ब्रह्मवैवर्तपुराणम् - प्रथमं ब्रह्मखण्डम् - प्रथमोऽध्यायः

ब्रह्मवैवर्तपुराणम्

प्रथमं ब्रह्मखण्डम् - प्रथमोऽध्यायः

ब्रह्मखण्डेऽनुक्रमणिका -


गणेशब्रह्मेशसुरेशशेषाः सुराश्च सर्वे मनवो मुनीन्द्राः ।
सरस्वतीश्रीगिरिजादिकाश्च यं नमन्ति देव्यः प्रणमामि तं विभुम् ॥ १॥
स्थूलास्तनूर्विदधतं त्रिगुणं विराजं विश्वानि लोमविवरेषु महान्तमाद्यम् ।
सृष्ट्युन्मुखः स्वकलयाऽपि ससर्ज सूक्ष्मं नित्यं समेत्य हृदि यस्तमजं भजामि ॥२॥
ध्यायन्ते ध्याननिष्ठाः सुरनरमनवो योगिनो योगरूढाः
सन्तः स्वप्नेऽपि सन्तं कतिकतिजनिभिर्यं न पश्यन्ति तप्त्वा ।
ध्याये स्वेच्छामयं तं त्रिगुणपरमहो निर्विकारं निरीहं
भक्त्या ध्यानैकहेतोर्निरुपमरुचिरश्यामरूपं दधानम् ॥३॥
वन्दे कृष्णं गुणातीतं परं ब्रह्माच्युतं यतः ।
आविर्बभूवुः प्रकृतिब्रह्मविष्णुशिवादयः ॥४॥
ॐ नमो भगवते वासुदेवाय । ॐ नमः सर्वलोकविघ्नविनायकाय ।
ॐ नमो ब्रह्मणे । ॐ नमः शिवाय । ॐ नमो गणपतये । ॐ नमो नारदाय ।
ॐ नमो व्यासाय । ॐ नमः प्रकृत्यै) ।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १॥
अमृतपरमपूर्वं भारतीकामधेनुं श्रुतिगणकृतवत्सो व्यासदेवो दुदोह ।
अतिरुचिरपुराणं ब्रह्मवैवर्तमेतत्पिबत पिबत मुग्धा दुग्धमक्षय्यमिष्टम् ॥२॥
भारते नैमिषारण्ये ऋषयः शौनकादयः ।
नित्यां नैमित्तिकीं कृत्वा क्रियामूषुः कुशासने ॥३॥
एतस्मिन्नन्तरे सौतिमागच्छन्तं यदृच्छया ।
प्रणतं सुविनीतं तं विलोक्य ददुरासनम् ॥४॥
तं संपूज्यातिथिं भक्त्या शौनको मुनिपुंगवः ।
पप्रच्छ कुशलं शान्तं शान्तः पौराणिकं मुदा ॥५॥
वर्त्मायासविनिर्मुक्तं वसन्तं सुस्थिरासने ।
सस्मितं सर्वतत्त्वज्ञं पुराणानां पुराणवित् ॥६॥
परं कृष्णकथोपेतं पुराणं श्रुतिसम्मतम् ।
मङ्गल मङ्गलार्हं च मङ्गल्यं मङ्गलालयम् ॥७॥
सर्वमङ्गलबीजं च सर्वदा मङ्गलप्रदम् ।
सर्वामङ्गलनिघ्नं च सर्वसंपत्करं परम् ॥८॥
हरिभक्तिप्रदं शश्वत्सुखदं मोक्षदं भवेत् ।
तत्त्वज्ञानप्रदं दारपुत्रपौत्रविवर्धनम् ॥९॥
पप्रच्छ सुविनीतं च सुप्रीतो मुनिसंसदि ।
यथाऽऽकाशे तारकाणां द्विजराजो विराजते ॥ १०॥
शौनक उवाच
प्रस्थानं भवतः कुत्र कुत आयासि ते शिवम् ।
किमस्माकं पुण्यदिनमद्य त्वद्‌दर्शनेन च ॥ ११॥
वयमेव कलौ भीता विशिष्टज्ञानवर्जिताः ।
मुमुक्षवो भवे मग्नास्तद्धेतुस्त्वमिहागतः ॥ १२॥
भवान्साधुर्महाभागः पुराणेषु पुराणवित् ।
सर्वेषु च पुराणेषु निष्णातोऽतिकृपानिधिः ॥ १३॥
श्रीकृष्णे निश्चला भक्तिर्यतो भवति शाश्वती ।
तत्कथ्यतां महाभाग पुराणं ज्ञानवर्धनम् ॥ १४॥
गरीयसी या साक्षाच्च कर्ममूलनिकृन्तनी ।
संसारसंनिबद्धानां निगडच्छेदकर्तरी ॥ १५॥
भवदावाग्निदग्धानां पीयूषवृष्टिवर्षिणी ।
सुखदाऽऽनन्ददा सौते शश्वच्चेतसि जीविनाम् ॥१६॥
यत्राऽऽदौ सर्वबीजं च परब्रह्मनिरूपणम् ।
तस्य सृष्ट्युन्मुखस्यापि सृष्टेरुत्कीर्तनं परम् ॥१७॥
साकारं वा निराकारं परमात्मस्वरूपकम् ।
किमाकारं च तद्‌ब्रह्म तद्ध्यानं किंच भावनम् ॥ १८॥
ध्यायन्ते वैष्णवाः किं वा शान्ताश्च योगिनस्तथा ।
मतं प्रधानं केषां वा गूढं वेदे निरूपितम् ॥ १९॥
प्रकृतेश्च य आकारो यत्र वत्स निरूपितः ।
गुणानां लक्षणं यत्र महदादेश्च निश्चयः ॥२०॥
गोलोकवर्णनं यत्र यत्र वैकुण्ठवर्णनम् ।
वर्णनं शिवलोकस्य यत्रान्यत्स्वर्गवर्णनम् ॥२१॥
अंशानां च कलानां च यत्र सौते निरूपणम् ।
के प्राकृताः का प्रकृतिः क आत्मा प्रकृतेः परः ॥२२॥
निगूढं जन्म येषां वा देवानां देवयोषिताम् ।
समुत्पत्तिः समुद्राणां शैलानां सरितामपि ॥२३॥
के वांऽशाः प्रकृतेश्चापि कलाः का वा कलाकलाः ।
तासां च चरितं ध्यानं पूजास्तोत्रादिकं शुभम् ॥२४॥
दुर्गासरस्वतीलक्ष्मीसावित्रीणां च वर्णनम् ।
यत्रैव राधिकाख्यानमत्यपूर्वं सुधोपमम् ॥२५॥
जीवकर्मविपाकश्च नरकाणां च वर्णनम् ।
कर्मणां खण्डनं यत्र यत्र तेभ्यो विमोक्षणम् ॥२६॥
येषां च जीविनां यद्यत्स्थानं यत्र शुभाशुभम् ।
जीविनां कर्मणो यस्माद्यासु यासु च योनिषु ॥२७॥
जीवानां कर्मणो यस्माद्यो यो रोगो भवेदिह ।
मोक्षणं कर्मणो यस्मात्तेषां च तन्निरूपय ॥२८॥
मनसा तुलसी काली गङ्गा पृथ्वी वसुंधरा ।
आसां यत्र शुभाख्यानमन्यासामपि यत्र वै ॥२९॥
शालग्रामशिलानां च दानानां च निरूपणम् ।
अपूर्वं यत्र वा सौते धर्माधर्मनिरूपणम् ॥३०॥
गणेश्वरस्य चरितं यत्र तज्जन्म कर्म च ।
कवचस्तोत्रमन्त्राणां गूढानां यत्र वर्णनम् ॥३१॥
यदपूर्वमुपाख्यानमश्रुतं परमाद्‌भुतम् ।
कृत्वा मनसि तत्सर्वं सांप्रतं वक्तुमर्हसि ॥३२॥
यत्र जन्मभ्रमो विश्वे पुण्यक्षेत्रे च भारते ।
परिपूर्णतमस्यापि कृष्णस्य परमात्मनः ॥३३॥
जन्म कस्य गृहे लब्धं पुण्ये पुण्यवतो मुने ।
सुतं प्रसूता का धन्या मान्या पुण्यवती सती ॥३४॥
आविर्भूय च तद्‌गेहात्क्व गतः केन हेतुना ।
गत्वा किं कृतवांस्तत्र कथं वा पुनरागतः ॥३५॥
भारावतरणं केन प्रार्थितो गोश्चकार सः ।
विधाय किंवा सेतुं च गोलोकं गतवान्पुनः ॥३६॥
इतीदमन्यदाख्यानं पुराणं श्रुतिदुर्लभम् ।
दुर्विज्ञेयं मुनीनां च मनोनिर्मलकारणम् ॥३७॥
स्वज्ञानाद्यन्मया पृष्टमपृष्टं वा शुभाशुभम् ।
सद्यो वैराग्यजननं तन्मे व्याख्यातुमर्हसि ॥३८॥
शिष्यपृष्टमपृष्टं वा व्याख्यानं कुरुते च यः ।
स सद्‌गुरुः सतां श्रेष्ठो योग्यायोग्ये च यः समः ॥३९॥
सौतिरुवाच
सर्वं कुशलमस्माकं त्वत्पादपद्मदर्शनात् ।
सिद्धक्षेत्रादागतोऽहं यामि नारायणाश्रमम् ॥४०॥
दृष्ट्वा विप्रसमूहं च नमस्कर्तुमिहागतः ।
द्रष्टुं च नैमिषारण्यं पुण्यदं चापि भारते ॥४१॥
देवं विप्रं गुरुं दृष्ट्‍वा न नमेद्यस्तु सम्भ्रमात् ।
स कालसूत्रं व्रजति यावच्चन्द्रदिवाकरौ ॥४२॥
हरिब्राह्मणरूपेण शश्वद्‌भ्रमति भूतले ।
सुकृती प्रणमेत्पुण्याद्‌ब्राह्मणं हरिरूपिणम् ॥४३॥
भगवन्यत्त्वया पृष्टं ज्ञातं सर्वमभीप्सितम् ।
सारभूतं पुराणेषु ब्रह्मवैवर्तमुत्तमम् ॥४४॥
पुराणोपपुराणानां वेदानां भ्रमभञ्जनम् ।
हरिभक्तिप्रदं सर्वतत्त्वज्ञानविवर्धनम् ॥४५॥
कामिनां कामदं चेदं मुमुक्षूणां च मोक्षदम् ।
भक्तिप्रदं वैष्णवानां कल्पवृक्षस्वरूपकम् ॥४६॥
ब्रह्मखण्डे सर्वबीजं परब्रह्मनिरूपणम् ।
ध्यायन्ते योगिनः सन्तो वैष्णवा यत्परात्परम् ॥४७॥
वैष्णवा योगिनः सन्तो न च भिन्नाश्च शौनक ।
स्वज्ञानपरिपाकेन भवन्ति जीविनः क्रमात् ॥४८॥
सन्तो भवन्ति सत्सङ्गाद्योगिसंगेन योगिनः ।
वैष्णवा भक्तसंगेन क्रमात्सद्योगिनः पराः ॥४९॥
यत्रोःद्‌भवश्च देवानां देवीनां सर्वजीविनाम् ।
ततः प्रकृतिखण्डे च देवीनां चरितं शुभम् ॥५०॥
जीवकर्मविपाकश्च शालिग्रामनिरूपणम् ।
तासां च कवचस्तोत्रमन्त्रपूजानिरूपणम् ॥५१॥
प्रकृतेर्लक्षणं तत्र कलांशानां निरूपणम् ।
कीर्तेरुत्कीर्तनं तासां प्रभावश्च निरूपितः ॥५२॥
सुकृतीनां दुष्कृतीनां यद्यत्स्थानं शुभाशुभम् ।
वर्णनं नरकाणां च रोगाणां मोक्षणं ततः ॥५३॥
ततो गणेशखण्डे च तज्जन्म परिकीर्तितम् ।
अतीवापूर्वचरितं श्रुतिवेदसुदुर्लभम् ॥५४॥
गणेशभृगुसंवादे सर्वतत्त्वनिरूपणम् ।
निगूढकवचस्तोत्र-मन्त्रतन्त्रनिरूपणम् ॥५५॥
श्रीकृष्णजन्मखण्डं च कीर्तितं च ततः परम् ।
भारते पुण्यक्षेत्रे च श्रीकृष्णजन्म कर्म च ॥५६॥
भुवो भारावतरणं क्रीडाकौतुकमङ्गलम् ।
सतां सेतुविधानं च जन्मखण्डे निरूपितम् ॥५७॥
इदं ते कथितं विप्र पुराणप्रवरं परम् ।
चतुःखण्डैः परिमितं सर्वधर्मनिरूपणम् ॥५८॥
सर्वेषामीप्सितं श्रीदं सर्वाशापूर्णकारकम् ।
ब्रह्मवैवर्तकं नाम सर्वाभीष्टफलप्रदम् ॥५९॥
सारभूतं पुराणेषु केवलं वेदसंमतम् ।
विवृतं ब्रह्म कार्त्स्‍न्यं च कृष्णेन यत्र शौनक ॥६०॥
ब्रह्मवैवर्तकं तेन प्रवदन्ति पुराविदः ॥६१॥
इदं पुराणसूत्रं च पुरा दत्तं च ब्रह्मणे ।
निरामये च गोलोके कृष्णेन परमात्मना ॥६२॥
महातीर्थं पुष्करे च दत्तं धर्माय ब्रह्मणा ।
धर्मेण दत्तं पुत्राय प्रीत्या नारायणाय च ॥६३॥
नारायणर्षिर्भगवान्प्रददौ नारदाय च ।
नारदो व्यासदेवाय प्रददौ जाह्नवीतटे ॥६४॥
व्यासः पुराणसूत्रं तत्संव्यस्य विपुलं महत् ।
मह्यं ददौ सिद्धक्षेत्रे पुण्यदेशे मनोहरम् ॥६५॥
मयेदं कथितं ब्रह्मंस्तत्समग्रं निशामय ।
अष्टादशसहस्रं तु व्यासेनेदं पुराणकम् ॥६६॥
पुराणकार्त्स्न्यश्रवणे यत्फलं लभते नरः ।
तत्फलं लभते नूनमध्यायश्रवणेन च ॥६७॥
इति श्री ब्रह्मवैवर्तमहापुराणे सौतिशौनकसंवादे
ब्रह्मखण्डेऽनुक्रमणिकानाम प्रथमोऽध्यायः ॥१॥


GO TOP