ब्रह्मवैवर्तपुराणम्

प्रथमं ब्रह्मखण्डम् - एकादशोऽध्यायः

विष्णुवैष्णवब्राह्मणप्रशंसा -


शौनक उवाच
द्विजः स भार्यां संत्यज्य किं चकार विशेषतः ।
अश्विनोर्वा महाभाग किं नाम कस्य वंशजौ ॥ १॥
सौतिरुवाच
द्विजश्च सुतपा नाम भारद्वाजो महामुनिः ।
तपश्चकार कृष्णस्य लक्षवर्षं हिमालये ॥२॥
महातपस्वी तेजस्वी प्रज्वलन्ब्रह्मतेजसा ।
ज्योतिर्ददर्श कृष्णस्य गगने सहसा क्षणम् ॥३॥
वरं स वव्रे निर्लिप्तमात्मानं प्रकृतेः परम् ।
न च मोक्ष ययाचे तं दास्यं भक्तिं च निश्चलाम् ॥४॥
बभूवाऽऽकाशवाणीति कुरु दारपरिग्रहम् ।
पश्चाद्‌दास्यं प्रदास्यामि भक्तिं भोगक्षये द्विज ॥५॥
पितृणां मानसीं कन्यां ददौ तस्मै विधिः स्वयम् ।
तस्यां कल्याणमित्रश्च बभूव मुनिपुंगवः ॥६॥
यस्य स्मरणमात्रेण न भवेत्कुलिशाद्‌भयम् ।
न द्रष्टव्यं बन्धुमात्रं नूनं तत्स्मरणाल्लभेत् ॥७॥
कल्याणमित्रजननीं परित्यज्य महामुनिः ।
शशाग सूर्यपुत्रं च यज्ञभाग्‌वर्जितो भव ॥८॥
ससोदरश्च वा पूज्यो भवेति च सुराधम ।
व्याधिग्रस्तो जडाङ्गश्च भूयातेऽकीर्तिमानिति ॥९॥
इत्युक्त्वा सुतपा गेहं प्रतस्थे सूनुना सह ।
अश्विभ्यां सहितः पूर्वः प्रययौ च तदन्तिकम् ॥ १०॥
पुत्राभ्यां व्याधियुक्ताभ्यां सूर्यस्त्रिजगतां पतिः ।
मुनीन्द्रं वै सुतपसं स दुष्टाव चशौनक ॥ ११॥
सूर्य उवाच
क्षमस्व भगवन्विप्र विष्णुरूप युगे युगे ।
मम पुत्रापराधं च भारद्वाज मुनीश्वर ॥ १२॥
ब्रह्मविष्णुमहेशाद्याः सुराः सर्वे च संततम् ।
भुञ्जते विप्रदत्तं तु फलपुष्पजलादिकम् ॥ १३॥
ब्राह्मणा वाहिता देवाः शश्वद्विश्वेषु पूजिताः ।
न च विप्रात्परो देवो विप्ररूपी स्वयं हरिः ॥१४॥
ब्राह्मणे परितुष्टे च तुष्टो नारायणः स्वयम् ।
नारायणे च संतुष्टे संतुष्टाः सर्वदेवताः ॥ १५॥
नास्ति गङ्गासमं तीर्थं न च कृष्णात्परः सुरः ।
न शंकराद्वैष्णवश्च न सहिष्णुर्धरापरा ॥ १६॥
त च सत्यात्परो धर्मो न साध्वी पार्वतीपरा ।
न दैवाद्‌बलवान्कश्चिन्न च पुत्रात्परः प्रियः ॥ १७॥
न च व्याधिसमः शत्रुर्न च पूज्यो गुरोः परः ।
नास्ति मातृसमो बन्धुर्न च मित्रं पितुः परम् ॥१८॥
एकादशीव्रतान्नान्यत्तपो नानशनात्परम् ।
परं सर्वधनं रत्‍नं विद्यारत्‍नं परं ततः ॥ १९॥
सर्ववर्णात्परो विप्रो नास्ति विप्रसमो गुरुः ।
वेदवेदाङ्‍गतत्त्वज्ञ इत्याह कमलोद्‌भवः ॥ २० ॥
सूर्यस्य वचनं श्रत्वा भारद्वाजो ननाम तम् ।
नीरुजौ चापि तत्पुत्रौ चकार तपसः फलात् ॥ २१ ॥
पश्चाच्च तव पुत्रौ च यज्ञभाजौ भविष्यतः ।
इत्युक्त्वा तं च सुतपाः प्रणम्याहस्करं मुनिः ॥ २२ ॥
जगाम गङ्गां संत्रस्तो हरिसेवनतत्परः ।
पुत्राभ्यां सहितः सूर्यो जगाम निजमन्दिरम् ॥ २३ ॥
बभूवतुस्तौ पूज्यौ च यज्ञभाजौ द्विजाशिषा ।
एतत्सूर्यकृतं विप्र स्तोत्रं यो मानवः पठेत्
विप्रपाद्यप्रसादेन सर्वत्र विजयी भवेत् ॥ २४॥
ब्राह्मणेभ्यो नम इति प्रातरुत्थाय यः पठेत् ।
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ॥ २५ ॥
पृथिव्यां यानि तीर्थानि तानि तीर्थानि सागरे ।
सागरे यानि तीर्थानि विप्रपादेषु तानि च ॥ २६ ॥
विप्रपादोदकं पीत्वा यावत्तिष्ठति मेदिनी ।
तावत्पुष्करपात्रेषु पिबन्ति पितरो जलम् ॥२७॥
विप्रपादोदकं पुण्यं भक्तियुक्तश्च यः पिबेत् ।
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ॥२८॥
महारोगी यदि पिबेद्विप्रपादोदकं द्विज ।
मुच्यते सर्वरोगाच्च मासमेकं तु भक्तितः ॥२९॥
अविद्यो वा सविद्यो वा संध्यापूतो हि यो द्विजः ।
स एव विष्णुसदृशो न हरौ विमुखो यदि ॥३०॥
घ्नन्तं विप्रं शपन्तं वा न हन्यान्न च तं शपेत् ।
गोभ्यः शतगुणं पूज्यो हरिभक्तश्च स स्मृतः ॥३१॥
पादोदकं च नैवेद्यं भुङ्क्ते विप्रस्य यो द्विज ।
नित्यं नैवेद्यभोजी च राजसूयफलं लभेत् ॥३२॥
एकादश्यां न भुङ्क्ते यो नित्यं कृष्णं समर्चयेत् ।
तस्य पादोदकं प्राप्य स्थलं तीर्थ भवेद् ध्रुवम् ॥३३॥
योभुङ्क्ते भोजनोच्छिष्टं नित्यं नैवेद्यभोजनम् ।
कृष्णदेवस्य पूतोऽसौ जीवन्मुक्तो महीतले ॥३४॥
अन्नं विष्ठा पयो मूत्रं यद्विष्णोरनिवेदितम् ।
द्विजानां कुलजातानामित्याह कमलोद्‌भवः ॥३५॥
ब्रह्मा च ब्रह्मपुत्राश्च सर्वे विष्णुपरायणाः ।
ब्राह्मणस्तत्कुले जातो विमुखश्च हरौ कथम् ॥३६॥
पित्रोर्मातामहादीनां संसर्गस्य गुरोश्च वा ।
दोषेण विमुखाः कृष्णे विप्रा जीवन्मृताश्च ते ॥३७॥
सकिंगुरुः स किंतातः स किंपुत्रः स किंसखा ।
स किंराजा स किंबन्धुर्न दद्याद्यो हरौ मतिम् ॥३८॥
अवैष्णवाद्‌द्विजाद्विप्र चण्डालो वैष्णवो वरः ।
सगणः श्वपचो मुक्तो ब्राह्मणो नरकं व्रजेत् ॥३९॥
संध्याहीनोऽशुचिर्नित्यं कृष्णे वा विमुखो द्विज ।
स एव ब्राह्मणाभासो विषहानो यथोरगः ॥४०॥
गुरुवक्त्राद्विष्णुमन्त्रो यस्य कर्णे प्रविश्यति ।
तं वैष्णवं महापूतं जीवन्मुक्तं वदेद्विधिः ॥४१ ॥
पुंसां मातामहादीनां शतैः सार्धं हरेः पदम् ।
प्रयाति वैष्णवः पुंसामात्मनः कुलकोटिभिः ॥४२॥
ब्रह्मक्षत्रियविट्शूद्राचतस्रो जातयो यथा ।
स्वतन्त्रा जातिरेका च विश्वस्मिन्वैष्णवाभिधा ॥४३ ॥
ध्यायन्ति वैष्णवाः शश्वद्‌गोविंदपङ्‍कजम् ।
ध्यायते तांश्च गोविन्दः शश्वत्तेषां च संनिधौ ॥४४॥
सुदर्शनं संनियोज्य भक्तानां रक्षणाय च ।
तथाऽपि नहि निश्चिन्तोऽवतिष्ठेद्‌भक्तसंनिधौ ॥४५॥
इति श्रीब्रह्मवैवर्ते महापुराणे सौतिशौनकसंवादे ब्रह्मखण्डे
विष्णुवैष्णवब्राह्मणप्रशंसा नामैकादशोऽध्यायः ॥ ११ ॥


GO TOP