ब्रह्मवैवर्तपुराणम्

प्रथमं ब्रह्मखण्डम् - चतुर्थोऽध्यायः

सृष्टिनिरूपणम् -


सौतिरुवाच
आविर्बभूव तत्पश्चात्कृष्णस्य रसनाग्रतः ।
शुद्धस्फटिकसंकाशा देवी चैका मनोहरा ॥ १॥
शुक्लवस्त्रपरीधाना सर्वालंकारभूषिता ।
बिभ्रती जपमालां च सावित्री सा प्रकीर्तिता ॥२॥
सा तुष्टाव पुरः स्थित्वा परं ब्रह्म सनातनम् ।
पुटाञ्जलिपरा साध्वी भक्तिनम्रात्मकंधरा ॥३॥
सावित्र्युवाच
नमामि सर्वबीजं त्वां ब्रह्मज्योतिः सनातनम् ।
परात्परतरं श्यामं निर्विकारं निरञ्जनम् ॥४॥
इत्युक्त्वा सस्मिता देवी रत्‍नसिंहासने वरे ।
उवास श्रीहरिं नत्वा पुनरेव श्रुतिप्रसूः ॥५॥
आविर्बभूव तत्पश्चात्कृष्णस्य परमात्मनः ।
मानसाच्च पुमानेकस्तप्तकाञ्चनसंनिभः ॥६॥
मनो मथ्नाति सर्वेषां पञ्चबाणेन कामिनाम् ।
तन्नाम मन्मथं तेन प्रवदन्ति मनीषिणः ॥७॥
तस्य पुंसो वामपार्श्वात्कामस्य कामिनी वरा ।
बभूवातीवललिता सर्वेषां मोहकारिणी ॥८॥
रतिर्बभूव सर्वेषां तां दृष्ट्वा सस्मितां सतीम् ।
रतीति तेन तन्नाम प्रवदन्ति मनीषिणः ॥९॥
हरिं स्तुत्वा तया सार्द्धं स उवास हरेः पुरः ।
रत्‍नसिंहासने रम्ये पञ्चबाणो धनुर्धरः ॥१०॥
मारणं स्तम्भनं चैव जृम्भणं शोषणं तथा ।
उन्मादनं पञ्चबाणान्पञ्चबाणो बिभर्ति सः ॥११॥
बाणांश्चिक्षेप सर्वांश्च कामो बाणपरीक्षया ।
सद्यः सर्वे सकामाश्च बभूवुरीश्वरेच्छया ॥१२॥
रतिं दृष्ट्वा ब्रह्मणश्च रेतःपातो बभूव ह ।
तत्र तस्थौ महायोगी वस्त्रेणाऽऽच्छाद्य लज्जया ॥१२अ॥
वस्त्रं दग्ध्वा समुत्तस्थौ ज्वलवग्निः सुरेश्वरः ।
कोटितालप्रमाणश्च सशिखश्च समुज्ज्वलन् ॥१३॥
कृष्णस्तद्वर्धन दृष्ट्वा ससर्जापः स्वलीलया ।
निःश्वासवायुना सार्धं मुखबिन्दूत्समुद्‌गिरन् ॥१५॥
विश्वौघं प्लावयामास मुखबिन्दुजलं द्विज ।
तत्रकिंचिज्जलकणं वह्निं शान्तं चकार ह ॥ १६॥
ततःप्रभृति तेनाग्निस्तोयान्निर्वाणतां व्रजेत् ।
आविर्भूतः पुमानेकस्ततस्तदधिदेवता ॥ १७॥
उत्तस्थौ तज्जलादेकः पुमान्स वरुणः स्मृतः ।
जलाधिष्ठातृदेवोऽसौ सर्वेषां यादसां पतिः ॥ १८॥
आविर्बभूव कन्यैका तद्वह्नेऽर्वामपार्श्वतः ।
सा स्वाहा वह्निपत्‍नीं तां प्रवदन्ति मनीषिणः ॥ १९॥
जलेशस्य वामपार्श्वात्कन्या चैका बभूव सा ।
वरुणानीति विख्याता वरुणस्य प्रिया सती ॥२०॥
बभूव पवनः श्रीमान्विभोर्निःश्वासवायुना ।
स च प्राणश्च सर्वेषां निःश्वासस्तत्कलोद्‌भवः ॥२१ ॥
तस्य वायोर्वामपार्श्वात्कन्या चैका बभूव ह ।
वायोः पत्‍नी च सा देवी वायवी परिकीर्तिता ॥२२॥
कृष्णस्य कामबाणेन रेतः पातो बभूव हु ।
जले तद्‌रेचनं चक्रे लज्जया सुरसंसदि ॥२३॥
सहस्रवत्सरान्ते तड्‌डिम्भरूपं बभूव ह ।
ततो महान्विराड्जज्ञे विश्वोघाधार एव सः ॥२४॥
यस्यैकलोमविवरे विश्वैकस्य व्यवस्थितिः ।
स्थूलात्स्थूलतरः सोऽपि महान्नान्यस्ततः परः ॥२५॥
स एव षोडशांशोऽपि कृष्णस्य परमात्मनः ।
महाविष्णुः स विज्ञेयः सर्वाधारः सनातनः ॥२६॥
महार्णवे शयानः स पद्मपत्रं यथा जले ।
बभूवतुस्तौ द्वौ दैत्यौ तस्य कर्णमलोद्‌भवौ ॥२७॥
तां जलाच्च समुत्थाय ब्रह्माणं हन्तुमुद्यतौ ।
नारायणश्च भगवाञ्जघने तौ जघान ह ॥२८॥
बभूव मेदिनी कृत्स्ना कार्त्स्न्येन मेदसा तयोः ।
तत्रैव सन्ति विश्वानि साच देवी वसुंधरा ॥२९॥
इति श्रीब्रह्मवैवर्ते महापुराणे ब्रह्मखण्डं सौतिशौनकसंवादे
सृष्टिनिरूपणं नाम चतुर्थोऽध्यायः ॥४॥


GO TOP