ब्रह्मवैवर्तपुराणम्
प्रथमं ब्रह्मखण्डम् - एकविंशोऽध्यायः
नारदशापविमोचनम् -
सौतिरुवाच
बभूव काले बालश्च क्रमेण पञ्चहायनः ।
जातिस्मरो ज्ञानयुक्तः पूर्वमन्त्रस्मृतः सदा ॥ १॥
गीयते सततं कृष्णयशोनामगुणादिकम् ।
क्षणं रोदिति नृत्येन पुलकाञ्चितविग्रहः ॥२॥
कृष्णसंबन्धिनीं गाथां शृणोति यत्र तत्र वै ।
तत्संबन्धिपुराणं च तत्र तिष्ठति बालकः ॥३॥
धूलिधूसरसर्वाङ्गो धूलिनैवेद्यमीप्सितम् ।
धूलिषु प्रतिमां कृत्वा धूलिना पूजयेद्धरिम् ॥४॥
पुत्रमाह्वयते माता प्रातराशाय चेन्मुने ।
हरिं संपूजयामीति मातरं संवदेत्पुनः॥५॥
शौनक उवाच
किन्नाम बालकस्यास्य जन्मन्यत्र बभूव ह ।
व्युत्पत्त्या संज्ञया वाऽपि तद्भवान्वक्तुमर्हति ॥६॥
सौतिरुवाच
अनावृष्ट्यवशेषे च काले बालो बभूव ह ।
नारं ददौ जन्मकाले तेनायं नारदाभिधः ॥७॥
ददाति नारं ज्ञानं च वालकेभ्यश्च बालकः ।
जातिस्मरो महाज्ञानी तेनायं नारदाभिधः ॥८॥
वीर्येण नारदस्यैव बभूव बालको मुने ।
मुनीन्द्रस्य वरेणैव तेनायं नारदाभिघः ॥९॥
शौनक उवाच
शिशुनाम च विज्ञातं व्युत्पत्त्या च यथोचितम् ।
मुनीन्द्रस्य कथं नाम नारदश्चेति मङ्गलम् ॥ १०॥
सौतिरुवाच
अपुत्रकाय विप्राय धर्मपुत्रो नरो मुनिः ।
ददौ पुत्रं कश्यपाय तेनायं नारदाभिधः ॥ ११॥
शौनक उवाच
अधुना नामव्युत्पत्तिः श्रुता सौते शिशोरपि ।
शूद्रयोनौ ब्रह्मपुत्रः कथं स नारदाभिधः ॥ १२॥
सौतिरुवाच
कल्पान्तरे ब्रह्मकण्ठाद्बभूवुर्बहवो नराः ।
नरान्ददौ तत्कण्ठं च तेन तन्नरदं स्मृतम् ॥ १३॥
ततो बभूव बालश्च नरदात्कण्ठदेशतः ।
अतो ब्रह्मा नाम चक्रे नारदश्चेति मङ्गलम् ॥ १४॥
सांप्रतं शिशुवृत्तान्तं सावधानं निशामय ।
उपालम्भरहस्येन विशिष्टं किं प्रयोजनम् ॥ १५॥
ववृधे गोपिकाबालो विप्रगेहे दिने दिने ।
सुपुत्रां पालितां चक्रे ब्राह्मणः स्वसुतां यथा ॥१६॥
एतस्मिन्नन्तरे विप्रा आययुर्विप्रमन्दिरम् ।
शिशवः पञ्चवर्षीया महातेजस्विनो यथा ॥ १७॥
प्रच्छन्नं कृतवन्तश्च ग्रीष्ममध्याह्न भास्करम् ।
मधुपर्कादिकं दत्त्वा तान्ननाम गृही द्विज ॥१८॥
फलमूलादिकं काले चत्वारो मुनिपुंगवाः ।
विप्रदत्तं बुभुजिरे तच्छेषं बुभुजे शिशुः ॥ १९॥
चतुर्थको मुनिस्तस्मै कृष्णमन्त्रं ददौ मुदा ।
तेषां दासः स बभूव द्विजस्य मातुराज्ञया ॥२०॥
एकदाशिशुमाता च गच्छन्ती निशि वर्त्मनि ।
ममार सर्पदष्टा च तत्क्षणं स्मरती हरिम् ॥२१॥
सद्यो जगाम वैकुण्ठं विष्णुयानेन सा सती ।
विष्णुपार्षदसंयुक्ता सद्रत्ननिर्मितेन च ॥२२॥
प्रातर्बालो द्विजैः सार्धं प्रययौ विप्रमन्दिरात् ।
तत्त्वज्ञानं ददुस्तस्मै ब्राह्मणाश्च कृपालवः ॥२३॥
ब्रह्मपुत्राः शिशुं त्यक्त्वा स्वस्थानं प्रययुः किल ।
महाज्ञानी शिशुस्तस्थौ गङ्गातीरे मनोहरे ॥२४॥
तत्र स्नात्वा विप्रदत्तं विष्णुमन्त्रं जजाप सः ।
क्षुत्पिपासारोगशोकहरं वेदेषु दुर्लभम् ॥२५॥
महारण्ये च घोरे च अश्वत्थमूलसंनिधौ ।
कृत्वा योगासनं तस्थौ सुचिरं तत्र बालकः ॥२६॥
शौनक उवाच
कं मन्त्रं बालकः प्राप कुमारेण च धीमता ।
दत्तं परं श्रीहरेश्च तद्भवान्वक्तुमर्हति ॥२७॥
सौतिरुवाच
कृष्णेन दत्तो गोलोकं कृपया ब्रह्मणे पुरा ।
द्वाविंशत्यक्षरो मन्त्रो वेदेषु च सुदुर्लभः ॥२८॥
तं च ब्रह्मा ददौ भक्त्या कुमाराय च धीमते ।
कुमारेण स दत्तश्च मन्त्रश्च शिशवे द्विज ॥२९॥
ॐ श्री नमो भगवते रासमण्डलेश्वराय ।
श्रीकृष्णाय स्वाहेति च मन्त्रोऽयं कल्पपादपः ॥३०॥
महापुरुषस्तोत्रं च पूर्वोक्तं कवचं च यत् ।
अस्यौपयौगिकं ध्यानं सामवेदोक्तमेव च ॥३१॥
तेजोमण्डलकृपे च सूर्यकोटिसमप्रभे ।
योगिभिर्वाञ्छितं ध्याने योगैः सिद्धगणैः सुरैः ॥३२॥
ध्यायन्ते वैष्णवा रूपं तदभ्यन्तरसंनिधौ ।
अतीव कमनीयानिर्वचनीयं मनोहरम् ॥३३॥
नवीनजलदश्यामं शरत्पङ्कजलोचनम् ।
शरत्पार्वणचन्द्रास्यं पक्वबिम्बाधिकाधरम् ॥३४॥
मुक्तापङ्क्तिविनिन्दैकदन्तपङ्क्तिमनोहरम् ।
सस्मितं मुरलीन्यस्तहस्तालम्बनमेव च ॥३५॥
कोटिकन्दर्पलावण्यं लीलाधाम मनोहरम् ।
चन्द्रलक्षप्रभाजुष्टं पुष्टश्रीयुक्तविग्रहम् ॥३६॥
त्रिभङ्गभङ्गिकायुक्तं द्विभुजं पीतवाससम् ।
रत्नकेयूरवलयरत्ननूपुरभूषितम् ॥३७॥
रत्नकुण्डलयुग्मेन गण्डस्थलविराजितम् ।
मयूरपुच्छचूडं च रत्नमालाविभूषितम् ॥३८॥
शोभितं जानुपर्यन्तं मालतीवनमालया ।
चन्दनोक्षितसर्वाङ्गं भक्तानुग्रहकारकम् ॥३९॥
मणिना कौस्तुभेन्द्रेण वक्षःस्थलसमुज्ज्वलम् ।
वीक्षितं गोपिकाभिश्च शश्वद्वीडितलोचनैः ॥४०॥
स्थिरयौवनयुक्ताभिर्वेष्टिताभिश्च संततम् ।
भूषणैर्भूषिताभिश्च राधावक्षःस्थलस्थितम् ॥४१॥
ब्रह्मविष्णुशिवाद्यैश्च पूजितं वन्दितं स्तुतम् ।
किशोरं राधिकाकान्तं शान्तरूपं परात्परम् ॥४२॥
निर्लिप्तं साक्षिरूपं च निर्गुणं प्रकृतेः परम् ।
ध्यायेत्सर्वेश्वरं तं च परमात्मानमीश्वरम् ॥४३॥
इदं ते कथितं ध्यानं स्तोत्रं च कवचं मुने ।
मन्त्रौपयौगिकं सत्यं मन्त्रश्च कल्पपादपः ॥४४॥
सांप्रतं बालकस्तस्थौ ध्यानस्थस्तत्र शौनक ।
दिव्यं वर्षसहस्रं च निराहारः कृशोदरः ॥४५॥
शक्तिमान्परिपुष्टश्च सिद्धमन्त्रप्रभावतः ।
ददर्श बालको ध्याने दिव्यं लोकं च बालकम् ॥४६॥
रत्नसिंहासनस्थं च रत्नभूषणभूषितम् ।
किशोरवयसं श्यामं गोपवेशं च सस्मितम् ॥४७॥
गोपैर्गोपाङ्गनाभिश्च वेष्टितं पीतवाससम् ।
द्विभुजं मुरलीहस्तं चन्दनेन विचर्चितम् ॥४८॥
ब्रह्मविष्णुशिवाद्यैश्च स्तूयमानं परात्परम् ।
दृष्ट्वा च सुचिरं शान्तं शान्तश्च गोपिकासुतः ॥४९॥
विरराम च शोकार्तो यदा तद्द्रष्टुमक्षमः ।
रुरोदाश्वत्थमूले च न दृष्ट्वा बालकं शिशुः ॥५०॥
बभूवाऽऽकाशवाणीति रुदन्तं बालकं प्रति ।
सत्यं प्रबोधयुक्तं च हितमेव मिताक्षरम् ॥५१॥
सकृद्यद्दर्शितं रूपं तदेव नाधुना पुनः ।
अविपक्वकषायाणां दुर्दर्शं च कुयोगिनाम् ॥५२॥
एतस्मिन्विग्रहेऽतीते संप्राप्ते दिव्यविग्रहे ।
पुनर्द्रक्ष्यसि गोविन्दं जन्ममृत्युहरं हरिम् ॥५३॥
इति श्रुत्वा बालकश्च विरराम मुदाऽन्वितः ।
काले तत्याज तीर्थे च तनुं कृष्णं हृदि स्मरन् ॥५४॥
नेदुर्दुन्दुभयः स्वर्गे पुष्पवृष्टिर्बभूव ह ।
बभूव शापमुक्तश्च नारदश्च महामुनिः ॥५५॥
तनुं त्यक्त्वा स जीवश्च विलीनो ब्रह्मविग्रहे ।
बभूव प्राक्तनान्नित्यः कालभेदे तिरोहितः ॥५६॥
आविर्भावस्तिरोभावः स्वेच्छया नित्यदेहिनाम् ।
जन्ममृत्युजराव्याधिर्भक्तानां नास्ति शौनक ॥५७॥
इति श्रीब्रह्मवैवर्ते महापुराणे सौतिशौनकसंवादे
ब्रह्मखण्डे नारदशापविमोचनं नामैकविंशोऽध्यायः ॥२१॥
GO TOP
|