ब्रह्मवैवर्तपुराणम् - प्रथमं ब्रह्मखण्डम् - अष्टमोऽध्यायः

ब्रह्मवैवर्तपुराणम्

प्रथमं ब्रह्मखण्डम् - अष्टमोऽध्यायः

ब्रह्मनारदशापोपलम्भनम् -


सौतिरुवाच
ब्रह्मा विश्वं विनिर्माय सावित्र्यां वरयोषिति ।
चकार वीर्याधानं च कामुक्यां कामुको यथा ॥ १॥
सा दिव्यं शतवर्षं च धृत्वा गर्भं सुदुःसहम् ।
सुप्रसूता च सुषुवे चतुर्वेदान्मनोहरान् ॥२॥
विविधाञ्शास्त्रसंघांश्च तर्कव्याकरणादिकान् ।
षट्त्रिंशत्संख्यका दिव्या रागिणीः सुमनोहराः ॥३॥
षड् रागान्सुन्दरांश्चैव नानातालसमन्वितान् ।
सत्यत्रेताद्वापरांश्च कलिं च कलहप्रियम् ॥४॥
वर्षं मासमृतुं चैव तिथिं दण्डक्षणादिकम् ।
दिनं रात्रिं च वारांश्च संध्यामुषसमेव च ॥५॥
पुष्टिं च देवसेनां च मेधां च विजयां जयाम् ।
षट् कृत्तिकाश्च योगांश्च करणं च तपोधन ॥६॥
देवसेनां महाषष्टीं कार्तिकेयप्रियां सतीम् ।
मातृकासु प्रधाना सा बालानामिष्टदेवता ॥७॥
ब्राह्म पाद्मं च वाराहं कल्पत्रयमिदं स्मृतम् ।
नित्यं नैमित्तिकं चैव द्विपरार्धं च प्राकृतम् ॥८॥
चतुर्विधं च प्रलयं कालं वै मृत्युकन्यकाम् ।
सर्वान्व्याधिगणाश्चैव सा प्रसूय स्तनं ददौ ॥९॥
अथ धातुः पृष्ठदेशादधर्मः समजायत ।
अलक्ष्मीस्तद्वामर्पाश्वाद्‌बभूवात्यन्तकामिनी ॥१०॥
नाभिदेशाद्‌विश्वकर्मा जातो वै शिल्पिनां गुरुः ।
महान्तो वसवोऽष्टौ च महाबलपराक्रमाः ॥११॥
अथ धातुश्च मनस आविर्भूता कुमारकाः ।
चत्वारः पञ्जवर्षीया ज्वलन्तो ब्रह्मतेजसा ॥१२॥
सनकश्च सनन्दश्च तृतीयश्च सनातनः ।
सनत्कुमारो भगवांश्चतुर्थो ज्ञानिनां वरः ॥१३॥
आविर्बभूव मुखतः कुमारः कनकप्रभः ।
दिव्यरूपधरः श्रीमान्सस्त्रीकः सुन्दरो युवा ॥१४॥
क्षत्रियाणां बीजरूपो नाम्ना स्वायंभुवो मनुः ।
या स्त्री सा शतरूपा च रूपाढ्या कमलाकला ॥१५॥
सस्त्रीकश्च मनुस्तस्थौ धात्राज्ञापरिपालकः ।
स्वयं विधाता पुत्रांश्च तानुवाच प्रहर्षितान् ॥१६॥
सृष्टिं कर्तुं महाभागो महाभागवतान्द्विजः ।
जग्मुस्ते च नहीत्युक्त्वा तत्तु कृष्णपरायणाः ॥ १७॥
चुकोप हेतुना तेन विधाता जगतां पतिः ।
कोपासक्तस्य च विधेर्ज्वलतो ब्रह्मतेजसा ॥ १८॥
आविर्भूता ललाटाच्च रुद्रा एकादश प्रभो ।
कालाग्निरुद्रः संहर्ता तेषामेकः प्रकीर्तितः ॥ १९॥
सर्वेषामेव विश्वानां स तामस इति स्मृतः ।
राजसश्च स्वयं ब्रह्मा शिवो विष्णुश्च सात्त्विकौ ॥२०॥
गोलोकनाथः कृष्णश्च निर्गुणः प्रकृतेः परः ।
परमज्ञानिनो मूर्खा वदन्ति तामसं शिवम् ॥२ १॥
शुद्धसत्त्वस्वरूपं च निर्मलं वैष्णवाग्रणीम् ।
शृणु नामानि रुद्राणां वेदोक्तानि च यानि च ॥२२॥
महान्महात्मा मतिमान्भीषणश्च भयंकरः ।
ऋतुध्वजश्चोर्ध्वकेशः पिङ्गलाक्षो रुचिः शुचिः ॥२३॥
पुलस्यो दक्षकर्णाच्च पुलहो वामकर्णतः ।
दक्षनेत्रात्तथाऽत्रिश्च वामनेत्रात्क्रतुः स्वयम् ॥२४॥
अरणिर्नासिकारन्ध्रादङ्गिराश्च मुखाद्‌रुचिः ।
भृगुश्च वामपार्श्वाच्च दक्षो दक्षिणपार्श्वतः ॥२५॥
छायायाः कर्दमो जातो नाभेः पञ्चशिखस्तथा ।
वक्षसश्चैव वोढुश्च कण्ठदेशाच्च नारदः ॥२६॥
मरीचिः स्कन्धदेशाच्चैवापान्तरतमा गलात् ।
वसिष्ठो रसनादेशात्प्रचेता अधरोष्ठतः ॥२७॥
हंसश्च वामकुक्षेश्च दक्षकुक्षेर्यतिः स्वयम् ।
सृष्टिं विधातुं स विधिश्चकाराऽज्ञां सुतान्प्रति ।
पितुर्वाक्यं समाकर्ण्य तवमुवाच स नारदः ॥२८॥
नारद उवाच
पूर्वमानय मज्ज्येष्ठान्सनकादीन्पितामह ।
कारयित्वा दारयुक्तानस्मान्वद जगत्पते ॥२९॥
पित्रा ते तपसे युक्ताः संसाराय वयं कथम् ।
अहो हन्त प्रभोर्बुद्धिर्विपरीताय कल्पते ॥३०॥
कस्मै पुत्राय पीयूषात्परं दत्तं तपोऽधुना ।
कस्मै ददासि विषयं विषमं च विषाधिकम् ॥३१॥
अतीव निम्ने घोरे च भवाब्धौ यः पतेत्पितः ।
निष्कृतिस्तस्य नास्तीति कोटिकल्पे गतेऽपि च ॥३२॥
निस्तारबीजं सर्वेषां बीजं च पुरुषोत्तमम् ।
सर्वदं भक्तिदं दास्यप्रदं सत्यं कृपामयम् ॥३३॥
भक्तैकशरणं भक्तवत्सलं स्वच्छमेव च ।
भक्तप्रियं भक्तनाथं भक्तानुग्रहकारकम् ॥३४॥
भक्ताराध्यं भक्तसाध्यं विहाय परमेश्वरम् ।
मनो दधाति को मूढो विषये नाशकारणे ॥३५॥
विहाय कृष्णसेवां च पीयूषादधिकां प्रियाम् ।
को मूढो विषमश्नाति विषमं विषयाभिधम् ॥ ३६॥
स्वप्नवन्नश्वरं तुच्छमसत्यं मृत्युकारणम् ।
यथा दीपशिखाग्रं च कीटानां सुमनोहरम् ॥ ३७॥
यथा बडिशमांसं च मत्स्यापातसुखप्रदम् ।
तथा विषयिणां तात विषयो मृत्युकारणम् ॥ ३८॥
इत्युक्त्वा नारदस्तत्र विरराम विधेः पुरः ।
तस्थौ तातं नमस्कृत्य ज्वलदग्निशिखोपमः ॥ ३९॥
ब्रह्मा कोपपरीतश्च शशाप तनयं द्विज ।
उवाच कम्पिताङ्‍गश्च रक्तास्यः स्फुरिताधरः ॥४० ॥
ब्रह्मोवाच
भविता ज्ञानलोपस्ते मच्छापेन च नारद ।
क्रीडामृगश्च त्वं साध्यो योषिल्लुब्धश्च लम्पटः ॥४१ ॥
स्थिरयौवनयुक्तानां रूपाढ्यानां मनोहरः ।
पञ्चाशत्कामिनीनां च भर्ता च प्राणवल्लभः ॥४२ ॥
शृङ्गारशास्त्रवेत्ता च महाशृङ्गारलोलुपः ।
नानाप्रकारशृङ्गारनिपुणानां गुरोर्गुरुः ॥४३ ॥
गन्धर्वाणां च सुवरः सुस्वरश्च सुगायनः ।
वीणावादनसंदर्भनिष्णातः स्थिरयौवनः ॥४४॥
प्राज्ञो मधुरवाक्शान्तः सुशीलः सुन्दरः सुधी ।
भविष्यसि न संदेहो नामतश्चोपबर्हणः ॥४५ ॥
ताभिर्दिव्यं लक्षयुगं विहृत्य निजने वने ।
पुनर्मदीयशापेन दासीपुत्रश्च तत्परः ॥४६॥
वत्स वैष्णवसंसर्गाद्वैष्णवोच्छिष्टभोजनात् ।
पुनः कृष्णप्रसादेन भविष्यसि ममाऽऽत्मजः ॥४७॥
ज्ञानं दास्यामि ते दिव्यं पुनरेव पुरातनम् ।
अधुना भव नष्टस्त्वं मत्सुतो निपत ध्रुवम् ॥४८॥
ब्रह्मेत्युक्त्वा सुतं विप्र विरराम जगत्पतिः ।
रुरोद नारदस्तातमवोचत्संपुटाञ्जलिः ॥४९॥
नारद उवाच
क्रोधं संहर संहर्तस्तात तात जगद्‌गुरो ।
स्रष्टुस्तपस्वीशस्याहो क्रोधोऽयं मय्यनाकरः ॥५०॥
शपेत्परित्यजेद्विद्वान्पुत्रमुत्पथगामिनम् ।
तपस्विनं सुतं शप्तुं कथमर्हसि पण्डित ॥५१॥
जनिर्भवतु मे ब्रह्मन्यासु यासु च योनिषु ।
न जहातु हरेर्भक्तिर्मामेवं देहि मे वरम् ॥५२॥
पुत्रश्चेज्जगतां धातुर्नास्ति भक्तिर्हरेः पदे ।
सूकरादतिरिक्तश्च सोऽधमो भारते भुवि ॥५३॥
जातिस्मरो हरेर्भक्तियुक्तः सूकरयोनिषु ।
जनिर्लभेत्स प्रवरो गोलोकं याति कर्मणा ॥५४॥
गोविन्दचरणाम्भोजभक्तिमाध्वीकमीप्सितम् ।
पिबतां वैष्णवादीनां स्पर्शपूता वसुंधरा ॥५५॥
तीर्थानि स्पर्शमिच्छन्ति वैष्णवानां पितामह ।
पापानां पापितत्त्वानां क्षालनायाऽऽत्मनामपि ॥५६॥
मन्त्रोपदेशमात्रेण नरा मुक्ताश्च भारते ।
परैश्च कोटिपुरुषैः पूर्वैः सार्धं हरेरहो ॥५७॥
कोटिजन्मार्जितात्पापान्मन्त्रग्रहणमात्रतः ।
मुक्ताः शुध्यन्ति यत्पूर्वं कर्म निर्मूलयन्ति च ॥५८॥
पुत्रान्दारांश्च शिष्यांश्च सेवकान्बान्धवांस्तथा ।
यो दर्शयति सन्मार्गं सद्‌गतिस्तं लभेद्ध्रुवम् ॥५९॥
यो दर्शयत्यसन्मार्ग शिष्यैर्विश्वासितो गुरुः ।
कुम्भीपाके स्थितिस्तस्य यावच्चन्द्रदिवाकरौ ॥६०॥
स किंगुरुः स किंतात स किंस्वामी स किंसुतः ।
यः श्रीकृष्णपदाम्भोजे भक्ति दातुमनीश्वरः ॥६१॥
शप्तो निरपराधेन त्वयाऽहं चतुरानन ।
मया शप्तुं त्वमुचितो घ्नन्तं घ्नन्त्यपि पण्डिताः ॥६२॥
कवचस्तोत्रपूजाभिः सहितस्ते मनुर्मनोः ।
लुप्तो भवतु मच्छापात्प्रतिविश्वेषु निश्चितम् ॥६३॥
अपूज्यो भव विश्वेषु यावत्कल्पत्रयं पितः ।
गतेषु त्रिषु कल्पेषु पूज्य पूज्यो भविष्यसि ॥६४॥
अधुना यज्ञभागस्ते व्रतादिष्वपि सुव्रत ।
पूजनं चास्तु नामैकं वन्द्यो भव सुरादिभिः ॥६५॥
इत्युक्त्वा नारदस्तत्र विरराम पितुः पुरः ।
तस्थौ सभायां स विधिर्हृदयेन विदूयता ॥।६६॥
उपबर्हणगन्धर्वो नारदस्तेन हेतुना ।
दासीपुत्रश्च शापेन पितुरेव च शौनक ॥६७॥
ततः पुनर्नारदश्च स बभूव महानृषिः ।
ज्ञानं प्राप्य पितुः पश्चात्कथयिष्यामि चाधुना ॥६८॥
ति श्रीब्रह्मवैवर्तमहापुराणे सैतिशौनकसंवादे
ब्रह्मखण्डे ब्रह्मनारदशापोपलम्भनं नामाष्टमोऽध्यायः ॥८॥


GO TOP