ब्रह्मवैवर्तपुराणम्

प्रथमं ब्रह्मखण्डम् - पञ्चमोऽध्यायः

सृष्टिनिरूपणम् -


शौनक उवाच
गोगोपगोप्यो गोलोके किं नित्याः किं नु कल्पिताः ।
ममसंदेहभेदार्थं तन्मे व्याख्यातुमर्हसि ॥ १॥
सौतिरुवाच
सर्वादिसृष्टौ ताः क्लृप्ताः प्रलय कृष्णसंस्थिताः ।
सर्वादिसृष्टिकथनं यन्मया कथितं द्विज ॥२॥
सर्वादिसृष्टौ कॢप्तौ च नारायणमहेश्वरौ ।
प्रलये प्रलये व्यक्तौ स्थितौ तौ प्रकृतिश्च सा ॥३॥
सर्वादौ ब्रह्मकल्पस्य चरितं कथितं द्विज ।
वाराहपाद्मकल्पौ द्वौ कथयिष्यामि श्रोष्यसि ॥४॥
ब्रह्मवाराहपाद्माश्च कल्पाश्च त्रिविधा मुने ।
यथा युगानि चत्वारि क्रमेण कथितानि च ॥५॥
सत्यं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् ।
त्रिशतैश्च षष्ट्यधिकैर्युगैर्दिव्यं युगं स्मृतम् ॥६॥
मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः ।
चतुर्दशेषु मनुषु गतेषु ब्रह्मणो दिनम् ॥७॥
त्रिशतैश्च षष्ट्यधिकैदिनैर्वर्षं च ब्रह्मणः ।
अष्टोत्तरं वर्षशतं विधेरायुनिरूपितम् ॥८॥
एतन्निमेषकालस्तु कृष्णस्य परमात्मनः ।
ब्रह्मणश्चाऽऽयुषा कल्पः कालविद्‌भिनिरूपितः ॥९॥
क्षुद्रकल्पा बहुतरास्ते संवर्तादयः स्मृताः ।
सप्तकल्पान्तजीवी च मार्कण्डेयश्च तन्मतः ॥ १०॥
ब्रह्मणश्च दिनेनैव स कल्पः परिकीर्तितः ।
विधेश्च सप्तदिवसैर्मुनेरायुर्निरूपितम् ॥ ११॥
ब्रह्मवाराहपाद्माश्च त्रयः कल्पा निरूपिताः ।
कल्पत्रये यथा सृष्टिः कथयामि निशामय ॥ १२॥
ब्राह्मे च मेदिनीं सृष्ट्‍वा स्रष्टा सृष्टिं चकार सः ।
मधुकैटभयोश्चैव मेदसा चाऽऽज्ञया प्रभोः ॥ १३॥
वाराहे तां समुद्धृत्य लुप्ता मग्नां रसातलात् ।
विष्णोर्वराहरूपस्य द्वारा चातिप्रयत्‍नतः ॥ १४॥
पाद्मे विष्णोर्नाभिपद्मे स्रष्टा सृष्टिं विनिर्ममे ।
त्रिलोकीं ब्रह्मलोकान्तां नित्यलोकत्रयं विना ॥ १५॥
एतत्तु कालसंख्यानमुक्तं सृष्टिनिरूपणे ।
किंचिन्निरूपणं सृष्टेः किं भूयः श्रोतुमिच्छसि ॥ १६॥
शौनक उवाच
अतः परं किं चकार भगवान्सात्वतां पतिः ।
एतान्सृष्ट्‍वा किं चकार तन्मे व्याख्यातुमर्हसि ॥ १७॥
सौतिरुवाच
अतः परं तु गोलोके गोलोकेशो महान्प्रभुः ।
एतान्सृष्ट्‍वा जगामासौ रम्यं वै रासमण्डलम् ।
एतैः समेतैर्भगवानतीव कमनीयकम् ॥ १८॥
रम्याणां कल्पवृक्षाणां मध्येऽतीवमनोहरम् ।
सुविस्तीर्णं च सुसमं सुस्निग्धं मण्डलाकृति ॥ १९॥
चन्दनागुरुकस्तूरीकुङ्कुमैश्च सुसंस्कृतम् ।
दधिलाजसक्तुधान्यदूर्वापर्णपरिप्लुतम् ॥२०॥
पट्टसूत्रग्रन्थियुक्तं नवचन्दनपल्लवैः ।
संयुक्तरम्भास्तम्भानां समूहैः परिवेष्टितम् ॥२१॥
सद्‌रत्‍नसारनिर्माणमण्डपानां त्रिकोटिभिः ।
रत्‍नप्रदीपज्वलितैः पुष्पभूपाधियासितैः ॥२२॥
शृङ्गारार्हभोगवस्तुसमूहपरिवेष्टितम् ।
अतीवललिताकल्पतल्पयुक्तैः सुशोभितम् ॥२३॥
तत्र गत्वा च तैः सार्धं समुवास जगत्पतिः ।
दृष्ट्‍वा रासं विस्मितास्ते बभूवुर्मुनिसत्तम ॥२४॥
आविर्बभूव कन्यैका कृष्णस्य वामपार्श्वतः ।
धावित्वा पुष्पमानीय ददावर्घ्यं प्रभो पदे ॥२५ ॥
रासे संभूय गोलोके सा दधाव हरे पुरः ।
तेन राधा समाख्याता पुराविद्‌भिर्द्विजोत्तम ॥२६॥
प्राणाधिष्ठातृदेवी सा कृष्णस्य परमात्मनः ।
आविर्बभूव प्राणेभ्यः प्राणेभ्योऽपि गरीयसी ॥२७॥
देवी षोडशवर्षीया नवयौवनसंयुता ।
वह्निशुद्धांशुकाधाना सस्मिता सुमनोहरा ॥२८॥
सुकोमलाङ्गी ललिता सुन्दरीषु च सुन्दरी ।
बृहन्नितम्बभारार्ता पीनश्रोणिपयोधरा ॥ २९ ॥
बन्धुजीवजितारक्तसुन्दरोष्ठाधरानना ।
मुक्तापङ्क्तिजिताचारुदन्तपङ्क्तिर्मनोहरा ॥ ३० ॥
शरत्पार्वणकोटीन्दुशोभामृष्टशुभानना ।
चारुसीमन्तिनी चारुशरत्पङ्कचलोचना ॥ ३१ ॥
खगेन्द्रचञ्चुविजितचारुनासामनोहरा ।
स्वर्णगण्डूकविजिते गण्डयुग्मे च बिभ्रती ॥ ३२ ॥
दधती चारुकर्णे च रत्‍नाभरणभूषिते ।
चन्दनागरुकस्तूरीयुक्तकुङ्कुमबिन्दुभिः ॥ ३३ ॥
सिन्दूरबिन्दुसंयुक्तसुकपोला मनोहरा ।
सु संस्कृतं केशपाशं मालतीमाल्यभूषितम् ॥ ३४ ॥
सुगन्धकबरीभारं सुन्दरं दधती सती ।
स्थलपद्मप्रभामुष्टं पादयुग्मं च बिभ्प्नती ॥ ३५ ॥
गमनं कुर्वती सा च हंसखञ्जनगञ्जनम् ।
सद्‌रत्‍नसारनिर्माणां वनमालां मनोहराम् ॥ ३६ ॥
हारं हरिकनिर्माणं रत्‍नयूरक ङ्कणम् ।
सद्‌रत्‍नसारनिर्माणं पाशकं सुमनोहरम् ॥ ३७ ॥
अमूत्यरत्‍ननिर्माणं क्वणन्मञ्जीररञ्जितम् ।
नानाप्रकारचित्राढ्यं सुन्दर परिबिभ्रती ॥ ३८ ॥
सा च संभाष्य गोविन्दं रत्‍नसिंहासने वरे ।
उवास सस्मिता भर्तुः पश्यन्ती मुखपङ्कजम् ॥ ३९ ॥
तस्याश्च लोमकूपेभ्यः सद्यो गोपाङ्गनागणः ।
आविर्बभूव रूपेण वेषेणैव च तत्समः ॥ ४० ॥
लक्षकोटीपरिमितः शश्वत्सुस्थिरयौवनः ।
संख्याविद्‌भिश्च संख्यातो गोलोके गोपिकागणः ॥ ४१ ॥
कृष्णस्य लोमकूपेभ्यः सद्यो गोपगणो मुने ।
आविर्बभूव रूपेण वेषेणैव च तत्समः ॥४२॥
त्रिंशत्कोटिपरिमितः कमनीयो मनोहरः ।
संख्याविद्‌भिश्च संख्यातो बल्लवानां गणः श्रुतौ ॥४३॥
कृष्णस्य लोमकूपेभ्यः सद्यश्चाऽऽविर्बभूव ह ।
नानावर्णो गोगणश्च शश्वत्सुस्थिरयौवनः ॥४४॥
बलीवर्दाः सुरभ्यश्च वत्सा नानाविधाः शुभाः ।
अतीवललिताः श्यामा बह्व्योवै कामधेनवः ॥४५॥
तेषामेकं बलीवर्दं कोटिसिंहसमं बले ।
शिवाय प्रददौ कृष्णो वाहनाय मनोहरम् ॥४६॥
कृष्णाङ्घ्रिनखरन्ध्रेभ्यो हंसपङ्क्तिर्मनोहरा ।
आविर्बभूव सहसा स्त्रीपुंवत्ससमन्विता ॥४७॥
तेषामेकं राजहंसं महाबलपराक्रमम् ।
वाहनाय ददौ कृष्णो ब्रह्मणे च तपस्विने ॥४८॥
वामकर्णस्य विवरात्कृष्णस्य परमात्मनः ।
गणः श्वेततुरङ्गाणामाविर्भूतो मनोहरः ॥४९॥
तेषासेकं- च श्वेताश्वं धर्मार्थं वाहनाय च ।
ददौ गोपाङ्गनेशश्च संप्रीत्या सुरसंसदि ॥५०॥
दक्षकरास्य विवरात्पुंसश्च सुरसंसदि ।
आविर्भूता सिंहपङ्क्तिर्महाबलपराक्रमा ॥५१॥
तेषामेकं ददौ कृष्णः प्रकृत्यै परमादरम् ।
अमूल्यरत्‍नमाल्यं च वरं यदभिवाञ्छितम् ॥५२॥
कृष्णो योगेन योगीन्द्रश्चकार रथपञ्चकम् ।
शुद्धरत्‍नेन्द्रनिर्माणं, मनोयायि मनोहरम् ॥५३॥
लक्षयोजनमूर्ध्वे च प्रस्थे च शतयोजनम् ।
लक्षचक्रं वायुरहं लक्षक्रीडागृहान्वितम् ॥५४॥
शृङगारार्हं भोगवस्तुतल्पासंख्यसमन्वितम् ।
रत्‍नप्रदीपलक्षाणां राजिभिश्च विराजितम् ॥५५॥
नानाचित्रविचित्राढ्यं सद्‌रत्‍नकलशोज्ज्वलम् ।
रत्‍नदर्पणभूषाढ्यं शोभितं श्वेतचामरैः ॥५६॥
वह्निशुद्धांशुकैश्चित्रैर्मुक्ताजालैर्विभूषितम् ।
मणीन्द्रमुक्तामाणिक्यहीरहारविराजितम् ॥५७॥
आरक्तवर्णरत्‍नेन्द्रसारनिर्माणकृत्रिमैः ।
पङ्कजानामसंख्यैश्च सुन्दरैश्च सुशोभितम् ॥५८॥
ददौ नारायणायैकं तेषां मध्ये द्विजोत्तम ।
एकं दत्त्वा राधिकायै ररक्ष शेषमात्मने ॥५९॥
आविर्बभूव कृष्णस्य गुह्यदेशात्ततः परम् ।
पिङ्गलश्च पुमानेकः पिङ्गलैश्च गणैः सह ॥६०॥
श्राविर्भूता यतो गुह्यात्तेन ते गुह्यकाः स्मृताः ।
यः पुमान्स कुबेरश्च धनेशो गुह्यकेश्वरः ॥६ १॥
बभूव कन्यका चैका कुबेरवामपार्श्वतः ।
कुबेरपत्‍नी सा देवी सुन्दरीणां मनोरमा ॥६२॥
भूतप्रेतपिशाचाश्च कूष्माण्डब्रह्मराक्षसाः ।
वेताला विकृतास्तस्याऽऽविर्भूता गुह्यदेशतः ॥६३॥
शह्नःचक्रगदापद्मधारिणो वनमालिनः ।
पीतवस्त्रपरीधानाः सर्वे श्यामचतुर्भुजाः ॥६४॥
किरीटिनः कुण्डलिनो रत्‍नभूषणभूषिताः ।
आविर्भूताः पार्षदाश्च कृष्णस्य मुखतो मुने ॥८५५॥
चतुर्भुजान्पार्षदांश्च ददौ नारायणाय च ।
गुह्यकान्मुह्यकेशाय भूतादीञ्छंकराय च ॥६६॥
द्विभुजाः श्यामवर्णाश्च जपमालाकरा वराः ।
ध्यायन्तश्चरणाम्भोजं कृष्णस्य सततं मुदा ॥६५॥
दास्ये नियुक्ता दासाश्चैवार्घ्यमादाय यत्‍नतः ।
आविर्भूता वैष्णवाश्च सर्वे कृष्णपरायणाः ॥६८॥
पुलकाङ्कितसर्वाङ्गाः साश्रुनेत्राः सगद्‌गदा ।
आविर्भूताः पादपद्मात्पादपद्मैकमानसाः ॥६९॥
आविर्बभूवुः कृष्णस्य दक्षनेत्राद्‌भयङ्कराः ।
त्रिशूलपट्टिशधरास्त्रिनेत्राश्चन्द्रशेखराः ॥७०॥
दिगम्बरा महाकाया ज्वलदग्निशिखोपमाः ।
ते भैरवा महाभागाः शिवतुल्याश्च तेजसा ॥७१॥
रुरुसंहारकालाख्या असितक्रोधभीषणाः ।
महाभैरवखट्वाङ्गावित्यष्टौ भैरवाः स्मृताः ॥७२॥
आविर्बभूव कृष्णस्य वामनेत्राद्‌भयंकरः ।
त्रिशूलपट्टिशव्याघ्रचर्माम्बरगदाधरः ॥७३॥
दिगम्बरो महाकायस्त्रिनेत्रश्चन्द्रशेखरः ।
स ईशानो महाभागो दिक्यालानामधीश्वरः ॥७४॥
डाकिन्यश्चैव योगिन्यः क्षेत्रपालाः सहस्रशः ।
आविर्बभूवुः कृष्णस्य नासिकाविवरोदरात् ॥७५॥
सुरास्त्रिकोटिसंख्याता दिव्यमूर्तिधरा वराः ।
आविर्बभूवुः सहसा पुंसो वै पृष्ठदेशतः ॥७६॥
इति श्रीब्रह्मवैवर्ते महापुराणे सौतिशौनकसंवादे
ब्रह्मखण्डं सृष्टिनिरूपणं नाम पञ्चमोऽध्यायः ॥५॥


GO TOP