासी प्रसूं भार्यां पुत्रादपि परं शतम् ॥५७॥
उद्धरेत्कृष्णभक्तश्च गोलोकं यात निश्चितम् ।
तावद्गर्भे वसेत्कामी तावती यमयातना ॥५८॥
तावद्गृहीं च भोगार्थी यावत्कृष्णं न सेवते ।
गुरुवक्त्राद्विष्णुमन्त्रो यस्य कर्णे प्रविश्यति ॥५९॥
यमस्तल्लिखनं दूरं करोति तत्क्षणं भिया ।
मधुपर्कादिकं ब्रह्मा पुरैव तन्नियोजयेत् ॥६०॥
अहो विलङ्घ्य मल्लोकं मार्गेणानेन यास्यति ।
तस्य वै निष्कृतिर्नास्ति कल्पकोटिशतैरपि ॥६१॥
दुरितानि च भीतानि कोटिजन्मकृतानि च ।
तं विहाय पलायन्ते वैनतेयं यथोरगाः ॥६२॥
पुरातनं कृतं कर्म यद्यत्तस्य शुभाशुभम् ।
छिनत्ति कृष्णश्चक्रेण तीक्ष्णधारेण संततम् ॥६३॥
तं विहाय जरा मृत्युर्याति चक्रभिया सति ।
अन्यथा शतखण्डं तां कुरुते च सुदर्शनः ॥६४॥
निःशङ्को याति गोलोकं विहाय मानवीं तनुम् ।
गत्वा दिव्यां तनुं धृत्वा श्रीकृष्णं सेवते सदा ॥६५॥
यावत्कृष्णो हि गोलोके तावद्भक्तो वसेत्सदा ।
निमेषं मन्यते दासो नश्वरं ब्रह्मणो वयः ॥६६॥
इति श्रीब्रह्मवैवर्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे
विष्णुमालावतीसंवादो नाम चतुर्दशोऽध्यायः ॥ १४॥
GO TOP
|