ब्रह्मवैवर्तपुराणम् - प्रथमं ब्रह्मखण्डम् - द्वितीयोऽध्यायः

ब्रह्मवैवर्तपुराणम्

प्रथमं ब्रह्मखण्डम् - द्वितीयोऽध्यायः

परब्रह्मनिरूपणम् -


शौनक उवाच
किमपूर्वं श्रुतं सौते परमाद्‌भतुदर्शनम् ।
सर्वं कथय संव्यस्य ब्रह्मखण्डमनुत्तमम् ॥ १॥
सौतिरुवाच
वन्दे गुरोः पादपद्म व्यासस्यामिततेजसः ।
हरिं देवान्द्विजान्नत्वा धर्मान्वक्ष्ये सनातनान् ॥२॥
यच्छतं व्यासवक्त्रेण ब्रह्मखण्डमनुत्तमम् ।
अज्ञानान्धतमोध्वंसि ज्ञानवर्त्मप्रदीपकम् ॥३॥
ज्योतिः समूहं प्रलये पुराऽऽसीत्केवलं द्विज ।
सूर्यकोटिप्रभं नित्यमसंख्यं विश्वकारणम् ॥४॥
स्वेच्छामयस्य च विभोस्तज्ज्योतिरुज्ज्वलं महत् ।
ज्योतिरभ्यन्तरे लोकत्रयमेव मनोहरम् ॥५॥
तेषामुपरि गोलोकं नित्यमीश्वरवद्‌द्विज ।
त्रिकोटियोजनायामं विस्तीर्णं मण्डलाकृति ॥६॥
तेजः स्वरूपं सुमहद्रत्‍नभूमिमयं परम् ।
अदृश्यं योगिभिः स्वप्ने दृश्यं गम्यं च वैष्णवैः ॥७॥
योगेन धृतमीशेन चान्तरिक्षस्थितं वरम् ।
आधिव्याधिजरामृत्युशोकभीतिविवर्जितम् ॥८॥
सद्‌रत्‍नरचितासंख्यमन्दिरैः परिशोभितम् ।
लये कृष्णयुतं सृष्टौ गोपगोपीभिरावृतम् ॥९॥
तदधो दक्षिणे सव्ये पञ्चाशत्कोटियोजनात् ।
वैकुण्ठं शिवलोकं तु तत्समं सुमनोहरम् ॥ १०॥
कोटियोजनविस्तीर्णं वैकुण्ठं मण्डलाकृति ।
लये शून्यं च सृष्टौ च लक्ष्मीनारायणान्वितम् ॥ ११॥
चतुर्भुजैः पार्षदैश्च जरामृत्य्वादिवर्जितम् ।
सव्ये च शिवलोकं च कोटियोजनविस्तृतम् ॥ १२॥
लये शून्यं च सृष्टौ च सपार्षदशिवान्वितम् ।
गोलोकाभ्यन्तरे ज्योतिरतीवसुमनोहरम् ॥ १३॥
परमाह्लादकं शश्वत्परमानन्दकारकम् ।
ध्यायन्ते योगिनः शश्वद्योगेन ज्ञानचक्षुषा ॥ १४॥
तदेवानन्दजनकं निराकारं परात्परम् ।
तज्ज्योतिरन्तरे रूपमतीवसुमनोहरम् ॥ १५॥
नवीननीरदश्यामं रक्तपङ्कजलोचनम् ।
शारदीयपार्वणेन्दुशोभितं चामलाननम् ॥ १६॥
कोटिकन्दर्पलावण्यं लीलाधाम मनोरमम् ।
द्विभुजं मुरलीहस्तं सस्मितं पीतवाससम् ॥ १७॥
सद्‌रत्‍नभूषणौघेन भूषितं भक्तवत्सलम् ।
चन्दनोक्षितसर्वाङ्गं कस्तूरीकुङ्कुमान्वितम् ॥ १८॥
श्रीवत्सवक्षःसंभ्राजत्कौस्तुभेन विराजितम् ।
सद्‍रत्‍नसाररचितकिरीटमुकुटोज्ज्वलम् ॥ १९॥
रत्‍नसिंहासनस्थं च वनमालाविभूषितम् ।
तदेव परमं ब्रह्म भगवन्तं सनातनम् ॥२०॥
स्वेच्छामयं सर्वबीजं सर्वाधारं परात्परम् ।
किशोरवयसं शश्वद्‌गोपवेषविधायकम् ॥२१॥
कोटिपूर्णेन्दुशोभाढ्यं भक्तानुग्रहकारकम् ।
निरीहं निर्विकारं च परिपूर्णतमं विभुम् ॥२२॥
रासमण्डलमध्यस्थं शान्तं रासेश्वरं वरम् ।
माङ्गल्यं मङ्गलार्हं च मङ्गलं मङ्गलप्रदम् ॥२३॥
परमानन्दबीजं च सत्यमक्षरमव्ययम् ।
सर्वसिद्धेश्वरं सर्वसिद्धिरूपं च सिद्धिदम् ॥२४॥
प्रकृतेः परमीशानं निर्गुणं नित्यविग्रहम् ।
आद्यं पुरुषमव्यक्तं पुरुहूतं पुरुष्टुतम् ॥२५॥
सत्यं स्वतन्त्रमेकं च परमात्मस्वरूपकम् ।
ध्यायन्ते वैष्णवाः शान्ताः शान्तं तत्परमायणम् ॥२६॥
एवं रूपं परं बिभ्रद्‌भगवानेक एव सः ।
दिग्भिश्च नभसा सार्धं शून्यं विश्वं ददर्श ह ॥२७॥
इति श्रीब्रह्मवैवर्ते महापुराणे सौतिशौनकसंवादे ब्रह्मखण्डे
परब्रह्मनिरूपणं नाम द्वितीयोऽध्यायः ॥२॥


GO TOP