श्रीमद्‌भागवत महापुराण

पञ्चमः स्कन्धः - षोडशोऽध्यायः

भुवनकोशवर्णनम् -

[ Right click to 'save audio as' for downloading Audio ]

राजोवाच
उक्तस्त्वया भूमण्डलायामविशेषो यावदा-
दित्यस्तपति यत्र चासौ ज्योतिषां गणैश्चन्द्रमा वा
सहदृश्यते ॥ १ ॥
तत्रापि प्रियव्रतरथचरणपरिखातैः सप्तभिः
सप्त सिन्धव उपकॢप्ता यत एतस्याः सप्तद्वीप-
विशेषविकल्पस्त्वया भगवन् खलु सूचित
एतदेवाखिलमहं मानतो लक्षणतश्च सर्वं
विजिज्ञासामि ॥ २ ॥
भगवतो गुणमये स्थूलरूप आवेशितं मनो
ह्यगुणेऽपि सूक्ष्मतम आत्मज्योतिषि परे ब्रह्मणि
भगवति वासुदेवाख्ये क्षममावेशितुं तदु हैतद्
गुरोऽर्हस्यनुवर्णयितुमिति ॥ ३ ॥
ऋषिरुवाच
न वै महाराज भगवतो मायागुणविभूतेः काष्ठां
मनसा वचसा वाधिगन्तुमलं विबुधायुषापि
पुरुषस्तस्मात्प्राधान्येनैव भूगोलकविशेषं
नामरूपमानलक्षणतो व्याख्यास्यामः ॥ ४ ॥
यो वायं द्वीपः कुवलयकमलकोशाभ्यन्तरकोशो
नियुतयोजनविशालः समवर्तुलो यथा पुष्करपत्रम् ॥ ५ ॥
यस्मिन्नव वर्षाणि नवयोजनसहस्रायामान्यष्टभि-
र्मर्यादागिरिभिः सुविभक्तानि भवन्ति ॥ ६ ॥
एषां मध्ये इलावृतं नामाभ्यन्तरवर्षं यस्य
नाभ्यामवस्थितः सर्वतः सौवर्णः कुलगिरिराजो
मेरुर्द्वीपायामसमुन्नाहः कर्णिकाभूतः कुवलय-
कमलस्य मूर्धनि द्वात्रिंशत्सहस्रयोजनविततो मूले
षोडशसहस्रं तावतान्तर्भूम्यां प्रविष्टः ॥ ७ ॥
उत्तरोत्तरेणेलावृतं नीलः श्वेतः मृङ्गवानिति त्रयो
रम्यकहिरण्मयकुरूणां वर्षाणां मर्यादागिरयः
प्रागायता उभयतः क्षारोदावधयो द्विसहस्रपृथव
एकैकशः पूर्वस्मात्पूर्वस्मादुत्तर उत्तरो दशांशा-
धिकांशेन दैर्घ्य एव ह्रसन्ति ॥ ८ ॥
एवं दक्षिणेनेलावृतं निषधो हेमकूटो हिमालय
इति प्रागायता यथा नीलादयोऽयुतयोजनोत्सेधा
हरिवर्षकिम्पुरुषभारतानां यथासंख्यम् ॥ ९ ॥
तथैवेलावृतमपरेण पूर्वेण च माल्यवद्‌ गन्ध-
मादनावानीलनिषधायतौ द्विसहस्रं पप्रथतुः
केतुमालभद्राश्वयोः सीमानं विदधाते ॥ १० ॥
मन्दरो मेरुमन्दरः सुपार्श्वः कुमुद इत्ययुत-
योजनविस्तारोन्नाहा मेरोक्षतुर्दिशम्अवष्टम्भगिरय
उपकॢप्ताः ॥ ११ ॥
चतुर्ष्वेतेषु चूतजम्बूकदम्बन्यग्रोधाश्चत्वारः
पादपप्रवराः पर्वतकेतव इवाधिसहस्रयोजनोन्नाहा-
स्तावद्विटपविततयः शतयोजनपरिणाहाः ॥ १२ ॥
ह्रदाश्चत्वारः पयोमध्विक्षुरसमृष्टजला
यदुपस्पर्शिन उपदेवगणा योगैश्वर्याणि
स्वाभाविकानिभरतर्षभ धारयन्ति ॥ १३ ॥
देवोद्यानानि च भवन्ति चत्वारि नन्दनं
चैत्ररथं वैभ्राजकं सर्वतोभद्रमिति ॥ १४ ॥
येष्वमरपरिवृढाः सह सुरललनाललामयूथपतय
उपदेवगणैरुपगीयमानमहिमानः किल विहरन्ति ॥ १५ ॥
मन्दरोत्सङ्ग एकादशशतयोजनोत्तुङ्गदेवचूतशिरसो
गिरिशिखरस्थूलानि फलान्यमृतकल्पानि पतन्ति ॥ १६ ॥
तेषां विशीर्यमाणानामतिमधुरसुरभिसुगन्धि-
बहुलारुणरसोदेनारुणोदा नाम नदी मन्दरगिरि-
शिखरान्निपतन्ती पूर्वेणेलावृतमुपप्लावयति ॥ १७ ॥
यदुपजोषणाद्‌भवान्याअनुचरीणां पुण्यजन-
वधूनामवयवस्पर्शगन्धवातो दशयोजनं
समन्तादनुवासयति ॥ १८ ॥
एवं जम्बूफलानामत्युच्चनिपातविशीर्णानाम्
अनस्थिप्रायाणामिभकायनिभानां रसेन जम्बू नाम
नदी मेरुमन्दरशिखरादयुतयोजनादवनितले
निपतन्ती दक्षिणेनात्मानं यावदिलावृतमुपस्यन्दयति ॥ १९ ॥
तावदुभयोरपि रोधसोर्या मृत्तिका तद्रसेनानु-
विध्यमाना वाय्वर्कसंयोगविपाकेन सदामरलोका-
भरणं जाम्बूनदं नाम सुवर्णं भवति ॥ २० ॥
यदु ह वाव विबुधादयः सह युवतिभिर्मुकुट-
कटककटिसूत्राद्याभरणरूपेण खलु धारयन्ति ॥ २१ ॥
यस्तु महाकदम्बः सुपार्श्वनिरूढो यास्तस्य
कोटरेभ्यो विनिःसृताः पञ्चायामपरिणाहाः पञ्च
मधुधाराः सुपार्श्वशिखरात्पतन्त्योऽपरेणात्मान-
मिलावृतमनुमोदयन्ति ॥ २२ ॥
या ह्युपयुञ्जानानां मुखनिर्वासितो वायुः
समन्ताच्छतयोजनमनुवासयति ॥ २३ ॥
एवं कुमुदनिरूढो यः शतवल्शोनाम वटस्तस्य
स्कन्धेभ्यो नीचीनाः पयोदधिमधुघृतगुडान्नाद्यम्बर-
शय्यासनाभरणादयः सर्व एव कामदुघा नदाः
कुमुदाग्रात्पतन्तस्तमुत्तरेणेलावृतमुपयोजयन्ति ॥ २४ ॥
यानुपजुषाणानां न कदाचिदपि प्रजानां
वलीपलितक्लमस्वेददौर्गन्ध्यजरामयमृत्युशीतोष्ण-
वैवर्ण्योपसर्गादयस्तापविशेषा भवन्ति यावज्जीवं
सुखं निरतिशयमेव ॥ २५ ॥
कुरङ्गकुररकुसुम्भवैकङ्कत्रिकूटशिशिरपतङ्ग -
रुचकनिषधशिनीवासकपिलशङ्खवैदूर्यजारुधि-
हंसर्षभनागकालञ्जरनारदादयो विंशतिगिरयो
मेरोः कर्णिकाया इव केसरभूता मूलदेशे परित
उपकॢप्ताः ॥ २६ ॥
जठरदेवकूटौ मेरुं पूर्वेणाष्टादशयोजनसहस्र-
मुदगायतौ द्विसहस्रं पृथुतुङ्गौ भवतः एवमपरेण
पवनपारियात्रौ दक्षिणेन कैलासकरवीरौ प्रागायता-
वेवमुत्तरतस्त्रिशृङ्गमकरावष्टभिरेतैः परिस्तृतोऽग्निरिव
परितक्षकास्ति काञ्चनगिरिः ॥ २७ ॥
मेरोर्मूर्धनि भगवत आत्मयोनेर्मध्यत
उपकॢप्तां पुरीमयुतयोजनसाहस्रीं समचतुरस्रां
शातकौम्भीं वदन्ति ॥ २८ ॥
तामनु परितो लोकपालानामष्टानां यथादिशं
यथारूपं तुरीयमानेन पुरोऽष्टावुपवकॢप्ताः ॥ २९ ॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे भुवनकोशवर्णनं नाम षोडशोऽध्यायः ॥ १६ ॥


हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

GO TOP