ब्रह्मवैवर्तपुराणम्
प्रथमं ब्रह्मखण्डम् - दशमोऽध्यायः
जातिसंबन्धनिर्णयः -
सौतिरुवाच
भृगोः पुत्रश्च च्यवनः शुक्रश्च ज्ञानिनां वर ।
क्रतोरपि क्रिया भार्या वालखिल्यानसूयत ॥ १॥
त्रयः पुत्राश्चाङ्गिरसो बभूवुर्मुनिसत्तमाः ।
बृहस्पतिरुतथ्यश्च शम्बरश्चापि शौनक ॥२॥
वसिष्ठस्य सुतः शक्तिः शक्तेः पुत्रः पराशरः ।
पराशरसुतः श्रीमान्कृष्णद्वैपायनो हरिः ॥३॥
व्यासपुत्रः शिवांशश्च शुकश्च ज्ञानिनां वरः ।
विश्वश्रवाः पुलस्त्यस्य यस्य पुत्रो धनेश्वरः ॥४॥
शौनक उवाच
अहो पुराणविदुषामत्यन्तं दुर्गमं वचः ।
न बुद्धं वचनं किंचिद्धनेशोत्पत्तिपूर्वकम् ॥५॥
अधुना कथितं जन्म धनेशस्येश्वरादिदम् ।
पुनर्भिन्नक्रमं जन्म ब्रवीषि कथमेव माम् ॥६॥
सौतिरुवाच
बभूवुरेते दिक्पालाः पुरा च परमेश्वरात् ।
पुनश्च ब्रह्मशापेन स च विश्रवसः सुतः ॥७॥
गुरवे दक्षिणां दातुमुतथ्यश्च धनेश्वरम् ।
ययाचे कोटिसौवर्णं यत्नतश्च प्रचेतसे ॥८॥
धनेशो विरसो भूत्वा तस्मै तद्दातुमुद्यतः ।
चकार भस्मसाद्विप्र पुनर्जन्म ललाम सः ॥९॥
तेन विश्रवसः पुत्रः कुबेरश्च धनाधिपः ।
रावणः कुम्भकर्णश्च धार्मिकश्च विभीषणः ॥ १०॥
पुलहस्य सुतो वात्स्यः शाण्डिल्यश्च रुचेः सुतः ।
सावर्णिगौतमाज्जज्ञे मुनिप्रवर एव सः ॥ ११॥
काश्यपः कश्यपाज्जातो भरद्वाजो बृहस्पतेः ।
स्वयं वात्स्यश्च पुलहात्सावर्णिगौतमात्तथा ॥ १२॥
शाण्डिल्यश्च रुचेः पुत्रो मुनिस्तेजस्विनां वरः ।
बभूवुः पञ्चगोत्राश्च एतेषां प्रवरा भवे ॥ १३॥
बभूवुर्ब्रह्मणो वक्त्रादन्या ब्राह्मणजातयः ।
ताः स्थिता देशभेदेषु गोत्रशून्याश्च शौनक ॥ १४॥
चन्द्रादित्यमनूनां च प्रवराः क्षत्रियाः स्मृताः ।
ब्रह्मणो बाहुदेशाच्चैवान्याः क्षत्रियजातयः ॥ १५॥
ऊरुदेशाच्च वैश्याश्च पादतः शूद्रजातयः ।
तासां संकरजातेन बभूवुर्वर्णसंकराः ॥ १६॥
गोपनापितभिल्लाश्च तथा मोदककूबरौ ।
ताम्बूलिस्वर्णकारौ च वणिग्जातय एव च ॥ १७॥
इत्येवमाद्या विप्रेन्द्र सच्छूद्राः परिकीर्तिताः ।
शूद्राविशोस्तु करणोऽम्बष्ठो वैश्याद्द्विजन्मनोः ॥ १८॥
विश्वकर्मा च विद्यायां वीर्याधानं चकार सः ।
ततो बभूवुः पुत्राश्च नवैते शिल्पकारिणः ॥ १९॥
मालाकारः कर्मकारः शङ्खकारः कुविन्दकः ।
कुम्भकारः कांस्यकारः षडेते शिल्पिनां वराः ॥२०॥
सूत्रधारश्चित्रकारः स्वर्णकारस्तथैव च ।
पतितास्ते ब्रह्मशापादयाज्या वर्णसंकराः ॥२१॥
शौनक उवाच
कथं देवो विश्वकर्मा वीर्याधानं चकार सः ।
शूद्रायामधमायां च कथं ते पतितास्त्रयः ॥२२॥
कथं तेषु ब्रह्मशापो ह्यभवत्केन हेतुना ।
हे पुराणविदां श्रेष्ठ तन्नः शंसितुमर्हसि ॥२३॥
सौतिरुवाच
घृताची कामतः कामं वेषं चक्रे मनोहरम् ।
तामपश्यद्विश्वकर्मा गच्छन्तीं पुष्करे पथि ॥२४॥
आगच्छत्तद्विलोकाच्च प्रसादोत्फुल्लमानसः ।
तां ययाचे स शृङ्गारं कामेन हृतचेतनः ॥२५॥
रत्नालङ्कारभूषाढ्यां सर्वावयवकोमलाम् ।
यथा षोडशवर्षीयां शश्वत्सुस्थिरयौवनाम् ॥२६॥
बृहन्नितम्बभारार्तां मुनिमानसमोहिनीम् ।
अतिवेगकटाक्षेण लोलां कामातिपीडिताम् ॥२७॥
तच्छ्रोणीं कठिनां दृष्ट्वा वायुनाऽपहृताञ्शुकाम् ।
अतीवोच्चैः स्तनयुगं कठिनं वर्तुलं परम् ॥२८॥
सुस्मितं चारु वक्त्रं च शरच्चन्द्रविनिन्दकम् ।
पक्वबिम्बफलारक्तस्वोष्ठाधरमनोहरम् ॥२९॥
सिन्दुरबिन्दुसंयुक्तं कस्तूरीबिन्दुसंयुतम् ।
कपोलमुज्ज्वलं शश्वन्महार्हमणिकुण्डलम् ॥३०॥
तामुवाच प्रियां शान्तां कामशास्त्रविशारदः ।
कामाग्निवर्धनोद्योगि वचनं श्रुतिसुन्दरम् ॥३१ ॥
विश्वकर्मोवाच
मयि क्व यासि ललिते मम प्राणाधिके प्रिये ।
मम प्राणांश्चाच्चहृत्य तिष्ठ कान्ते क्षणं शुभे ॥३२॥
तववान्वेषणं कृत्वा भ्रमामि जगतीतलम् ।
स्वप्राणांस्त्यक्तुमिष्टोऽहं त्वां न दृष्ट्वा हुताशने ॥३३॥
त्वं कामलोकं यासीति श्रुत्वारम्भामुखान्मया ।
आगच्छमहमेवाद्य चास्मिन्वर्त्मन्यवस्थितः ॥३४॥
अहो सरस्वतीतीरे पुष्पोद्याने मनोहरे ।
सुगन्धिमन्दशीतेन वायुना सुरभीकृते ॥३५ ॥
रम कान्ते मया सार्द्धं यूना कान्तेन शोभने ।
विदग्धाया विदग्धेन संगमो गुणवान्भवेत् ॥३६॥
स्थिरयौवनसंयुक्ता त्वमेव चिरजीविनी ।
कामुकी कोमलाङ्गी च सुन्दरीषु च सुन्दरी ॥३७॥
मृत्युंजयवरेणैव मृत्युकन्या जिता मया ।
कुबेरभवनं गत्वा धनं लब्धं कुबेरतः ॥३८॥
रत्नमाला च वरुणाद्वायोः स्त्रीरत्नभूषणम् ।
वह्निशुद्धं वस्त्रयुगं वह्नेः प्राप्तं महौजसः ॥३९॥
कामशास्त्रं कामदेवाद्योषिद्रञ्जनकारणम् ।
शृङ्गारशिल्पं यत्किंचिल्लब्धं चन्द्राच्च दुर्लभम् ॥४०॥
रत्नमालां वस्त्रयुग्मं सर्वाण्याभरणानि च ।
तुभ्यं दातुं हृदि कृतं प्राप्तं तत्क्षणमेव च ॥४१॥
गृहे तानि च संस्थाप्य चाऽऽगतोऽन्वेषणे भवे ।
विरामे सुखसंभोगे तुभ्यं दास्यामि सांप्रतम् ॥४२॥
कामुकस्य वचः श्रुत्वा घृताची सस्मिता मुने ।
ददौ प्रत्युत्तरं शीघ्रं नीतियुक्तं मनोहरम् ॥४३॥
घृताच्युवाच
त्वया यदुक्तं भद्रं तत्स्वीकरोभ्यधुना परम् ।
किंतु सामयिकं वाक्यं ब्रवीष्यामि स्मरातुर ॥४४॥
कामदेवालयं यामि कृतवेषा च तत्कृते ।
यद्दिने यत्कृते यामो वयं तेषां च योषितः ॥४५॥
अद्याहं कामपत्नी च गुरुपत्नी तवाधुना ।
त्वयोक्तमधुनेदं च पठितं कामदेवतः ॥४६॥
विद्यादाता मन्त्रदाता गुरुर्लक्षगुणैः पितुः ।
मातुः सहस्रगुणवान्नास्त्यन्यस्तत्समो गुरुः ॥४७॥
गुरोः शतगुणैः पूज्या गुरुपत्नी श्रुतौ श्रुता ।
पितुः शतगुणं पूज्या यथा माता विचक्षणः ॥४८॥
मात्रा समागमे सूनोर्यावान्दोषः श्रुतौ श्रुता ।
ततो लक्षगुणो दोषो गुरुपत्नीसमागमे ॥४९॥
मातरित्येव शब्देन यां च संभाषते नरः ।
सा मातृतुल्याः सत्येन धर्मः साक्षी सतामपि ॥५०॥
तया हि संगतो यः स्यात्कालसूत्रं प्रयाति सः ।
तत्र घोरे वसत्येव यावच्चन्द्रदिवाकरौ ॥५१ ॥
मात्रा सह समायोगे ततो दोषश्चतुर्गुणः ।
सार्द्धं च गुरुपत्न्या च तल्लक्षगुण एव च ॥५२॥
कुम्भीपाकं पतत्येव यावद्वै ब्रह्मणो वयः ।
प्रायश्चित्तं पापिनश्च तस्य नैव श्रुतौ श्रुतम् ॥५३॥
चक्राकारं कुलालस्य तीक्ष्णधारं च खड्गवत् ।
वसामूत्रपुरीषैश्च परिपूर्णं सुदुस्तरम् ॥५४॥
शूलवत्कृमिसंयुक्तं तप्तमग्निसमं द्रवत् ।
पापिनां तद्विहारं च कुम्भीपाकं प्रकीर्तितम् ॥५५॥
यावान्दोषो हि पुंसां च गुरुपत्नीसमागमे ।
तावांश्च गुरुपत्न्या वै तत्र चेत्कामुकी यदि ॥५६॥
अद्य यास्यामि कामस्य मन्दिरं तस्य कामिनी ।
वेषं कृत्वाऽऽगमिष्यामि त्वत्कृतेऽहं दिनान्तरे ॥५७॥
घृताचीवचनं श्रुत्वा विश्वकर्मा रुरोष ताम् ।
शशाप शूद्रयोनिं च व्रजेति जगतीतले ॥५८॥
घृताची तद्वचः श्रुत्वा तं शशाप सुदारुणम् ।
लभ जन्म भवे त्वं च स्वर्गभ्रष्टो भवेति च ॥५९॥
घृताची कारुमुक्त्वा च साऽगच्छत्काममन्दिरम् ।
कामेन सुरतं कृत्वा कथयामास तां कथाम् ॥६०॥
सा भारते च कामोक्त्या गोपस्य मदनस्य च ।
पत्न्यां प्रयागे नगरे लेभे जन्म च शौनक ॥६१ ॥
जातिस्मरा तत्प्रसूता बभुव च तपस्विनी ।
वरं न वव्रे धर्मिष्ठा तपस्यायां मनो दधौ ॥६२॥
तपश्चकार तपसा तप्तकाञ्चनसंनिभा ।
दिव्यं च शतवर्षं सा गङ्गातीरे मनोरमे ॥६३॥
वीर्येण सुरकारोश्च नव पुत्रान्प्रसूय सा ।
पुनः स्वर्लोकं गत्वा च सा घृताची बभूव ह ॥६४॥
शौनक उवाच
कथं वीर्यं सा दधार सुरकारोस्तपस्विनो ।
पुत्रान्नव प्रसूता च कुत्र वा कति वासरान् ॥६५॥
सौतिरुवाच
विश्वकर्मा तु तच्छापं समाकर्ण्य रुषाऽन्वितः ।
जगाम ब्रह्मणः स्थानं शोकेन हृतचेतनः ॥६६॥
नत्वा स्तुत्वा च ब्रह्माणं कथयामास तां कथाम् ।
ललाभ जन्म ब्राह्मण्यां पृथिव्यामाज्ञया विधेः ॥६७॥
स एव ब्राह्मणो भूत्वा भ्रुवि कारुर्बभूव ह ।
नृपाणां च गृहस्थानां नानाशिल्पं चकार ह ॥६८॥
शिल्पं च कारयामास सर्वेभ्यः सर्वतः सदा ।
विचित्रं विविधं शिल्पमाश्चर्यं सुमनोहरम् ॥६९॥
एकदा तु प्रयागे च शिल्पं कृत्वा नृपस्य च ।
स्नातुं जगाम गङ्गा स चापश्यत्तत्र कामिनीम् ॥७०॥
घृताचीं नवरूपां च युवतिं तां तपस्विनीम् ।
जातिस्मरां तां बुबुधे स च जातिस्मरो द्विजः ॥७१॥
दृष्ट्वा सकामः सहसा बभूव हृतचेतनः ।
उवाच मधुरं शान्तः शान्तां तां च तपस्विनीम् ॥७२॥
ब्राह्मण उवाच
अहोऽधुना त्वमत्रैव घृताचि सुमनोहरं ।
मा मां स्मरसि रम्भोरु विश्वकर्माऽहमेव च ॥७३॥
शापमोक्षं करिष्यामि भज मां तव सुन्दरि ।
त्वत्कृतेऽतिदहत्येव मनो मे स च मन्मथः ॥७४॥
द्विजस्य वचनं श्रुत्वा घृताची नवरूपिणी ।
उवाच मधुरं शान्ता नोतियुक्तं परं वचः ॥७५॥
गोपिकोवाच
तद्दिने कामकान्ताऽहमधुना च तपस्विनी ।
कथं त्वया संगता स्यां गङ्गातीरे च भारते ॥७६॥
विश्वकर्मन्निदं पुण्यं कर्मक्षेत्रं च भारतम् ।
अत्र यत्क्रियते कर्म भोगोऽन्यत्र शुभाशुभम् ॥७७॥
धर्मी मोक्षकृते जन्म प्रलभ्य तपसः फलात् ।
निबद्धः कुरुते कर्म मोहितो विष्णुमायया ॥ ७८॥
माया नारायणीशाना परितुष्टा च यं भवेत् ।
तस्मै ददाति श्रीकृष्णो भक्तिं तन्मन्त्रमीप्सितम् ॥७९॥
यो मूढो विषयासक्तो लब्धजन्मा च भारते ।
विहाय कृष्णं सर्वेशं स मुग्धो विष्णुमायया ॥८०॥
सर्वं स्मरामि देवाहमहो जातिस्मरा पुरा ।
घृताची सुरवेश्याऽहमधुना गोपकन्यका ॥८१ ॥
तपः करोमि मोक्षार्थं गङ्गातीरे सुपुण्यदे ।
नात्र स्थलं च क्रीडायाः स्थिरस्त्वं भव कामुक ॥८२॥
अन्यत्र च कृतं पापं गङ्गायां च विनश्यति ।
गङ्गातीरे कृतं पापं सद्यो लक्षगुणं भवेत् ॥८३॥
तत्तु नारायणक्षेत्रे तपसा च विनश्यति ।
सद्यो वा कामतः कृत्वा निवृत्तश्च भवेत्पुनः ॥८४॥
घृताचीवचनं श्रुत्वा विश्वकर्माऽनिलाकृतिः ।
जगाम तां गृहीत्वा च मलयं चन्दनालयम् ॥८५॥
रम्यायां मलयद्रोण्यां पुष्पतल्पे मनोरमे ।
पुष्पचन्दनवातेन संततं सुरभीकृते ॥८६॥
चकार सुखसंभोगं तया स विजने वने ।
पूर्णं द्वादशवर्षं च बुबुधे न दिवानिशम् ॥८७ ॥
बभूव गर्भः कामिन्याः परिपूर्णः सुदुर्वहः ।
सा सुषाव च तत्रैव पुत्रान्नव मनोहरान् ॥८८ ॥
कृतशिक्षितशिल्पांश्च ज्ञानयुक्तांश्च शौनक ।
पूर्वप्राक्तनतो योग्यान्बलयुक्तान्विचक्षणान् ॥८९ ॥
मालाकारान्कर्मकाराञ्छङ्खकारान्कुविन्दकान् ।
कुम्भकारान्सूत्रकारान्स्वर्णचित्रकरांस्तथा ॥९० ॥
तौ च तेभ्यो वरं दत्त्वा तान्संस्थाप्य महीतले ।
मानवीं तनुमुत्सृज्य जग्मतुर्निजमन्दिरम् ॥९१ ॥
स्वर्णकारः स्वर्णचीर्याद्ब्राह्मणानां द्विजोत्तम ।
बभूव पतितः सद्यो ब्रह्मशापेन कर्मणा ॥९२ ॥
सूत्रकारो द्विजानां तु शापेन पतितो भुवि ।
शीघ्रं च यज्ञकाष्ठानि न ददौ तेन हेतुना ॥९३
व्यतिक्रमेण चित्राणां सद्यश्चित्रकरस्तथा ।
पतितो ब्रह्मशापेन ब्राह्मणानां च कोपतः ॥९४
कश्चिद्वणिग्विशेषश्च संसर्गात्स्वर्णकारिणः ।
स्वर्णचौर्यादिदोषेण पतितो ब्रह्मशापतः ॥९५॥
कुलटायां च शूद्रायां चित्रकारस्य वीर्यतः ।
बभूवाट्टालिकाकारः पतितो जारदोषतः ॥९६॥
अट्टालिकाकारबीजात्कुम्भकारस्य योषिति ।
बभूव कोटकः सद्यः पतितो गृहकारकः ॥९७॥
कुम्भकारस्य बीजेन सद्यः कोटकयोषिति ।
बभूव तैलकारश्च कुटिलः पतितो भुवि ॥९८॥
सद्यः क्षत्रियबीजेन राजपुत्रस्य योषिति ।
बभूव तीवरश्चैव पतितो जारदोषतः ॥९९॥
तीवरस्य तु बीजेन तैलकारस्य योषिति ।
बभूव पतितो दस्युर्लेटश्च परिकीर्तितः ॥ १०० ॥
लेटस्तीवरकन्यायां जनयामास षट् सुतान् ।
माल्लं मन्त्रं मातरं च भण्डं कोलं कलंदरम् ॥ १०१ ॥
ब्राह्मण्यां शूद्रवीर्येण पतितो जारदोषतः ।
सद्यो बभूव चाण्डालः सर्वस्मादधमोऽशुचिः ॥ १०२॥
तीवरेण च चण्डाल्यां चर्मकारो बभूव ह ।
चर्मकार्यां च चण्डालान्मांसच्छेदो बभूव ह ॥ १०३॥
मांसच्छेद्यां तीवरेण कोंचश्च परिकीर्तितः ।
कोंचस्त्रियां तु कैवर्तात्कर्तारः परिकीर्तितः ॥ १०४॥
सद्यश्चाण्डालकन्यायां लेटवीर्येण शौनक ।
बभूवतुस्तौ द्वौ पुत्रौ दुष्टौ हड्डिडमौ तथा ॥ १०५॥
क्रमेण हड्डिकन्यायां सद्यश्चाण्डालवीर्यतः ।
बभूवुः पञ्च पुत्राश्च दुष्टा वनचराश्च ते ॥ १०६॥
लेटात्तीवरकन्यायां गङ्गातीरे च शौनक ।
बभूव सद्यो यो बालो गङ्गापुत्रः प्रकीर्तितः ॥ १०७॥
गङ्गापुत्रस्य कन्यायां वीर्याद्वै वेषधारिणः ।
बभूव वेषधारी च पुत्रो युङ्गी प्रकीर्तितः ॥ १०८॥
वैश्यात्तीवरकन्यायां सद्यः शुण्डी बभूव ह ।
शुण्डियोषिति वैश्यात्तु पौण्ड्रकश्च बभूव ह ॥ १०९॥
क्षत्रात्करणकन्यायां राजपुत्रो बभूव ह ।
राजपुत्र्यां तु करणादागरीति प्रकीर्तितः ॥ ११०॥
क्षत्रवीर्येण वैश्यायां कैवर्तः परिकीर्तितः ।
कलौ तीवरसंसर्गाद्धीवरः पतितो भुवि ॥ १११॥
तीवर्यां धीवरात्पुत्रो बभूव रजकः स्मृतः ।
रजक्यां तीवराच्चैव कोयालीति बभूव ह ॥ ११२॥
नापिताद्गोपकन्यायां सर्वस्वो तस्य योषिति ।
क्षत्राद्बभूव व्याधश्च बलवान्मृगहिंसकः ॥ ११३॥
तीवराच्छुण्डिकन्यायां बभूवुः सप्त पुत्रकाः ।
ते कलौ हड्डिसंसर्गाद्बभूवुर्दस्यवः सदा ॥ ११४॥
ब्राह्मण्यामृषिवीर्येण ऋतोः प्रथमवासरे ।
कुत्सितश्चोदरे जातः कूदरस्तेन कीर्तितः ॥ ११५॥
तदशौचं विप्रतुल्यं पतितो ऋतुदोषतः ।
सद्यः कोटकसंसर्गादधमो जगतीतले ॥ ११६॥
क्षत्रवीर्येण वैश्यायामृतोः प्रथमवासरे ।
जातः पुत्रो महादस्युर्बलवांश्च धनुर्धरः ॥ ११७॥
चकार वागतीतं च क्षत्रियेणापि वारितः ।
तेन जात्या स पुत्रश्च वागतीतः प्रकीर्तितः ॥ ११८॥
क्षत्रवीर्येण शूद्रायामृतुदोषेण पापतः ।
बलवन्तो दुरन्ताश्च बभूवुर्म्लेच्छजातयः ॥ ११९॥
अविद्धकर्णाः क्रूराश्च निर्भया रणदुर्जयाः ।
शौचाचारविहीनाश्च दुर्धर्षा धर्मवर्जिताः ॥ १२०॥
म्लेच्छात्कुविन्दकन्यायां जोलाजातिर्बभूव च ।
जोलात्कुविन्दकन्यायां शराङ्कः परिकीर्तितः ॥ १२१॥
वर्णसंकरदोषेण बह्व्यश्चाश्रुतजातयः ।
तासां नामानि संख्याश्च को वा वस्तुं क्षमो द्विज ॥ १२२॥
वैद्योऽश्वनीकुमारेण जातो विप्रस्य योषिति ।
वैद्यवीर्येण शूद्रायां बभूवुर्बहवो जनाः ॥ १२३॥
ते च ग्राम्यगुणज्ञाश्च मन्त्रौषधिपरायणाः ।
तेभ्यश्च जाताः शूद्रायां ये व्यालग्राहिणो भुवि ॥१२४॥
शौनक उवाच
कथं ब्राह्मणपत्न्यां तु सूर्यपुत्रोऽश्विनीसुतः ।
अहो केनाविवेकेन वीर्याधानं चकार ह ॥ १२५॥
सौतिरुवाच
गच्छन्तीं तीर्थयात्रायां ब्राह्मणीं रविनन्दनः ।
ददर्श कामुकः शान्तः पुष्पोद्याने च निर्जने ॥ १२६॥
तया निवारितो यत्नाद्बलेन बलवान्सुरः ।
अतीव सुन्दरीं दृष्ट्वा वीर्याधानं चकार सः ॥ १२७॥
द्रुतं तत्याज गर्भं सा पुष्पोद्याने मनोहरे ।
सद्यो बभूव पुत्रश्च तप्तकाञ्चनसंनिभः ॥ १२८॥
सपुत्रा स्वामिनो गेहं जगाम व्रीडिता सदा ।
स्वामिनं कथयामास यन्मार्गे दैवसंकटम् ॥ १२९॥
विप्रो रोषेण तत्याज तं च पुत्रं स्वकामिनीम् ।
सरिद्बभूवायुयोगेन सा च गोदावरी स्मृता ॥ १३०॥
पुत्रं चिकित्साशास्त्रं च पाठयामास यत्नतः ।
नानाशिल्पं च मन्त्रं च स्वयं स रविनन्दनः ॥१३१॥
विप्रश्च वेतनाज्ज्योतिर्गणनाच्च निरन्तरम् ।
वेदधर्मपरित्यक्तो बभूव गणको भुवि ॥ १३२॥
लोभी विप्रश्च शूद्राणामग्रे दानं गृहीतवान् ।
ग्रहणे मृतदानानामग्रदानी बभूव सः ॥ १३३॥
कश्चित्पुमान्ब्रह्मयज्ञे यज्ञकुण्डात्समुत्थितः ।
स सूतो धर्मवक्ता च मत्पूर्वषुरुषः स्मृतः ॥ १३४॥
पुराणं पाठयामास तं च ब्रह्मा कृपानिधिः ।
पुराणवक्ता सूतश्च यज्ञकुण्डसभुद्भवः ॥ १३५॥
वैश्यायां सूतवीर्येण पुमानेको बभूव ह ।
स भट्टो वावदूकश्च सर्वेषां स्तुतिपाठकः ॥ १३६॥
एवं ते कथितः किंचित्पृथिव्यां जातिनिर्णयः ।
वर्णसंकरदोषेण बह्व्योऽन्याः सन्ति जातयः ॥ १३७॥
संबन्धो येषु येषां यः सर्वजातिषु सर्वतः ।
तत्त्वं ब्रवीमि वेदोक्तं ब्रह्मणा कथितं पुरा ॥ १३८॥
पिता तातस्तु जनको जन्मदाता प्रकीर्तितः ।
अम्बा माता च जननी जनयित्री प्रसूरपि ॥ १३९॥
पितामहः पितृपिता तत्पिता प्रपितामहः ।
अत ऊर्ध्वं ज्ञातयश्च सगोत्राः परिकीर्तिताः ॥ १४०॥
मातामहः पिता मातुः प्रमातामह एव च ।
मातामहस्य जनकस्तत्पिता वृद्धपूर्वकः ॥ १४१॥
पितामही पितुर्माता तच्छ्वश्रूः प्रपितामही ।
तच्छ्वश्रूश्च परिज्ञेया सा वृद्धप्रपितामही ॥ १४२॥
मातामही मातृमाता मातृतुल्या च पूजिता ।
प्रमातामहीति ज्ञेया प्रमातामहकामिनी ॥ १४३॥
वृद्धमातामही ज्ञेया तत्पितुः कामिनी तथा ।
पितृभ्राता पितृव्यश्च मातृभ्राता च मातुलः ॥ १४४॥
पितृष्वसा पितुर्मातृष्वसा मातुः स्वसा स्मृता ।
सूनुश्च तनयः पुत्रो दायादश्चाऽत्मजस्तथा ॥ १४५॥
धनभाग्वीर्यजश्चैव पुंसि जन्ये च वर्तते ।
जन्यायां दुहिता कन्या चाऽऽत्मजा परिकीर्तिता ॥ १४६॥
पुत्रपत्नी वधूर्ज्ञेया जामाता दुहितुः पतिः ।
पतिः प्रियश्च भर्ता च स्वामी कान्ते च वर्तते ॥ १४७॥
देवरः स्वामिनो भ्राता ननान्दा स्वामिनः स्वसा ।
श्वशुरः स्वामिनस्तातः श्वश्रूश्च स्वामिनः प्रसूः ॥ १४८॥
भार्या जाया प्रिया कान्ता स्त्री च पत्नी प्रकीर्तिता ।
पत्नीभ्राता श्यालकश्च स्वसा पत्न्याश्च श्यालिका ॥ १४९॥
पत्नीमाता तथा श्वश्रूस्तत्पिता श्वशुरः स्मृतः ।
सगर्भः सोदरो भ्राता सगर्भा भगिनी स्मृता ॥ १५०॥
भगिनीजो भागिनेयो भ्रातृजो भ्रातृपुत्रकः ।
आवृत्तो भगिनीकान्तो भगिनीपतिरेव च ॥ १५१ ॥
श्यालीपतिस्तु भ्राता च श्वशुरैकत्वहेतुना ।
श्वशुरस्तु पता ज्ञेयो जन्मदातुः समो मुने ॥ १५२॥
अन्नदाता भयत्राता पत्नीतातस्तथैव च ।
विद्यादाता जन्मदाता पञ्चैते पितरो नृणाम् ॥ १५३॥
अन्नदातुश्च या पत्नी भगिनी गुरुकामिनी ।
माता च तत्सपत्नी च कन्या पुत्रप्रिया तथा ॥ १५४॥
मातुर्माता पितुर्माता श्वश्रूःपित्रोः स्वसा तथा ।
पितृव्यस्त्री मातुलानी मातरश्च चतुर्दश ॥ १५५॥
पौत्रस्तु पुत्रपुत्रे च प्रपौत्रस्तत्सुतेऽपि च ।
तत्पुत्राद्याश्च ये वंश्याः कुलजाश्च प्रकीर्तिताः ॥ १५६॥
कन्यापुत्रश्च दौहित्रस्तत्पुत्राद्याश्च बान्धवाः ।
भागिनेयसुताद्याश्च पुरुषा बान्धवाः स्मृताः ॥ १५७॥
भ्रातृपुत्रस्य पुत्राद्यास्ते पुनर्ज्ञातयः स्मृताः ।
गुरुपुत्रस्तथा भ्राता पोष्यः परमबान्धवः ॥ १५८॥
गुरुकन्या च भगिनी पोष्या मातृसमा मुने ।
पुत्रस्य च गुरुर्भ्राता पोष्यः सुस्निग्धबान्धवः ॥ १५९॥
पुत्रस्य श्वशुरो भ्राता बन्धुर्वैवाहिकः स्मृतः ।
कन्यायाः श्वशुरे चैव तत्संबन्धः प्रकीर्तितः ॥ १६०॥
गुरुश्च कन्यकायाश्च भ्राता सुस्निग्धबान्धवाः ।
गुरुश्वशुरभ्रातृणां गुरुतुल्यः प्रकीर्तितः ॥ १६१ ॥
बन्धुता येन सार्धं च तन्मित्रं परिकीर्तितम् ।
मित्रं सुखप्रदं ज्ञेयं दुःखदो रिपुरुच्यते ॥ १६२॥
बान्धवो दुःखदो दैवान्निःसंबन्धोऽसुखप्रदः ।
संबन्धास्त्रिविधाः पुंसां विप्रेन्द्र जगतीतले ॥ १६३॥
विद्याजो योनिजश्चैव प्रीतिजश्च प्रकीर्तितः ।
मित्रं तु प्रीतिजं ज्ञेयं स संबन्धः सुदुर्लभः ॥ १६४॥
मित्रमाता मित्रभार्या मातृतुल्या न संशयः ।
मित्रभ्राता मित्रपिता भातृतातसमौ नृणाम् ॥ १६५॥
चतुर्थं नामसंबन्धमित्याह कमलोद्भवः ।
जारश्चोपपतिर्बन्धुर्दुष्टसंभोगकर्तरि ॥ १६६॥
उपपत्न्यां नवज्ञा च प्रेयसी चित्तहारिणी ।
स्वामितुल्यश्च जारश्च नवज्ञा गृहिणीसमा ॥१६७॥
संबन्धो देशभेदे च सर्वदेशे विगर्हितः ।
अवैदिको निन्दितस्तु विश्वामित्रेण निर्मितः ॥ १६८॥
दुस्त्यजश्च महद्भिस्तु देशभेदे विधीयते ।
अकीर्तिजनकः पुंसां योषितां च विशेषतः ॥ १६९॥
तेजीयसां न दोषाय विद्यमाने युगे युगे ॥ १७०॥
इति श्रीब्रह्मवैवर्ते महापुराणे सौतिशौनकसंवादे
ब्रह्मखण्डं जातिसंबन्धनिर्णयो नाम दशमोऽध्यायः ॥ १०॥
GO TOP
|