श्रीमद्‌भागवत महापुराण

पञ्चमः स्कन्धः - पञ्चदशोऽध्यायः

प्रियव्रतवंशानुकीर्तनम् -

[ Right click to 'save audio as' for downloading Audio ]

श्रीशुक उवाच
भरतस्यात्मजः सुमतिर्नामाभिहितो यमु ह वाव
केचित्पाखण्डिन ऋषभपदवीमनुवर्तमानं
चानार्या अवेदसमाम्नातां देवतां स्वमनीषया
पापीयस्या कलौ कल्पयिष्यन्ति ॥ १ ॥
तस्माद् वृद्धसेनायां देवताजिन्नाम पुत्रोऽभवत् ॥ २ ॥
अथासुर्यां तत्तनयो देवद्युम्नस्ततो धेनुमत्यां सुतः
परमेष्ठी तस्य सुवर्चलायां प्रतीह उपजातः ॥ ३ ॥
य आत्मविद्यामाख्याय स्वयं संशुद्धो
महापुरुषमनुसस्मार ॥ ४ ॥
प्रतीहात्सुवर्चलायां प्रतिहर्त्रादयस्त्रय
आसन्निज्याकोविदाः सूनवः प्रतिहर्तुः स्तुत्याम्
अजभूमानावजनिषाताम् ॥ ५ ॥
भूम्न ऋषिकुल्यायामुद्‌गीथस्ततः प्रस्तावो
देवकुल्यायां प्रस्तावान्नियुत्सायां हृदयज
आसीद्विभुर्विभो रत्यां च पृथुषेणस्तस्मान्नक्त
आकूत्यां जज्ञे नक्ताद् द्रुतिपुत्रो गयो राजर्षिप्रवर
उदारश्रवा अजायत साक्षाद्‌भगवतो विष्णो-
र्जगद्रिरक्षिषया गृहीतसत्त्वस्य कलाऽऽत्मवत्त्वादि-
लक्षणेन महापुरुषतां प्राप्तः ॥ ६ ॥
स वै स्वधर्मेण प्रजापालनपोषणप्रीणनोप -
लालनानुशासनलक्षणेनेज्यादिना च भगवति महापुरुषे
परावरे ब्रह्मणि सर्वात्मनार्पितपरमार्थलक्षणेन
ब्रह्मविच्चरणानुसेवयाऽऽपादितभगवद्‌भक्तियोगेन
चाभीक्ष्णशः परिभावितातिशुद्धमतिरुपरतानात्म्य
आत्मनि स्वयमुपलभ्यमानब्रह्मात्मानुभवोऽपि
निरभिमान एवावनिमजूगुपत् ॥ ७ ॥
तस्येमां गाथां पाण्डवेय पुराविद उपगायन्ति ॥ ८ ॥
गयं नृपः कः प्रतियाति कर्मभि-
     र्यज्वाभिमानी बहुविद्धर्मगोप्ता ।
समागतश्रीः सदसस्पतिः सतां
     सत्सेवकोऽन्यो भगवत्कलामृते ॥ ९ ॥
यमभ्यषिञ्चन् परया मुदा सतीः
     सत्याशिषोदक्षकन्याः सरिद्‌भिः ।
यस्य प्रजानां दुदुहे धराऽऽशिषो
     निराशिषो गुणवत्सस्नुतोधाः ॥ १० ॥
छन्दांस्यकामस्य च यस्य कामान्
     दुदूराजह्रुरथो बलिं नृपाः ।
प्रत्यञ्चिता युधि धर्मेण विप्रा
     यदाशिषां षष्ठमंशं परेत्य ॥ ११ ॥
यस्याध्वरे भगवानध्वरात्मा
     मघोनि माद्यत्युरुसोमपीथे ।
श्रद्धाविशुद्धाचलभक्तियोग-
     समर्पितेज्याफलमाजहार ॥ १२ ॥
यत्प्रीणनाद्‌बर्हिषि देवतिर्यङ्
     मनुष्यवीरुत्तृणमाविरिञ्चात् ।
प्रीयेत सद्यः स ह विश्वजीवः
     प्रीतःस्वयं प्रीतिमगाद्‌गयस्य ॥ १३ ॥
गयाद्‌गयन्त्यां चित्ररथः सुगतिरवरोधन इति त्रयः
पुत्रा बभूवुश्चित्ररथादूर्णायां सम्राडजनिष्ट ॥ १४ ॥
तत उत्कलायां मरीचिर्मरीचेर्बिन्दुमत्यां
बिन्दुमानुदपद्यत तस्मात्सरघायां मधुर्नामा-
भवन्मधोः सुमनसि वीरव्रतस्ततो भोजायां
मन्थुप्रमन्थू जज्ञाते मन्थोः सत्यायां भौवनस्ततो
दूषणायां त्वष्टाजनिष्ट त्वष्टुर्विरोचनायां विरजो
विरजस्य शतजित्प्रवरं पुत्रशतं कन्या च
विषूच्यां किल जातम् ॥ १५ ॥
तत्रायंश्लोक २-
प्रैयव्रतं वंशमिमं विरजश्चरमोद्‌भवः ।
अकरोदत्यलं कीर्त्या विष्णुः सुरगणं यथा ॥ १६ ॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे प्रियव्रतवंशानुकीर्तनं नाम पञ्चदशोऽध्यायः ॥ १५ ॥


हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

GO TOP