ब्रह्मवैवर्तपुराणम्

प्रथमं ब्रह्मखण्डम् - नवमोऽध्यायः

प्रसूतिवंशवर्णनम् -


सौतिरुवाच
अथ ब्रह्मा स्वपुत्रांस्तानादिदेश च सृष्टये ।
सृष्टिं प्रचक्रुस्ते सर्वे विप्रेन्द्र नारदं विना ॥१॥
मरीचेर्मनसो जातः कश्यपश्च प्रजापतिः ।
अत्रेर्नेत्रमलाच्चन्द्रः क्षीरोदे च बभूव ह ॥२॥
प्रचेतसोऽपि मनसो गौतमश्च बभूव ह ।
पुलस्त्यमनसः पुत्रो मैत्रावरुण एव च ॥३॥
मनोश्च शतरूपायां तिस्रः कन्याः प्रजज्ञिरे ।
आकूतिर्देवहूतिश्च प्रसूतिस्ताः पतिव्रताः ॥४॥
प्रियव्रतोत्तानपादौ द्वौ च पुत्रौ मनोहरौ ।
उत्तानपादतनयो ध्रुवः परमधार्मिकः ॥५॥
आकूतिं रुचये प्रादाद्‌दक्षायाथ प्रसूतिकाम् ।
देवहूतिं कर्दमाय यत्पुत्रः कपिलः स्वयम् ॥६॥
प्रसूत्यां दक्षबीजेन षष्टिकन्याः प्रजज्ञिरे ।
अष्टौ धर्माय स ददौ रुद्रायैकादश स्मृताः ॥७॥
शिवायैकां सतीं प्रादात्कश्यपाय त्रयोदश ।
सप्तविंशतिकन्याश्च दक्षश्चन्द्राय दत्तवान् ॥८॥
नामानि धर्मपत्‍नीनां मत्तो विप्र निशामय ।
शान्तिः पुष्टिर्धृतिस्तुष्टिः क्षमा श्रद्धा मतिः स्मृतिः ॥९॥
शान्तेः पुत्रश्च संतोषः पुष्टेः पुत्रो महानभूत् ।
धृतेधैर्यं च तुष्टेश्च हर्षदर्पौ सुतौ स्मृतौ ॥ १ ०॥
क्षमापुत्रः सहिष्णुश्च श्रद्धापुत्रश्च धार्मिक ।
मतेर्ज्ञानाभिधः पुत्रः स्मृतेर्जातिस्मरो महान् ॥ ११ ॥
पूर्वपत्‍न्यां च मूर्त्यां च नरनारायणावृषी ।
बभूवुरेते धर्मिष्ठा धर्मपुत्राश्च शौनक ॥ १२ ॥
नामानि रुद्रपत्‍नीनां सावधानं निबोध मे ।
कला कलावती काष्ठा कालिका कलहप्रिया ॥ १३ ॥
कंदली भीषणा रास्ना प्रमोचा भूषणा शुकी ।
एतासां बहवः पुत्रा बभूवुः शिवपार्षदाः ॥ १४॥
सा सती स्वामिनिन्दायां तनुं तत्याज्य यज्ञतः ।
पुनर्भूत्वा शैलपुत्री लेभे सा शंकरं पतिम् ॥ १५॥
कश्यपस्य प्रियाणां च नामानि शृणु धार्मिक ।
अदितिर्देवमाता वै दैत्यमाता दितिस्तथा ॥ १६॥
सर्पमाता तथा कद्रूर्विनता पक्षिसूस्तथा ।
सुरभिश्च गवां माता महिषाणां च निश्चित्तम् ॥ १७॥
सारमेयादिजन्तूनां सरमा सूश्चतुष्पदाम् ।
दनुः प्रसूर्दानवानामन्याश्चेत्येवमादिकाः ॥१८॥
इन्द्रश्च द्वादशादित्या उपेन्द्राद्याः सुरा मुने ।
कथिताश्चादितेः पुत्रा महाबलपराक्रमाः ॥ १९॥
इन्द्रपुत्रो जयन्तश्च ब्रह्मञ्शच्यामजायत ।
आदित्यस्य सवर्णायां कन्यायां विश्वकर्मणः ॥२०॥
शनैश्चरयमौ पुत्रौ कालिन्दी कन्यका तथा ।
उपेन्द्रवीर्यात्पृथ्व्यां तु मङ्गल समजायत ॥२१॥
शौनक उवाच
कथं सौते स चोपेन्द्रान्मङ्गलः समजायत ।
वसुंधरायां बलवान्तन्मे व्याख्यातुमर्हसि ॥२२॥
सौतिरुवाच
उपेन्द्ररूपमालोक्य कामार्ता च वसुंधरा ।
विधाय सुन्दरीवेषमक्षता प्रौढयौवना ॥२३॥
मलये निर्जने रम्ये चारुचन्दनपल्लवे ।
चन्दनोक्षितसर्वाङ्गं रत्‍नभूषणभूषितम् ॥२४॥
तं सुशीलं शयानं च शान्तं सस्मितमीप्सितम् ।
सस्मिता तस्य तल्पे च सहसा समुपस्थिता ॥२५॥
सुरम्यां मालतीमालां ददौ तस्मै वरानना ।
सुगन्धि चन्दनं चारु कस्तूरीकुङ्कुमान्वितम् ॥२६॥
उपेन्द्रस्तन्मनो ज्ञात्वा कामिनीं कामपीडिताम् ।
नानाप्रकारशृङ्गारं चकार च तया सह ॥२७॥
तदङ्गसङ्गसंसक्ता मूर्छां प्राप सती तदा ।
मृतेव निद्रितेवासौ बीजाधाने कृते हरौ ॥२८॥
तां विलग्नां च सुश्रोणीं सुखसंभोगमूर्छिताम् ।
बृहन्मुक्तनितम्बां च सस्मितां विपुलस्तनीम् ॥२९॥
क्षणं वक्षसि कृत्वा तां तदोष्ठं च चुचुम्ब ह ।
विहाय तत्र रहसि जगाम पुरुषोत्तमः ॥३०॥
उर्वशी पथि गच्छन्ती बोधयामास तां मुने ।
सा च पप्रच्छ वृत्तान्तं कथयामास भूश्च ताम् ॥३१॥
ईर्यसंवरणं कर्तु सा चाशक्ता च दुर्बला ।
प्रवालस्याऽऽकरे त्रस्ता वीर्यन्यासं चकार सा ॥३२॥
तेन प्रवालवर्णश्च कुमारः समपद्य च ।
तेजसा सूर्यसदृशो नारायणसुतो महान् ॥३३॥
मङ्गलस्य प्रिया मेधा तस्य घण्टेश्वरो महान् ।
व्रणदाताऽतितेजस्वी विष्णुतुल्यो बभूव ह ॥३४॥
दितेर्हिरण्यकशिपुहिरण्याक्षौ महाबलौ ।
कन्या च सिंहिका विप्र सैंहिकेयश्चः तत्सुतः ॥३५॥
निर्ऋतिः सिंहिका सा च तेन राहुश्च नैर्ऋतः ।
सूकरेण हिरण्याक्षोऽप्यनपत्यो मृतो युवा ॥३६॥
हिरण्यकशिपोः पुत्रः प्रह्लादो वैष्णवाग्रणीः ।
विरोचनश्च तत्पुत्रस्तत्पुत्रश्च बलिः स्वयम् ॥३७॥
बलेः पुत्रो महायोगी ज्ञानी शंकरकिंकरः ।
दितेर्वंशश्च कथितः कद्रूवंशं निबोध मे ॥३८॥
अनन्तं वासुकिं चैव कालीयं च धनंजयम् ।
कर्कोटकं तक्षकं च पद्ममैरावतं तथा ॥३९॥
महापद्मं च शङ्कुं च शङ्खं च संवरणं तथा ।
धृतराष्ट्रं च दुर्धर्षं दुर्जयं दुर्मुखं बलम् ॥४०॥
मोक्षं गोकामुकं चैव विरूपादींश्च शौनक ।
एतेषां प्रवरांश्चैव यावत्यः सर्पजातयः ॥४१॥
कन्यका मनसा देवी कमलांशसमुद्‌भवा ।
तपस्विनीनां प्रवरा महातेजस्विनी शुभा ॥४२॥
यत्पतिश्च जरत्कारुर्नारायणबलोद्‌भवः ।
आस्तीकस्तनयो यस्या विष्णुतुल्यश्च तेजसा ॥४३॥
एतेषां नाममात्रेण नास्ति नागभयं नृणाम् ।
कद्रूवंशो निगदितो विनतायाः शृणुष्व मे ॥४४॥
वैनतेयारुणौ पुत्रौ विष्णुतुल्यपराक्रमौ ।
तौ बभूवुः क्रमेणैव यावत्यः पक्षिजातयः ॥४५॥
गावश्च महिषाश्चैव सुरभिप्रवरा इमे ।
सर्वे वै सारमेयाश्च बभूवुः सरमासुताः ॥४६॥
दानवाश्च दनोर्वंश्या अन्याः सामान्यजातयः ।
उक्तः कश्यपवंशश्च चन्द्राख्यानं निबोध मे ॥४७॥
नामानि चन्द्रपत्‍नीनां सावधानं निशामय ।
अत्यपूर्वं च चरितं पुराणेषु पुरातनम् ॥४८॥
अश्विनी भरणी चैव कृत्तिका रोहिणी तथा ।
मृगशीर्षा तथाऽऽर्द्रा च पूज्या साध्वी पुनर्वसुः ॥४९॥
पुष्याऽऽश्लेषा मघा पूर्वफल्गुन्युत्तरफल्गुनी ।
हस्ता चित्रा तथा स्वाती विशाखा चानुराधिका ॥५०॥
ज्येष्ठा मूला तथा पूर्वाषाढा चैवोत्तरा स्मृता ।
श्रवणा च धनिष्ठा च तथा शतभिषक्‌छुभा ॥५ १ ॥
पूर्वा भाद्रोत्तरा भाद्रा रेवत्यन्ता विधुप्रियाः ।
तासां मध्ये च सुभगा रोहिणी रसिका वरा ॥५२॥
संततं रसभावेन चकार शशिनं वशम् ।
रोहिण्युपगतश्चन्द्रो न यात्यन्यां च कामिनीम् ॥५३॥
सर्वा भगिन्यः पितरं कथयामासुरादृताः ।
सपत्‍नीकृतसंतापं प्राणनाशकरं परम् ॥५४॥
दक्षः प्रकुपितश्चन्द्रमशपन्मन्त्रपूर्वकम् ।
द्रुतं श्वशुरशापेन यक्ष्मग्रस्तो बभूव सः ॥५५॥
दिने दिने यक्ष्मणा स क्षीयमाणश्च दुःखितः ।
वपुष्यर्धं क्षीयमाणे शंकरं शरणं ययौ ॥५६॥
दृष्ट्‍वा चन्द्रं शंकरश्च क्लेशितं शरणागतम् ।
करुणासागरस्तस्मै कृपया चाभयं ददौ ॥५७॥
निर्मुक्तं यक्ष्मणा कृत्वा स्वकपाले स्थलं ददौ ।
अपरो निर्भयो भूत्वा स तस्थौ शिवशेखरे ॥५८॥
तं शिवः शेखरे कृत्वा चाभवच्चन्द्रशेखरः ।
नास्ति लोकेषु देवेषु शिवाच्छरणपञ्जरः ॥५९॥
दक्षकन्याः पतिं मुक्तं दृष्ट्‍वा च रुरुदुः पुनः ।
आजग्मुः शरणं तातं दक्षं तेजस्विनां वरम् ॥६०॥
उच्चैश्च रुरुदुर्गत्वा निहत्याङ्गं पुनः पुनः ।
तमूचुः कातरं दीना दीनानाथं विधेः सुतम् ॥६१ ॥
दक्षकन्या ऊचुः
स्वामिसौभाग्यलाभाय त्वमुक्तोऽस्माभिरेव च ।
सौभाग्यमस्तु नस्तात गतः स्वामी गुणान्वितः ॥६२॥
स्थिते चक्षुषि हे तात दृष्टं ध्वान्तमयं जगत् ।
विज्ञातमधुना स्त्रीणां पतिरेव हि लोचनम् ॥६३॥
पतिरेव गतिः स्त्रीणां पतिः प्राणाश्च संपदः ।
धर्मार्थकाममोक्षाणां हेतुः सेतुर्भवार्णवे ॥६४॥
पतिर्नारायणः स्त्रीणां व्रतं धर्मः सनातनः ।
सर्वं कर्म वृथा तासां स्वामिनो विमुखाश्च याः ॥६५॥
स्नानं च सर्वतीर्थेषु सर्वयज्ञेषु दक्षिणा ।
सर्वदानानि पुण्यानि व्रतानि नियमाश्च ये ॥६६॥
देवार्चनं चानशनं सर्वाणि च तपांसि च ।
स्वामिनः पादसेवायाः कलां नार्हन्ति षोडशीम् ॥६७॥
सर्वेषां बान्धवानां च प्रियः पुत्रश्च योषिताम् ।
स एव स्वामिनोंऽशश्च शतपुत्रात्परः पतिः ॥६८॥
असद्वंशप्रसूता या सा द्वेष्टि स्वामिनं सदा ।
यस्या मनश्चलं दुष्टं सततं परपूरुषे ॥६९॥
पतितं रोगिणं दुष्टं निर्धनं गुणहीनकम् ।
युवानं चैव वृद्धं वा भजेत्तं न त्यजेत्सती ॥७०॥
सगुणं निर्गुणं वाऽपि द्वेष्टि या संत्यजेत्पतिम् ।
पच्यते कालसूत्रे सा यावच्चन्द्रदिवाकरौ ॥७१॥
कीटैः शुनकतुल्यैश्च भक्षिता सा दिवानिशम् ।
भुङ्क्ते मृतवसामांसे पिबेन्मूत्रं च तृष्णया ॥७२॥
गृध्रः कोटिसहस्राणि शतजन्मानि सूकरः ।
श्वापदः शतजन्मानि सा भवेद्‌बन्धुहा ततः ॥७३॥
ततो मानवजन्मानि लभेच्चेत्पूर्वकर्मणः ।
विधवा धनहीना च रोगयुक्ता भवेद्ध्रुवम् ॥७४॥
देहि नः कान्तदानं च कामपूरं विधेः सुत ।
विधात्रा सदृशस्त्वं च पुनः स्रष्टुं क्षमो जगत् ॥७५॥
कन्यानां वचनं श्रुत्वा दक्षः शंकरसंनिधिम् ।
जगाम शंभुस्तं दृष्ट्वा समुत्थाय ननाम च ॥७६॥
दक्षस्तस्याऽऽशिषं कृत्वा समुवाच कृपानिधिम् ।
तत्याज कोपं दुर्धर्षं दृष्ट्‌वा च प्रणतं शिवम् ॥७७॥
दक्ष उवाच
देहि जामातरं शंभो मदीयं प्राणवल्लभम् ।
मत्सुतानां च प्राणानां परमेव प्रियं पतिम् ॥७८॥
न चेद्‌ददासि जामातर्मम जामातरं विधुम् ।
दास्यामि दारुणं शापं तुभ्यं त्वं केन मुच्यसे ॥७९॥
दक्षस्य वचनं श्रुत्वा तमुवाच कृपानिधिः ।
सुधाधिकं च वचनं ब्रह्मञ्शरणपञ्जरः ॥८०॥
शिव उवाच
करोषि भस्मसाच्चेन्मां दत्त्वा वा शापमेव च ।
नाहं दातुं समर्थश्च चन्द्रं च शरणागतम् ॥८१ ॥
शिवस्य वचनं श्रुत्वा दक्षस्तं शप्तुमुद्यतः ।
शिवः सस्मार गोविन्दं विपन्मोक्षणकारकम् ॥८२ ॥
एतस्मिन्नन्तरे कृष्णो वृद्धब्राह्मणरूपधृक् ।
समाययौ तयोर्मूलं तौ तं च नमतुः क्रमात् ॥८३ ॥
दत्त्वा शुभाशिषं तौ स ब्रह्मज्योतिः सनातनैः ।
उवाच शंकरं पूर्वं परिपूर्णतमो द्विज ॥८४॥
श्रीभगवानुवाच
न चाऽऽत्मनः प्रियः कश्चिच्छर्व सर्वेषु बन्धुषु ।
आत्मानं रक्ष दक्षाय देहि चन्द्र सुरेश्वर ॥८५ ॥
तपस्विनां वरः शान्तस्त्वमेवं वैष्णवाग्रणीः ।
समः सर्वेषु जीवेषु हिंसाक्रोधविर्वजितः ॥८५ ॥
दक्षः क्रोधी च दुर्धर्षस्तेजस्वी ब्रह्मणःसुतः ।
शिष्टौ बिभेति दुर्धर्षं न दुर्धर्षश्च कञ्चन ॥८७॥
नारायणवचः श्रुत्वा हसित्वा शंकरः स्वयम् ।
उवाच नीतिसारं च नीतिबीजं परात्परम् ॥८८॥
शंकर उवाच
तपो दास्यामि तेजश्च सर्वसिद्धिं च संपदम् ।
प्राणांश्च न समर्थोऽहं प्रदातुं शरणागतम् ॥८९॥
यो ददाति भयेनैव प्रपन्नं शरणागतम् ।
तं च धर्मः परित्यज्य याति शप्त्वा सुदारुणम् ॥ ९० ॥
सर्वं त्यक्तं समर्थोऽहं न स्वधर्म जगत्प्रभो ।
यः स्वधर्मविहीनश्च स च सर्वबहिष्कृतः ॥९१ ॥
यश्च धर्मं सदा रक्षेद्धर्मस्तं परिरक्षति ।
धर्मं वेदेश्वर त्वं च किं मां ब्रूहि स्वमायया ॥९२॥
त्वं सर्वमाता स्रष्टा च हन्ता च परिणामतः ।
त्वयि भक्तिर्दृढा यस्य तस्य कस्माद्‌भयं भवेत् ॥९३॥
शंकरस्य वचः श्रुत्वा भगवान्सर्वभाववित् ।
चन्द्रं चन्द्राद्विनिष्कृष्य दक्षाय प्रददौ हरिः ॥९४॥
प्रतस्थावर्धचन्द्रश्च निर्व्याधिः शिवशेखरे ।
निजग्राह परं चन्द्रं विष्णुदत्तं प्रजापतिः ॥९५॥
यक्ष्मग्रस्तं च तं दृष्ट्‍वा दक्षस्तुष्टाव माधवम् ।
पक्षे पूर्णं क्षतं पक्षे तं चकार हरिः स्वयम् ॥९६॥
कृष्ण एवं वरं दत्त्वा जगाम स्वालयं द्विज ।
दक्षश्चन्द्रं गृहीत्वा च कन्याभ्यः प्रददौ पुनः ॥९७॥
चन्द्रस्ताश्च परिप्राप्य विजहार दिवानिशम् ।
समं ददर्श ताः सर्वास्तत्प्रभृत्येव कम्पितः ॥९८॥
इत्येवं कथितं सर्वं किंचित्सृष्टिक्रमं मुने ।
श्रुतं च गुरुवक्त्रेण पुष्करे मुनिसंसदि ॥९९॥
इति श्रीब्रह्मवैवर्ते महापुराणे सौतिशौनकसंवादे
ब्रह्मखण्डे प्रसूतिवंशवर्णनं नाम नवमोऽध्यायः ॥९॥


GO TOP