ब्रह्मवैवर्तपुराणम्
प्रथमं ब्रह्मखण्डम् - त्रयोदशोऽध्यायः
मालावतीविलापः -
सौतिरुवाच
पुत्रोत्सवे च रत्नानि धनानि विविधानि च ।
गन्धर्वराजः प्रददौ ब्राह्मणेभ्यो मुदाऽन्वितः ॥ १॥
उपबर्हणस्तु कालेन हरेर्मन्त्रं सुदुर्लभम् ।
वसिष्ठेन तु संप्राप्य स चक्रे दुष्करं तपः ॥२॥
एकदा गण्डकीतीरे तं च संप्राप्तयौवनम् ।
गन्धर्वपत्न्यो ददृशुर्मूर्च्छामापुश्च तत्क्षणम् ॥३॥
ताश्च तीव्रं तपः कृत्वा प्राणान्संत्यज्य योगतः ।
पञ्चाशत्ता बभूवुश्च कन्याश्चित्ररथस्य च ॥४॥
उपबर्हणगन्धर्वे ताश्च तं वव्रिरे पतिम् ।
मुदा माला ददुस्तस्मै कामुक्यः पितुराज्ञया ॥५॥
गृहीत्वा ताश्च गन्धर्वो युवा सस्थिरयौवनः ।
दियं त्रिलक्षवर्षं च रेमे रहसि कामुकः ॥६॥
ततोऽपि सुचिरं राज्यं कृत्वा ताभिः सहानिशम् ।
जगाम ब्रह्मणः स्थानं हरिगाथां जगौ मुने ॥७॥
दृष्ट्वा स रम्भारम्भोरुं नर्तने कठिनं स्तनम् ।
बभूव स्खलनं तस्य गन्धर्वस्य महात्मनः ॥८॥
द्रुतं तत्याज संगीतं मूर्च्छां प्राप सभातले ।
उच्चैः प्रजहसुर्देवा ब्रह्मा कोपाच्छशाप तम् ॥९॥
व्रज त्वं शूद्रयोनिं च गान्धर्वीं तनुमुत्सृज ।
काले वैष्णवसंसर्गान्मत्पुत्रस्त्वं भविष्यसि ॥ १०॥
विना विपत्तेर्महिमा पुंसां नैव भवेत्सुत ।
सुखं दुःखं च सर्वेषां क्रमेण प्रभवेदिति ॥ ११ ॥
इत्येवमुक्त्वा स विधिरगच्छत्पुष्कराद्गृहम् ।
उपबर्हणगन्धर्वः स जहौ तां तनुं तदा ॥ १२॥
मूलाधारं स्वाधिष्ठानं मणिपूरमनाहतम् ।
विशुद्धमाज्ञाख्यं चेति भित्त्वा षट्चक्रमेव च ॥ १३॥
इडां सुषुम्नां मेधां च पिङ्गलां प्राणधारिणीम् ।
सर्वज्ञानप्रदां चैव मनःसंयमिनीं तथा ॥ १४॥
विशुद्धां च निरुद्धां च वायुसंचारिणीं तथा ।
तेजः शुष्ककरीं चैव बलपुष्टिकरीं तथा ॥ १५॥
बुद्धिसंचारिणीं चैव ज्ञानजृम्भणकारिणीम् ।
सर्वप्राणहरा चैव पुनर्जीवनकारिणीम् ॥ १६॥
एताः षोडशधा नाडीर्भित्त्वा वै हंसमेव च ।
मनसा सहितं ब्रह्मरन्ध्रमानीय योगतः ॥ १७॥
स्थित्वा मुहर्तमात्मानमात्मन्येव युयोज ह ।
जातिस्मरश्च योगीन्द्रः संप्राप ब्रह्म शौनक ॥ १८॥
वीणां त्रितन्त्रीं दुष्प्राप्यां वामस्कन्धे निधाय च ।
शुद्धस्फटिकमालां च विधृत्वा दक्षिणे करे ॥ १९॥
संजल्पन्परमं ब्रह्म वेदसारं परात्परम् ।
परं निस्तारबीजं च कृष्ण इत्यक्षरद्वयम् ॥२०॥
प्राच्यां कृत्वा शिरःस्थानं पश्चिमे चरणद्वयम् ।
विधाय दर्भशयनं शयानः पुरुषो यथा ॥२१॥
गन्धर्वराजस्तं दृष्ट्वा भार्यया सह तत्क्षणम् ।
योगेन ब्रह्म संप्राप श्रीकृष्णं मनसा स्मरन् ॥२२॥
पत्न्यश्च बान्धवाः सर्वे विलप्य रुरुदुर्भृशम् ।
जग्मुः क्रमेण शोकार्ता मोहिता विष्णुमायया ॥२३॥
पञ्चाशद्योषितां मध्ये प्रधाना महिषी च या ।
साध्वी मालावती नाम्ना परमा प्रेयसी वरा ॥२४॥
उच्चै रुरोद सा तीव्रं कान्तं कृत्वा च वक्षसि ।
इत्युवाच च शोकार्ता कान्तं संबोध्य चैव हि ॥२५॥
मालावत्युवाच
हे नाथ रमण श्रेष्ठ विदग्ध रसिकेश्वर ।
दर्शनं देहि मां बन्धो निमग्नां शोकसागरे ॥२६॥
विस्रम्भके सुवसने रम्ये चन्दनकानने ।
पुष्पभद्रानदीतीरे पुष्पोद्याने मनोहरे ॥२७॥
चन्दनाचलसांनिध्ये चारुचन्दनकानने ।
पुष्पचन्दनतल्पे च चन्दनानिलवासिते ॥२८॥
गन्धमादनशैलैकदेशे रम्ये नदीतटे ।
पुंस्कोकिलनिनादे च मालतीजलशालिनि ॥२९॥
श्रीशैले श्रीवने दिव्ये श्रीनिवासनिषेविते ।
श्रीयुक्ते श्रीपदाम्भोजे पूतेऽच्युतकृते शुभे ॥३०॥
पुरा या या कृता क्रीडा वसन्ते रहसि त्वया ।
मया च दुर्हृदा सार्धं तया वै दूयते मनः ॥३१॥
सुधातुल्येन वचसा सिक्ताऽहं च पुरा त्वया ।
दूयते सततं तेन परमात्माऽतिदारुणः ॥३२॥
साधुना सह संसर्गो वैकुण्ठादपि दुर्लभः ।
अहो ततोऽतिविच्छेदो मरणादपि दुष्करः ॥३३॥
तस्मात्तेषां च विच्छेदः साधुशोककरः परः ।
ततोऽपि बन्धुविच्छेदः शोकः परमदारुणः ॥३४॥
ततोऽपत्यवियोगो हि मरणादतिरिच्यते ।
सर्वस्मात्पतिभेदो हि तत्परं नास्ति संकटम् ॥३५॥
शयने भोजने स्नाने स्वप्ने जागरणेऽपि च ।
स्वामिविच्छेददुःखं च नूतनं च दिने दिने ॥३६॥
सर्वशोकं विस्मरेत्स्त्री स्वामिसंयोगमात्रतः ।
बन्धुमन्यं न पश्यमि यं दृष्ट्वा विस्मरेत्पतिम् ॥३७॥
नातो विशिष्टं पश्यामि बान्धवं स्वामिना विना ।
साध्वीनां कुलजातानामित्याह कमलोद्भवः ॥३८॥
हे दिगीशाश्च दिक्याला हे धर्म त्वं प्रजापते ।
गिरीश कमलाकान्त पतिदानं च देहि मे ॥३९॥
इत्युक्त्वा विरहार्ता सा कन्या चित्ररथस्य च ।
मूर्च्छां संप्राप तत्रैव दुर्गमे गहने वने ॥४०॥
विचेतना तत्र तस्थौ कान्तं कृत्वा स्ववक्षसि ।
परिपूर्णे दिवानक्तं सर्वेर्देवैश्च रक्षिता ॥४१॥
प्रभाते चेतनां प्राप्य विललाप भृशं मुहुः ।
इत्युवाच पुनस्तत्र हरिं संबोध्य सा सती ॥४२॥
मालावत्युवाच
हे कृष्ण जगतां नाथ नाथ नाहं जगद्बहिः ।
त्वमेव जगतां पाता मां न पासि कथं प्रभो ॥४३॥
अयं भर्ताऽस्य भार्याऽहं ममेति तव मायया ।
त्वमेव संभवो भर्ता सर्वेषां सर्वकारणः ॥४४॥
गन्धर्वः कर्मणा कान्तः कान्ताऽहं चास्य कर्मणा ।
क्व गतः कर्मभोगान्ते कुत्र संस्थाप्य मां प्रियाम् ॥४५॥
को वा कस्याः पतिः पुत्रः का वा कस्य प्रिया प्रभो ।
संयुनक्ति विधाता च वियुनक्ति च कर्मणा ॥४६॥
संयोगे परमानन्दो वियोगे प्राणसंकटम् ।
शश्वज्जगति मूर्खस्य नाऽऽत्मारामस्य निश्चितम् ॥४७॥
नश्वरो विषयः सत्यं भुवि भोगश्च बान्धवः ।
स्वयं त्यक्तः सुखायैव दुःखाय त्याजितः परैः ॥४८॥
तस्मात्सन्तः स्वयं त्यक्त्वा परमैश्वर्यमीप्सितम् ।
ध्यायन्ते सततं कृष्णपादपद्मं निरापदम् ॥४९॥
सर्वत्र ज्ञानिनः सन्तः का स्त्री ज्ञानवती भुवि ।
ततो मह्यं विमूढायै दातुमर्हसि वाञ्छितम् ॥५०॥
न मे वाञ्छाऽमरत्वे च शक्रत्वे मोक्षवर्त्मनि ।
इमं कान्तं वरं देहि चतुर्वर्गकरं परम् ॥५१॥
यावती कामिनीजातिर्जगत्यां जगदीश्वर ।
कस्यैचिन्नहि दत्तश्च तेन धात्रेदृशः पतिः ॥५२॥
तस्मै दत्ताः गुणाः सर्वे रूपाणि विविधानि च ।
सुशीलानि च सर्वाणि चामरत्वं विना हरे ॥५३॥
रूपेण च गुणेनैव तेजसा विक्रमेण च ।
ज्ञानेन शान्त्या संतुष्टा हरितुल्यः प्रभुर्मम ॥५४॥
हरिभक्तो हरिसमो गाम्भीर्ये सागरो यथा ।
दीप्तिमान्सूर्यतुल्यश्च शुद्धो वह्निसमस्तथा ॥५५॥
चन्द्रतुल्यः सुदृश्यश्च कन्दर्पसमसुन्दरः ।
बुद्ध्या बृहस्पतिसमः काव्ये कविसमस्तथा ॥५६॥
वाणी च सर्वशास्त्रज्ञा प्रतिभायां भृगोरिव ।
कुबेरतुल्यो धनवान्महान्दाता मनोरिव ॥५७॥
धर्मे धर्मसमो धर्मी सत्ये सत्यव्रताधिकः ।
कुमारतुल्यतपसा स्वाचारे ब्रह्मणा समः ॥५८॥
ऐश्वर्ये शक्रतुल्यश्च सहिष्णुः पृथिवीसमः ।
एवंभूतो मृतः कान्तः प्राणा यान्ति न मे कथम् ॥५९॥
अहो सुरा यज्ञभाजो घृतं भोक्तुं क्षमा भुवि ।
क्षणेनायज्ञभाजश्च करिष्यामि स्वलीलया ॥६०॥
नारायण जगत्कान्त नाहमेव जगद्बहिः ।
शीघ्रं जीवय मत्कान्तमन्यथा त्वां शपाम्यहम् ॥६१॥
प्रजापते पुत्रशापात्त्वमपूज्यो महीतले ।
तवैवानधिकारित्वं करिष्याम्यधुना भवे ॥६२॥
हे शंभो ज्ञानलोपं ते करिष्यामि शपेन च ।
धर्मलोपं च धर्मस्य करिष्याम्येव लीलया ॥६३॥
यमाधिकारं दूरे च करिष्यामि न संशयः ।
सत्यं कालं शपिष्यामि मृत्युकन्यां सुनिष्ठुराम् ॥६४॥
शपामि सर्वानत्रैव जरां व्याधिं विनाऽधुना ।
व्याधिना जरया मृत्युर्न ह्यभूच्च यतेर्मम ॥६५॥
इत्युक्त्वा कौशिकीतीरे चागच्छच्छप्तुमेव तान् ।
मालावती महासाध्वी शवं कृत्वा स्ववक्षसि ॥६६॥
तां शप्तुमुद्यतां दृष्ट्वा ब्रह्मा देवपुरोगमः ।
जगाम शरणं विष्णुं तीरं क्षीरपयोनिधेः ॥६७॥
तत्र स्नात्वा च तुष्टाव परमात्मानमीश्वरम् ।
विष्णुं ब्रह्मा जगत्कान्तमित्युवाच ह भीतवत् ॥६८॥
ब्रह्मोवाच
उपबर्हणपत्नी सा कन्या चित्ररथस्य च ।
कान्तहेतोश्च मां देवाञ्छपेत्त्वं रक्ष माधव ॥६९॥
स्मरन्ति साधवः सन्तो जपन्ति मुनयो मुदा ।
स्वर्णे जागरणे चैव सर्वकार्येषु माधवम् ॥७०॥
शरणागतदीनार्तपरित्राणपरायण ।
रक्ष रक्ष हृषीकेशं व्रजामः शरणं वयम् ॥७१॥
पूजा मे पुत्रशापेन विहता सांप्रतं प्रभो ।
अधिकारहतं मां च कुरुते मालती सती ॥७२॥
सर्वाधिकारो ब्रह्माण्डे त्वया दत्तः पुरा प्रभो ।
संपदेतादृशी नाथ यास्यत्येवाधुना मम ॥७३॥
महादेव उवाच
त्वया दत्तं महाज्ञानं गुप्तं सर्वेषु दुर्लभम् ।
शतमन्वन्तरतपःफलेन पुष्करे पुरा ॥७४॥
ऐश्वर्ये वा धनं वाऽपि विद्या वा विक्रमोऽथवा ।
ज्ञानस्य परमार्थस्य कलां नार्हन्ति षोडशीम् ॥७५॥
सर्वज्ञातं सर्वगुप्तमत्यन्त दुर्लभं परम् ।
मम तत्त्वज्ञानरत्नं शापान्निर्याति योषितः ॥७६॥
अहो पतिव्रतातेजः सर्वेषां तेजसां परम् ।
तेजोऽनलेन दग्धं मां रक्ष रक्ष हरे हरे ॥७७॥
धर्म उवाच
सर्वरत्नात्परं रत्नं धर्म एव सनातनः ।
यास्यत्येवंविधो धर्मस्त्वया दत्तः पुरा प्रभो ॥७८॥
सप्तमन्वन्तरतपः फलेन परमेश्वर ।
प्राप्तो धर्मोऽधुना याति शापेन योषितः प्रभो ॥७९॥
देवा ऊचुः
यज्ञभाजो घृतभुजो वयमेव त्वया कृताः ।
योषिच्छापेन तत्सर्वमधुना याति माधव ॥८०॥
इत्युक्त्वा संयताः सर्वे तस्थुस्तत्र भयार्दिताः ।
एतस्मिन्नन्तरेऽकस्माद्वाग्बभूवाशरीरिणी ॥८१॥
यूयं गच्छत तन्मूलं विप्ररूपी जनार्दनः ।
पश्चाद्यास्यति शान्त्यर्थमिति वो रक्षणाय च ॥८२॥
श्रुत्वा तद्वचनं देवाः प्रहृष्टमनसोन्मुखाः ।
जग्मुर्मालावतीस्थानं कौशिकीतीरमीश्वराः ॥८३॥
तामेव ददृशुर्देवा देवीं मालावतीं सतीम् ।
रत्नसारेन्द्रभूषाभिरुज्ज्वलां कमलाकलाम् ॥८४॥
वह्निशुद्धांशुकाधानां सिन्दूरबिन्दुभूषिताम् ।
शरच्चन्द्रप्रभां शान्तां द्योतयन्तीं दिशस्त्विषा ॥८५॥
पतिसेवामहाधर्मचिरसंचिततेजसा ।
प्रज्वलन्तीं सुप्रदीप्तशिखां वह्नेरिवोत्तमाम् ॥८६॥
योगासनं कुर्वतीं च शववक्षःस्थलस्थिताम् ।
सुरम्यां स्वामिनो वीणां बिभ्रती दक्षिणे करे ॥८७॥
तर्जन्यङ्गुष्ठकोटिभ्यां शुद्धस्फटिकमालिकाम् ।
भक्त्या स्नेहेन कान्तस्य बिभ्रती योगमुद्रया ॥८८॥
चारुचम्पकवर्णाभां बिम्बोष्ठीं रत्नमालिनीम् ।
यथा षोडशवर्षीयां शश्वत्सुस्थिरयौवनाम् ॥८९॥
बृहन्नितम्बभारार्तां पीनश्रोणिपयोधराम् ।
पश्यन्तीं शवमीशस्य शुभदृष्ट्या पुनः पुनः ॥९०॥
एवंभूतौ च तां दृष्ट्वा देवास्ते विस्मयं ययुः ।
स्थगिता च क्षणं तत्र धार्मिका धर्मभीरवः ॥९१॥
इति श्रीब्रह्मवैवर्ते महापुराणे सौतिशौनकसंवादे
ब्रह्मखण्डं मालावतीविलापो नाम त्रयोदशोऽध्यायः ॥ १३॥
GO TOP
|