ब्रह्मवैवर्तपुराणम्
प्रथमं ब्रह्मखण्डम् - तृतीयोऽध्यायः
सृष्टिनिरूपणे दुर्गास्तोत्रम् -
सौतिरुवाच
दृष्ट्वा शून्यमयं विश्वं गोलोकं च भयंकरम् ।
निर्जन्तुनिर्जलं घोरं निर्वातं तमसाऽऽवृतम् ॥ १॥
वृक्षशैलसमुद्रादिविहीनं विकृताकृतिम् ।
निर्मृत्तिकं च निर्धातुं निःसस्यं निस्तृणं द्विज ॥२॥
आलोच्य मनसा सर्वमेक एवासहायवान् ।
स्वेच्छया स्रष्टुमारेभे सृष्टिं स्वेच्छामयः प्रभुः ॥३॥
जाविर्बभूवुः सर्गादौ पुंसो दक्षिणपार्श्वतः ।
भवकारणरूपाश्च मूर्तिमन्तस्त्रयो गुणाः ॥४॥
ततो महानहंकारः पञ्चतन्मात्र एव च ।
रूपरसगन्धस्पर्शशब्दाश्चैवेति संज्ञकाः ॥५॥
आविर्बभूव तत्पश्चात्स्वयं नारायणः प्रभुः ।
श्यामो युवा पीतवासा वनमाली चतुर्भुजः ॥६॥
शङ्खचक्रगदापद्मधरः स्मेरमुखाम्बुजः ।
रत्नभूषणभूषाढ्यः शार्ङ्गी कौस्तुभभूषणः ॥७॥
श्रीवत्सवक्षाः श्रीवासः श्रीनिधिः श्रीविभावनः ।
शारदेन्दुप्रभामृष्टमुखेन्दुसुमनोहरः ॥८॥
कामदेवप्रभामृष्टरूपलावण्यसुन्दरः ।
श्रीकृष्णपुरतः स्थित्वा तुष्टाव तं पुटाञ्जलिः ॥९॥
नारायण उवाच
वरं वरेण्यं वरदं वरार्हं वरकारणम् ।
कारणं कारणानां च कर्म तत्कर्मकारणम् ॥ १०॥
तपस्तत्फलदं शश्वत्तपस्वीशं च तापसम् ।
वन्दे नवघनश्यामं स्वात्मारामं मनोहरम् ॥ ११॥
निष्कामं कामरूपं च कामघ्नं कामकारणम् ।
सर्वे सर्वेश्वरं सर्वबीजरूपमनुत्तमम् ॥ १२॥
वेदरूपं वेदबीजं वेदोक्तफलदं फलम् ।
वेदज्ञं तद्विधानं च सर्ववेदविदां वरम् ॥ १३॥
इत्युक्त्वा भक्तियुक्तश्च स उवास तदाज्ञया ।
रत्नसिंहासने रम्ये पुरतः परमात्मनः ॥१४॥
नारायणकृतं स्तोत्रं यः पठेत्सुसमाहितः ।
त्रिसंध्यं यः पठेन्नित्यं पापं तस्य न विद्यते ॥१५॥
पुत्रार्थी लभते पुत्रं भार्यार्थी लभते प्रियाम् ।
भ्रष्टराज्यो लभेद्राज्यं धनं भ्रष्टधनो लभेत् ॥ १६॥
कारागारे विपद्ग्रस्तः स्तोत्रेणानेन मुच्यते ।
रोगात्प्रमुच्यते रोगी वर्षं श्रुत्वा च संयतः ॥१७॥
इति ब्रह्मवैवर्तं नारायणकृतं श्रीकृष्णस्तोत्रम् ।
सौतिरुवाच
आविर्बभूव तत्पश्चादात्मनो वामपार्श्वतः ।
शुद्धस्फटिकसंकाशः पञ्चवक्त्रो दिगम्बरः ॥१८॥
तप्तकाञ्चनवर्णाभजटाभारधरो वरः ।
ईषद्धास्यप्रसन्नास्यस्त्रिनेत्रश्चन्द्रशेखरः ॥ १९॥
त्रिशूलपट्टिशधरो जपमालाकरः परः ।
सर्वसिद्धेश्वरः सिद्धो योगीन्द्राणां गुरोर्गुरुः ॥२०॥
मृत्योमृत्युरीश्वरश्च मृत्युर्मृत्युंजयः शिवः ।
ज्ञानानन्दो महाज्ञानी महाज्ञानप्रदः परः ॥२१॥
पूर्णचन्द्रप्रभामृष्टसुखदृश्यो मनोहरः ।
वैष्णवानां च प्रवरः प्रज्वलन्ब्रह्मतेजसा ॥२२॥
श्रीकृष्णपुरतः स्थित्वा तुष्टाव तं पुटाञ्जलिः ।
पुलकाङ्कितसर्वाङ्गः साश्रुनेत्रोऽतिगद्गदः ॥२३॥
महादेव उवाच
जयस्वरूपं जयदं जयेशं जयकारणम् ।
प्रवरं जयदानां च वन्दे तमपराजितम् ॥२४॥
विश्वं विश्वेश्वरेशं च विश्वेशं विश्वकारणम् ।
विश्वाधारं च विश्वस्थं विश्वकारणकारणम् ॥२५॥
विश्वरक्षाकारणं च विश्वघ्नं विश्वजं परम् ।
फलबीजं फलाधारं फलं च तत्फलप्रदम् ॥२६॥
तेजःस्वरूपं तेजोदं सर्वतेजस्विनां वरम् ।
इत्येवमुक्त्वा तं नत्वा रत्नसिंहासने वरे ।
नारायणं च संभाष्य उवास स तदाज्ञया ॥२७॥
इति शंभुकृतं स्तोत्रं यो जनः संयतः पठेत् ।
सर्वसिद्धिर्भवेत्तस्य विजयं च पदे पदे ॥२८॥
संततं वर्धते मित्रं धनमैश्वर्यमेव च ।
शत्रुसैन्यं क्षयं याति दुःखानि दुरितानि च ॥२९॥
इति ब्रह्मवैवर्ते शंभुकृतं श्रीकृष्णस्तोत्रम् ।
सौतिरुवाच
आविर्बभूव तत्पश्चात्कृष्णस्य नाभिपङ्कजात् ।
महातपस्वो वृद्धश्च कमण्डलुकरो वरः ॥३०॥
शुक्लवासाः शुक्लदन्तः शुक्लकेशश्चतुर्मुखः ।
योगीशः शिल्पिनामीशः सर्वेषां जनको गुरुः ॥३१॥
तपसां फलदाता च प्रदाता सर्वसंपदाम् ।
स्रष्टा विधाता कर्ता च हर्ता च सर्वकर्मणाम् ॥३२॥
धाता चतुर्णां वेदानां ज्ञाता वेदप्रसूपतिः ।
शान्तः सरस्वतीकान्तः सुशीलश्च कृपानिधिः ॥३३॥
श्रीकृष्णपुरतः स्थित्वा तुष्टाव तं पुटाञ्जलिः ।
पुलकाङ्कितसर्वाङ्गो भक्तिनम्रात्मकधरः ॥३४॥
ब्रह्मोवाच
कृष्णं वन्दे गुणातीतं गोविन्दमेकमक्षरम् ।
अव्यक्तमव्ययं व्यक्तं गोपवेषविधायिनम् ॥३५॥
किशोरवयसं शान्तं गोपीकान्तं मनोहरम् ।
नवीननीरदश्यामं कोटिकन्दर्पसुन्दरम् ॥३६॥
वृन्दावनवनाभ्यर्णे रासमण्डलसंस्थितम् ।
रासेश्वरं रासवासं रासोल्लाससमुत्सुकम् ॥३७॥
इत्येवमुक्त्वा तं नत्वा रत्नसिंहासने वरे ।
नारायणेशौ संभाष्य स उवास तदाज्ञया ॥३८॥
इति ब्रह्मकृतं स्तोत्रं प्रातरुत्थाय यः पठेत् ।
पापानि तस्य नश्यन्ति दुःस्वप्नः सुस्वप्नो भवेत् ॥३९॥
भक्तिर्भवति गोविन्दे श्रीपुत्रपौत्रवर्धिनी ।
अकीर्तिः क्षयमाप्नोति सत्कीतिर्वर्धते चिरम् ॥४०॥
इति ब्रह्मवैवर्ते ब्रह्मकृतं श्रीकृष्णस्तोत्रम् ।
सौतिरुवाच
आविर्बभूव तत्पश्चाद्वक्षसः परमात्मनः ।
सस्मितः पुरुषः कश्चिच्छुक्लवर्णो जटाधरः ॥४१॥
सर्वसाक्षी च सर्वज्ञः सर्वेषां सर्वकर्मणाम् ।
समः सर्वत्र सदयो हिंसाकोपविवर्जितः ॥४२॥
धर्मज्ञानयुतो धर्मो धर्मिष्ठो धर्मदो भवेत् ।
स एव धर्मिणां धर्मः परमात्मा फलोद्भवः ॥४३॥
श्रीकृष्णपुरतः स्थित्वा प्रणम्य दण्डवद्भुवि ।
तुष्टाव परमात्मानं सर्वेशं सर्वकामदम् ॥४४॥
श्रीधर्म उवाच
कृष्णं विष्णुं वासुदेवं परमात्मानमीश्वरम् ।
गोविन्दं परमानन्दमेकमक्षरमच्युतम् ॥४५॥
गोपेश्वरं च गोपीशं गोपं गोरक्षकं विभुम् ।
गवामीशं च गोष्ठस्थं गोवत्सपुच्छधारिणम् ॥४६॥
गोगोपगोपीमध्यस्थं प्रधानं पुरुषोत्तमम् ।
वन्देऽनवद्यमनघं श्यामं शान्तं मनोहरम् ॥४७॥
इत्युच्चार्य समुत्तिष्ठन्रत्नसिंहासने वरे ।
ब्रह्मविष्णुमहेशांस्तान्संभाष्य स उवास ह ॥४८॥
चतुर्विंशतिनामानि धर्मवक्त्रोद्गतानि च ।
यः पठेत्प्रातरुत्थाय स सुखी सर्वतो जयी ॥४९॥
मृत्युकाले हरेर्नाम तस्य साध्यं भवेद्ध्रुवम् ।
स यात्यन्ते हरेः स्थानं हरिदास्यं भवेद्ध्रुवम् ॥५०॥
नित्यं धर्मस्तं घटते नाधर्मे तद्रतिर्भवेत् ।
चतुर्वर्गफलं तस्य शश्वत्करगतं भवेत् ॥५१॥
तं दृष्ट्वा सर्वपापानि पलायन्ते भयेन च ।
भयानि चैव दुःखानि वैनतेयमिवोरगाः ॥५२॥
इति ब्रह्मवैवर्ते धर्मकृतं श्रीकृष्णस्तोत्रम् ।
सौतिरुवाच
आविर्बभूव कन्यैका धर्मस्य वामपार्श्वतः ।
मूर्तिर्मूर्तिमती साक्षाद्द्वितीया कमलालया ॥५३॥
आविर्बभूव तत्पश्चान्मुखतः परमात्मनः ।
एका देवी शुक्लवर्णा वीणापुस्तकधारिणी ॥५४॥
कोटिपूर्णेन्दुशोभाढ्या शरत्पङ्कजलोचना ।
वह्निशुद्धांशुकाधाना रत्नभूषणभूषिता ॥५५॥
सस्मिता सुदती श्यामा सुन्दरीणां च सुन्दरी ।
श्रेष्ठा श्रुतीनां शास्त्राणां विदुषां जननी परा ॥५६॥
वागधिष्ठातृदेवी सा कवीनामिष्टदेवता ।
शुद्धसत्त्वस्वरूपा च शान्तरूपा सरस्वती ॥५७॥
गोविन्दपुरतः स्थित्वा जगौ प्रथमतः सुखम् ।
तन्नामगुणकीर्तिं च वीणया सा ननर्त च ॥५८॥
कृतानि यानि कर्माणि कल्पे कल्पे युगे युगे ।
तानि सर्वाणि हरिणा तुष्टाव च पुटाञ्जलिः ॥५९॥
सरस्वत्युवाच
रासमण्डलमध्यस्थं रासोल्लाससमुत्सुकम् ।
रत्नसिंहासनस्थं च रत्नभूषणभूषितम् ॥६०॥
रासेश्वरं रासकरं वरं रासेश्वरीश्वरम् ।
रासाधिष्ठातृदेवं च वन्दे रासविनोदिनम् ॥६१॥
रासायासपरिश्रान्तं रासरासविहारिणम् ।
रासोत्सुकानां गोपीनां कान्तं शान्तं मनोहरम् ॥६२॥
प्रणम्य च तमित्युक्त्वा प्रहृष्टवदना सती ।
उवास सा सकामा च रत्नसिंहासने वरे ॥६३॥
इति वाणीकृतं स्तोत्रं प्रातरुत्थाय यः पठेत् ।
बुद्धिमान्धनवान्सोऽपि विद्यावान्पुत्रवान्सदा ॥६४॥
इति ब्रह्मवैवर्ते सरस्वतीकृतं श्रीकृष्णस्तोत्रम् ।
सौतिरुवाच
आविर्बभूव मनसः कृष्णस्य परमात्मनः ।
एका देवी गौरवर्णा रत्नालंकारभूषिता ॥६५॥
पीतवस्त्रपरीधाना सस्मिता नवयौवना ।
सर्वेश्वर्याधिदेवी सा सर्वसंपत्फलप्रदा ।
स्वर्गे च स्वर्गलक्ष्मीश्च राजलक्ष्मीश्च राजसु ॥६६॥
सा हरेः पुरतः स्थित्वा परमात्मानमीश्वरम् ।
तुष्टाव प्रणता साध्वी भक्तिनम्रात्मकंधरा ॥६७॥
महालक्ष्मीरुवाच
सत्यस्वरूपं सत्येशं सत्यबीजं सनातनम् ।
सत्याधारं च सत्यज्ञं सत्यमूलं नमाम्यहम् ॥६८॥
इत्युक्त्या श्रीहरिं नत्वा सा चोवास सुखासने ।
तप्तकाञ्चनवर्णाभा भासयन्ती दिशस्त्विषा ॥६९॥
आविर्बभूव तत्पश्चाद्बुद्धेश्च परमात्मनः ।
सर्वाधिष्ठातृदेवी सा मूलप्रकृतिरीश्वरी ॥७०॥
तप्तकाञ्चनवर्णाभा सूर्यकोटिसमप्रभा ।
ईषद्धास्यप्रसन्नास्या शरत्पङ्कजलोचना ॥७१॥
रक्तवस्त्रपरीधाना रत्नाभरणभूषिता ।
निद्रातृष्णाक्षुत्पिपासादयाश्रद्धाक्षमादिकाः ॥७२॥
तासां च सर्वशक्तीनामीशाऽधिष्ठातृदेवता ।
भयंकरी शतभुजा दुर्गा दुर्गार्तिनाशिनी ॥७३॥
आत्मनः शक्तिरूपा सा जगतां जननी परा ।
त्रिशूलशक्तिशार्ङ्ग च धनुःखड्गशराणि च ॥७४॥
शङ्खचक्रगदापद्ममक्षमालां कमण्डलुम् ।
वज्रमङ्कुशपाशं च भुशुण्डीदण्डतोमरम् ॥७५॥
नारायणास्त्रं ब्रह्मास्त्रं रौद्रं पाशुपतं तथा ।
पार्जन्यं वारुणं वाह्नं गान्धर्व बिभृती सती ।
कृष्णस्य पुरतः स्थित्वा तुष्टाव तं मुदाचन्विता ॥ ७६ ॥
प्रकृतिरुवाच
अहं प्रकृतिरीशाना सर्वेशा सर्वरूपिणी ।
सर्वशक्तिस्वरूपा च मया च शक्तिमज्जगत् ॥७७॥
त्वया सृष्टा न स्वतन्त्रा त्वमेव जगतां पतिः ।
गतिश्च पाता स्रष्टा च संहर्ता च पुनर्विधिः ॥७८॥
स्रष्टुं स्रष्टा च संहर्तुं संहर्ता वेधसा विधिः ।
परमानन्दरूपं त्वां वन्दे चाऽऽनन्दपूर्वकम् ।
चक्षुर्निमेषकाले च ब्रह्मणः पतनं भवेत् ॥७९॥
तस्य प्रभावमतुलं वर्णितुं कः क्षमो विभो ।
भ्रूभङ्गलीलामात्रेण विष्णुकोटिं सृजेत्तु यः ॥८०॥
चराचरांश्च विश्वेषु देवान्ब्रह्मपुरोगमान् ।
मद्विधाः कति वा देवीः स्रष्टुं शक्तश्च लीलया ॥८१॥
परिपूर्णतमं स्वीड्यं वन्दे चाऽऽनन्दपूर्वकम् ।
महान्विराड् यत्कलांशो विश्वसंख्याश्रयो विभो ।
वन्दे चाऽऽनन्दपूर्व तं परमात्मानमीश्वरम् ॥८२॥
यं च स्तोतुमशक्ताश्च ब्रह्मविष्णुशिवादयः ।
वेदा अहं च वाणी च वन्दे तं प्रकृतेः परम् ॥८३॥
वेदाश्च विदुषां श्रेष्ठाः स्तोतुं शक्ताश्च लक्ष्यतः ।
निर्लक्ष्यं कः क्षमः स्तोतुं तं निरीहं नमाम्यहम् ॥८४॥
इत्येवमुक्त्वा सा दुर्गा रत्नसिंहासने वरे ।
उवास नत्वा श्रीकृष्णं तुष्टुवुस्तां सुरेश्वराः ॥८५॥
इति दुर्गाकृतं स्तोत्रं कृष्णस्य परमात्मनः ।
यः पठेदर्चनाकाले स जयी सर्वतः सुखी ॥८६॥
दुर्गा तस्य गृहं त्यक्त्वा नैव याति कदाचन ।
भवाब्धौ यशसा भाति यात्यन्ते श्रीहरेः पुरम् ॥८७॥
इति श्रीब्रह्मवैवर्ते महापुराणे ब्रह्मखण्डं सौतिशौनकसंवादे
सृष्टिनिरूपणे दुर्गास्तोत्रं नाम तृतीयोऽध्यायः ॥३॥
GO TOP
|