ब्रह्मवैवर्तपुराणम् - प्रथमं ब्रह्मखण्डम् - द्वादशोऽध्यायः

ब्रह्मवैवर्तपुराणम्

प्रथमं ब्रह्मखण्डम् - द्वादशोऽध्यायः

नारदजन्मकथनम् -


ऋषिवंशप्रसंगेन बभूवुर्विविधा कथाः ।
उपलम्भेन प्रस्तावात्कौतुकेन श्रुता मया ॥ १ ॥
प्रजा वा ससृजुः के वा उध्वरेताश्च कश्चन ।
पित्रा सह विरोधेन नारदः किं चकार सः ॥२ ॥
पितुः शापेन पुत्रस्य किं बभूव विरोधतः ।
पितुर्वा पुत्रशापेन सौते तत्कथ्यतां शुभम् ॥३ ॥
सौतिरुवाच
हंसो यतिश्चारणिश्च वोढुः पञ्चशिखस्तथा ।
अपान्तरतमाश्चैव सनकाद्याश्च शौनक ॥४॥
एतैर्विनाऽन्ये बहवो ब्रह्मपुत्राश्च संततम् ।
सांसारिकाः प्रजावन्तो गुर्वाज्ञापरिपालकाः ॥५ ॥
अपूज्यः पुत्रशापेन स्वयं ब्रह्मा प्रजापतिः ।
तेनैवं ब्रह्मणो मन्त्रं नोपासन्ते विपश्चितः ॥ ६॥
नारदो गुरुशापेन गन्धर्वश्च बभूव सः ।
कथयामि सुविस्तीर्णे तद्वृत्तान्तं निशामय ॥७॥
गन्धर्वराजः सर्वेषां गन्धर्वाणां वरो महान् ।
परमैश्वर्यसंयुक्तः पुत्रहीनो हि कर्मणा ॥८॥
गुर्वाज्ञया पुष्करे स परमेण समाधिना ।
तपश्चकार शंभोश्च कृपणो दीनमानसः ॥९ ॥
शिवस्य कवचं स्तोत्रं मन्त्रं च द्वादशाक्षरम् ।
ददौ गन्धर्वराजाय वशिष्ठश्च कृपानिधिः ॥ १० ॥
जजाप परमं मन्त्रं दिव्यं वर्षशतं शुभ ।
पुष्करे स निराहारः पुत्रदुःखेन तापितः ॥ ११ ॥
विरामे शतवर्षस्य ददर्श पुरतः शिवम् ।
भासयन्तं दश दिशो ज्वलन्तं ब्रह्मतेजसा ॥ १२॥
महत्तेजः स्वरूपं च भगवन्तं सनातनम् ।
ईषद्धासं प्रसन्नास्यं भक्तानुग्रहकारकम् ॥ १३ ॥
तपोरूपं तपोबीजं न तपस्याफलदं फलम् ।
शरणागतभक्ताय दातारं सर्वसंपदाम् ॥ १४॥
त्रिशूलपट्टिशधरं वृषभस्थं दिगम्बरम् ।
शुद्धस्फटिकसंकाशं त्रिनेत्रं चन्द्रशेखरम् ॥ १५॥
तप्तस्वर्णप्रभाजुष्टजटाजालधरं वरम् ।
नीलकण्ठं च सर्वज्ञं नागयज्ञोपवीतकम् ॥ १६॥
संहर्तारं च सर्वेषां कालं मृत्युंजयं परम् ।
ग्रीष्ममध्याह्नमार्तण्डकोटिसंकाशमीश्वरम् ॥ १७॥
तत्त्वज्ञानप्रदं शान्तं मुक्तिदं हरिभक्तिदम् ।
दृष्ट्‍वा ननाम सहसा गन्धर्वो दण्डवद्‌भुवि ॥ १८॥
वसिष्ठदतस्तोत्रेण तुष्टाव परमेश्वरम् ।
वरं वृणुष्वेति शिवस्तमुवाच कृपानिधिः ।
स ययाचे हरेर्भक्तिं पुत्रं परमवैष्णवम् ॥ १९॥
गन्धर्वस्य वचः श्रुत्वा चाहसीच्चन्द्रशेखरः ।
उवाच दीनं दीनेशो दीनबन्धुः सनातनः ॥२०॥
महादेव उवाच
कृतार्थस्त्वं वरादेकादन्यच्चर्वितचर्वणम् ।
गन्धर्वराज वृणुषे को वा तृप्तोऽतिमङ्गले ॥२१॥
यस्य भक्तिर्हरौ वत्स सुदृढा सर्वमङ्गला ।
स समर्थः सर्वविश्वं पातुं कर्तुं च लीलया ॥२२॥
आत्मनः कुलकोटिं च शतं मातामहस्य च ।
पुरुषाणां समुद्धृत्य गोलोक याति निश्चितम् ॥२३॥
त्रिविधानि च पापानि कोटिजन्मार्जितानि च ।
निहत्य पुण्यभोगं च हरिदास्यं लभेद्ध्रुवम् ॥२४॥
तावत्पत्‍नी सुतस्तावत्तावदैश्वर्यमीप्सितम् ।
सुखं दुःखं नृणां तावद्यावत्कृष्णे न मानसम् ॥२५॥
कृष्णे मनसि संजाते भक्तिखड्गो दुरत्ययः ।
नराणां कर्मवृक्षाणां मूलच्छेदं करोत्यहो ॥२६॥
भवेद्येषां सुकृतिनां पुत्राः परमवैष्णवाः ।
कुलकोटिं च तेषां त उद्धरन्त्येव लीलया ॥२७॥
चरितार्थः पुमानेकद्वारमिच्छुर्वरादहो ।
किं वरेण द्वितीयेन पुंसा तृप्तिर्न मङ्गले ॥ २८॥
धनं संचितमस्माकं वैष्णवानां सुदुर्लभम् ।
श्रीकृष्णे भक्तिदास्यं च न वयं दातुमुत्सुकाः ॥२९॥
वरयान्यं वरं वत्स यत्ते मनसि वाञ्छितम् ।
इन्द्रत्वममरत्वं वा ब्रह्मत्वं लभ दुर्लभम् ॥ ३० ॥
सर्वसिद्धिं महायोगं ज्ञानं मृत्युंजयादिकं ।
सुखेन सर्वं दास्यामि हरिदास्यं त्यज ध्रुवम् ॥ ३१ ॥
शंकरस्य वचः श्रुत्वा शुष्ककण्ठोष्ठतालुकः ।
उवाच दीनो दीनेशं दातारं सर्वसंपदाम् ॥ ३२॥
गन्धर्व उवाच
यत्पक्ष्मचालनेनैव ब्रह्मणः पतनं भवेत् ।
तद्‌ब्रह्मत्वं स्वप्नतुल्यं कृष्णभक्तो न चेच्छति ॥ ३३ ॥
इन्द्रत्वममरत्वं वा सिद्धयोगादिकं शिव ।
ज्ञानं मृत्युंजयाद्यं वा नहि भक्तस्य वाञ्छितम् ॥ ३४॥
सालोक्यसार्ष्टिसामीप्यसायुज्य श्रीहरेरपि ।
तत्र निर्वाणमोक्षं च नहि वाञ्छन्ति वैष्णवाः ॥ ३५॥
शश्वत्तत्र दृढा भक्तिर्हरिदास्यं सुदुर्लभम् ।
स्वप्ने जागरणे भक्ता वाञ्छन्त्येवं वरं वरम् ॥ ३६॥
तद्‌दास्यं वैष्णवसुतं देहि कल्पतरो वरम् ।
त्वां प्राप्य लभते तुष्टं वरं सर्ववरोऽवरः ॥ ३७॥
न दास्यसीदं चेच्छंभो वरं दुष्कृतिनं च माम् ।
कृत्वा हि स्वशिरश्छेदं प्रदास्यामि हुताशने ॥ ३८॥
गन्धर्ववचनं श्रुत्वा तमुवाच कृपानिधिः ।
भक्तं दीनं च भक्तेशो भक्तानुग्रहकारकः ॥ ३९॥
शंकर उवाच
हरिभक्तिं हरेर्दास्यं पुत्रं परमवैष्णवम् ।
चिरायुषं च गुणिनं शश्वत्सुस्थिरयौवनम् ॥४० ॥
ज्ञानिनं सुन्दरवरं गुरुभक्तं जितेन्द्रियम् ।
गन्धर्वराजप्रवरं वरेमं लभ मा शुचः ॥४१ ॥
इत्युक्त्वा शंकरस्तस्माज्जगाम स्वालयं मुने ।
गन्धर्वराजः संतुष्ट आजगाम स्वमन्दिरम् ॥४२ ॥
प्रफुल्लमानसाः सर्वे मानवाः सिद्धकर्मणः ।
नारदस्तस्य भार्यायां लेभे जन्म च भारते ॥४३ ॥
सुषाव पुत्रं सा वृद्धा पर्वते गन्धमादने ।
गुरुर्वसिष्ठो भगवान्नाम चक्रे यथोचितम् ॥४४॥
बालकस्य च तत्रैव मङ्गलं मङ्गले दिने ।
उपशब्दोऽधिकार्थश्च पूज्ये च बर्हणः पुमान् ।
पूज्यानामधिको बालस्तेनोपबर्हणाभिधः ॥४५॥
इति श्रीब्रह्मवैवर्ते महापुराणे सौतिशौनकसंवादे
ब्रह्मखण्डे नारदजन्मकथनं नाम द्वादशोऽध्यायः ॥ १२ ॥


GO TOP