श्रीमद्भागवत महापुराण
पञ्चमः स्कन्धः - चतुर्दशोऽध्यायः
ब्राह्मणरहूगणसंवादः -
[ Right click to 'save audio as' for downloading Audio ]
स होवाच
य एष देहात्ममानिनां सत्त्वादिगुणविशेष-
विकल्पितल्कालाकुशलसमवहारविनिर्मित-
विविधदेहावलिभिर्वियोगसंयोगाद्यनादि-
संसारानुभवस्य द्वारभूतेन षडिन्द्रियवर्गेण
तस्मिन्दुर्गाध्ववदसुगमेऽध्वन्यापतित ईश्वरस्य
भगवतो विष्णोर्वशवर्तिन्या मायया जीवलोकोऽयं
यथावणिक्सार्थोऽर्थपरः स्वदेहनिष्पादितकर्मानुभवः
श्मशानवदशिवतमायां संसाराटव्यां गतो नाद्यापि
विफलबहुप्रतियोगेहस्तत्तापोपशमनीं हरिगुरु-
चरणारविन्दमधुकरानुपदवीमवरूधे यस्यामु ह
वा एते षडिन्द्रियनामानः कर्मणा दस्यव एव ते ॥ १ ॥
तद्यथा पुरुषस्य धनं यत्किञ्चिद्धर्मौपयिकं
बहुकृच्छ्राधिगतं साक्षात्परमपुरुषाराधनलक्षणो
योऽसौ धर्मस्तं तु साम्पराय उदाहरन्ति । तद्धर्म्यं धनं
दर्शनस्पर्शनश्रवणास्वादनावघ्राणसङ्कल्पव्यवसाय-
गृहग्राम्योपभोगेन कुनाथस्याजितात्मनो यथा
सार्थस्य विलुम्पन्ति ॥ २ ॥
अथ च यत्र कौटुम्बिका दारापत्यादयो नाम्रा
कर्मणा वृकसूगाला एवानिच्छतोऽपि कदर्यस्य
कुटुम्बिन उरणकवत्संरक्ष्यमाणं मिषतोऽपि हरन्ति ॥ ३ ॥
यथा ह्यनुवत्सरं कृष्यमाणमप्यदग्धबीजं
क्षेत्रं पुनरेवावपनकाले गुल्मतृणवीरुद्भिर्गह्वरमिव
भवत्येवमेव गृहाश्रमः कर्मक्षेत्रं यस्मिन्न हि
कर्माण्युत्सीदन्ति यदयं कामकरण्ड एष आवसथः ॥ ४ ॥
तत्र गतो दंशमशकसमापसदैर्मनुजैः शलभ-
शकुन्ततस्करमूषकादिभिरुपरुध्यमानबहिःप्राणः
क्वचित् परिवर्तमानोऽस्मिन्नध्वन्यविद्याकामकर्मभि-
रुपरक्तमनसानुपपन्नार्थं नरलोकं गन्धर्वनगर-
मुपपन्नमिति मिथ्यादृष्टिरनुपश्यति ॥ ५ ॥
तत्र च क्वचिदातपोदकनिभान् विषयानुपधावति
पानभोजनव्यवायादिव्यसनलोलुपः ॥ ६ ॥
क्वचिक्षाशेषदोषनिषदनं पुरीषविशेषं
तद्वर्णगुणनिर्मितमतिः सुवर्णमुपादित्सत्यग्नि-
कामकातर इवोल्मुकपिशाचम् ॥ ७ ॥
अथ कदाचिन्निवासपानीयद्रविणाद्यनेकात्मोप-
जीवनाभिनिवेश एतस्यां संसाराटव्याम् इतस्ततः
परिधावति ॥ ८ ॥
क्वचिच्च वात्यौपम्यया प्रमदयाऽऽरोह-
मारोपितस्तत्कालरजसा रजनीभूत इवासाधुमर्यादो
रजस्वलाक्षोऽपि दिग्देवता अतिरजस्वलमतिर्न
विजानाति ॥ ९ ॥
क्वचित्सकृदवगतविषयवैतथ्यः स्वयं
पराभिध्यानेन विभ्रंशितस्मृतिस्तयैव मरीचि-
तोयप्रायांस्तानेवाभिधावति ॥ १० ॥
क्वचिदुलूकझिल्लीस्वनवदतिपरुषरभसाटोपं
प्रत्यक्षं परोक्षं वा रिपुराजकुलनिर्भर्त्सितेना-
तिव्यथितकर्णमूलहृदयः ॥ ११ ॥
स यदा दुग्धपूर्वसुकृतस्तदा कारस्करकाक-
तुण्डाद्यपुण्यद्रुमलताविषोदपानवदुभयार्थशून्य-
द्रविणाञ्जीवन्मूतान् स्वयं जीवन्म्रियमाण उपधावति ॥ १२ ॥
एकदाऽसत्प्रसङ्गान्निकृतमतिर्व्युदकस्रोतः-
स्खलनवदुभयतोऽपिदुःखदपाखण्डमभियाति ॥ १३
यदा तु परबाधयान्ध आत्मने नोपनमति तदा हि
पितृपुत्रबर्हिष्मतः पितृपुत्रान् वा स खलु भक्षयति ॥ १४ ॥
क्वचिदासाद्य गृहं दाववत्प्रियार्थविधुरम् असुखोदर्कं
शोकाग्निना दह्यमानो भृशं निर्वेदमुपगच्छति ॥ १५ ॥
क्वचित्कालविषमितराजकुलरक्षसापहृत-
प्रियतमधनासुः प्रमृतक इव विगतजीवलक्षण आस्ते ॥ १६ ॥
कदाचिन्मनोरथोपगतपितृपितामहाद्यसत्सदिति
स्वप्रनिर्वृतिलक्षणमनुभवति ॥ १७ ॥
क्वचिद् गृहाश्रमकर्मचोदनातिभरगिरि-
मारुरुक्षमाणो लोकव्यसनकर्षितमनाः कण्टक-
शर्कराक्षेत्रप्रविशन्निवसीदति ॥ १८ ॥
क्वचिज्ज दुःसहेन कायाभ्यन्तरवह्निना
गृहीतसारःस्वकुटुम्बाय क्रिध्यति ॥ १९ ॥
स एव पुनर्निद्राजगरगृहीतोऽन्धे तमसि मग्नः शून्यारण्य
इव शेते नान्यत् किञ्चन वेद शव इवापविद्धः ॥ २० ॥
कदाचिद् भग्नमानदंष्ट्रो दुर्जनदन्दशूकै-
रलब्धनिद्राक्षणो व्यथितहृदयेनानुक्षीयमाण-
विज्ञानोऽन्धकूपेऽन्धवत्पतति ॥ २१ ॥
कर्हि स्म चित्काममधुलवान् विचिन्वन् यदा
परदारपरद्रव्याण्यवरुन्धानो राज्ञा स्वामिभिर्वा
निहतःपतत्यपारे निरये ॥ २२ ॥
अथ च तस्मादुभयथापि हि कर्मास्मिन्नात्मनः
संसारावपनमुदाहरन्ति ॥ २३ ॥
मुक्तस्ततो यदि बन्धाद्देवदत्त उपाच्छिनत्ति
तस्मादपि विष्णुमित्र इत्यनवञ्छितिः ॥ २४ ॥
क्वचिच्च शीतवाताद्यनेकाधिदैविक-
भौतिकात्मीयानां दशानां प्रतिनिवारणेऽकल्पो
दुरन्तचिन्तया विषण्ण आस्ते ॥ २५ ॥
क्वचिन्मिथो व्यवहरन् यत्किञ्चिद्धनमन्येभ्यो
वा काकिणिकामात्रमप्यहरन् यत्किञ्चिद्वा
विद्वेषमेति वित्तशाठ्यात् ॥ २६ ॥
अध्वन्यमुष्मिन्निम उपसर्गास्तथा सुखदुःख-
रागद्वेषभयाभिमानप्रमादोन्मादशोकमोहलोभ-
मात्सर्येर्ष्यावमानक्षुत्पिपासाधिव्याधिजन्मजरा-
मरणादयः ॥ २७ ॥
क्वापि देवमायया स्त्रिया भुजलतोपगूढः
प्रस्कन्नविवेकविज्ञानो यद्विहारगृहारम्भाकुलहृदय-
स्तदाश्रयावसक्तसुतदुहितृकलत्रभाषितावलोक-
विचेष्टितापहृतहृदय आत्मानमजितात्माऽपारेऽन्धे
तमसि प्रहिणोति ॥ २८ ॥
कदाचिदीश्वरस्य भगवतो विष्णोश्चक्रात्
परमाण्वादिद्विपरार्धापवर्गकालोपलक्षणात्-
परिवर्तितेन वयसा रंहसा हरत आब्रह्मतृण-
स्तम्बादीनां भूतानामनिमिषतो मिषतां वित्रस्त-
हृदयस्तमेवेश्वरं कालचक्रनिजायुधं साक्षाद्भगवन्तं
यज्ञपुरुषमनादृत्य पाखण्डदेवताः कङ्कगृध्र-
बकवटप्राया आर्यसमयपरिहृताः साङ्केत्येन अभिधत्ते ॥ २९ ॥
यदा पाखण्डिभिरात्मवञ्चितैस्तैरुरु वञ्चितो
ब्रह्मकुलं समावसंस्तेषां शीलमुपनयनादि-
श्रौतस्मार्तकर्मानुष्ठानेन भगवतो यज्ञपुरुष-
स्याराधनमेव तदरोचयन् शूद्रकुलं भजते
निगमाचारेऽशुद्धितो यस्य मिथुनीभावः
कुटुम्बभरणं यथा वानरजातेः ॥ ३० ॥
तत्रापिनिरवरोधः स्वैरेण विहरव्रतिकृपण-
बुद्धिरन्योन्यमुखनिरीक्षणादिना शाम्यकर्मणैव
विस्मृतकालावधिः ॥ ३१ ॥
क्वचिद्द्रुमवदैहिकार्थेषु गृहेषु रंस्यन् यथा
वानरः सुतदारवत्सलो व्यवायक्षणः ॥ ३२ ॥
एवमध्वन्यवरुन्धानो मृत्युगजभयात्तमसि
गिरिकन्दरप्राये ॥ ३३ ॥
क्वचिच्छीतवाताद्यनेकदैविकभौतिकात्मीयानां
दुःखानां प्रतिनिवारणेऽकल्पो दुरन्तविषयविषण्णआस्ते ॥ ३४ ॥
क्वचिन्मिथोव्यवहरन् यत्किञ्चिद्धनमुपयाति
वित्तशाठ्येन ॥ ३५ ॥
क्वचित्क्षीणधनः शय्यासनाशनाद्युपभोग-
विहीनो यावदप्रतिक्त्यधमनोरथोपगतादाने-
ऽवसितमतिस्ततस्ततोऽवमानादीनि जनाद् अभिलभते ॥ ३६ ॥
एवं वित्तव्यतिषङ्गविवृद्धवैरानुबन्धोऽपि
पूर्ववासनया मिथ उद्वहत्यथापवहति ॥ ३७ ॥
एतस्मिन् संसाराध्वनि नानाक्लेशोपसर्गबाधित
आपन्नविपन्नो यत्र यस्तमु ह वावेतरस्तत्र
विसृज्य जातं जातमुपादाय शोचन्मुह्यन्
बिभ्यद्विवदन् क्रन्दन् संहृष्यन् गायन्नह्यमानः
साधुवर्जितो नैवावर्ततेऽद्यापि यत आरब्ध एष
नरलोकसार्थोयमध्वनः पारमुपदिशन्ति ॥ ३८ ॥
यदिदं योगानुशासनं न वा एतदवरुन्धते
यन्न्यस्तदण्डा मुनय उपशमशीला उपरतात्मानः
समवगच्छन्ति ॥ ३९ ॥
यदपि दिगिभजयिनो यज्विनो ये वैराजर्षयः
किं तु परं मृधे शयीरन्नस्यामेव ममेयमिति
कृतवैरानुबन्धा यां विसृज्य स्वयमुपसंहृताः ॥ ४० ॥
कर्मवल्लीमवलम्ब्य तत आपदः कथ-
ञ्चित्ररकाद्विमुक्तः पुनरप्येवं संसाराध्वनि वर्तमानो
नरलोकसार्थमुपयाति एवमुपरि गतोऽपि ॥ ४१ ॥
तस्येदमुपगायन्ति-
आर्षभस्येह राजर्षेर्मनसापि महात्मनः ।
नानुवर्त्मार्हति नृपो मक्षिकेव गरुत्मतः ॥ ४२ ॥
योदुस्त्यजान्दारसुतान् सुहृद्राज्यं हृदिस्पृशः ।
जहौ युवैव मलवदुत्तमश्लोकलालसः ॥ ४३ ॥
योदुस्त्यजान् क्षितिसुतस्वजनार्थदारान्
प्रार्थ्यांश्रियंसुरवरैःसदयावलोकाम् ।
नैच्छन्नृपस्तदुचितं महतां मधुद्विट्-
सेवानुरक्तमनसामभवोऽपि फल्गुः ॥ ४४ ॥
यज्ञाय धर्मपतये विथिनैपुणाय
योगाय सांख्यशिरसे प्रकृतीश्वराय ।
नारायणाय हरये नम इत्युदारं
हास्यन्मृगत्वमपि यः समुदाजहार ॥ ४५ ॥
य इदं भागवत सभाजितावदातगुणकर्मणो
राजर्षेर्भरतस्यानुचरितं स्वस्त्ययनमायुष्यं धन्यं
यशस्यं स्वर्खापवर्ग्यं वानुशृणोत्याख्या-
स्यत्यभिनन्दति च सर्वा एवाशिष आत्मन
आशास्ते न काश्चन परत इति ॥ ४६ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे भरतोपाख्याने पारोक्ष्यविवरणं नाम चतुर्दशोऽध्यायः ॥ १४ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
GO TOP
|