श्रीमद्भागवत महापुराण
पञ्चमः स्कन्धः - सप्तदशोऽध्यायः
प्रियव्रतवंशानुकीर्तनम् -
[ Right click to 'save audio as' for downloading Audio ]
श्रीशुक उवाच
तत्र भगवतः साक्षाद्यज्ञलिङ्गस्य विष्णोर्विक्रमतो
वामपादाङ्गुष्ठनखनिर्भिन्नोर्ध्वाण्डकटाह-
विवरेणान्तःप्रविष्टा या बाह्यजलधारा तच्चरण -
पङ्कजावनेजनारुणकिञ्जल्कोपरञ्जिताखिल -
जगदघमलापहोपस्पर्शनामला साक्षाद्भगवत्पदी -
त्यनुपलक्षितवचोऽभिधीयमानातिमहता कालेन
युगसहस्रोपलक्षणेन दिवोमूर्धन्यवततारयत्तद्विष्णुपदमाहुः ॥ १ ॥
यत्र ह वाव वीरव्रत औत्तानपादिः परम-
भागवतोऽस्मत्कुलदेवताचरणारविन्दोदकमिति
यामनुसवनमुत्कृष्यमाणभगवद्भक्तियोगेन दृढं
क्लिद्यमानान्तर्हृदय औत्कण्ड्यविवशामीलित-
लोचनयुगलकुड्मलविगलितामलबाष्पकलया -
भिव्यज्यमानरोमपुलककुलकोऽधुनापि परमादरेण
शिरसा बिभर्ति ॥ २ ॥
ततः सप्तऋषयस्तत्प्रभावाभिज्ञा यां ननु तपस
आत्यन्तिकी सिद्धिरेतावती भगवति सर्वात्मनि
वासुदेवेऽनुपरतभक्तियोगलाभेनैवोपेक्षितान्यार्थात्म-
गतयो मुक्तिमिवागतां मुमुक्षव इव सबहुमानमद्यापि
जटाजूटैरुद्वहन्ति ॥ ३ ॥
ततोऽनेकसहस्रकोटिविमानानीकसङ्कुल -
देवयानेनावतरन्तीन्दुमण्डलमावार्य ब्रह्मसदने
निपतति ॥ ४ ॥
तत्र चतुर्धा भिद्यमाना चतुर्भिर्नामभिश्चतु-
दिंशमभिस्पन्दन्ती नदनदीपतिमेवाभिनिविशति
सीतालकनन्दा चक्षुर्भद्रेति ॥ ५ ॥
सीता तु ब्रह्मसदनात्केसराचलादिगिरि-
शिखरेभ्योऽधोऽधः प्रस्रवन्ती गन्धमादनमूर्धसु
पतित्वान्तरेण भद्राश्ववर्षं प्राच्यां दिशि
क्षारसमुद्रमभिप्रविशति ॥ ६ ॥
एवं माल्यवच्छिखरान्निष्पतन्ती ततोऽनुपरतवेगा
केतुमालमभिचक्षुः प्रतीच्यां दिशिसरित्पतिं प्रविशति ॥ ७ ॥
भद्रा चोत्तरतो मेरुशिरसो निपतिता
गिरिशिखराद्गिरिशिखरमतिहाय शृङ्गवतः
शृङ्गादवस्यन्दमाना उत्तरांस्तु कुरूनभित उदीच्यां
दिशि जलधिमभिप्रविशति ॥ ८ ॥
तथैवालकनन्दा दक्षिणेन ब्रह्मसदनाद्बहूनि
गिरिकूटान्यतिक्रम्य हेमकूटाद्धैमकूटान्य-
तिरभसतररंहसा लुठयन्ती भारतमभिवर्षं
दक्षिणस्यां दिशि जलधिमभिप्रविशति यस्यां
स्नानार्थं चागच्छतः पुंसः पदे पदेऽश्वमेधराज-
सूयादीनां फलं न दुर्लभमिति ॥ ९ ॥
अन्ये च नदा नद्यश्च वर्षे वर्षे सन्ति बहुशो
मेर्वादिगिरिदुहितरः शतशः ॥ १० ॥
तत्रापि भारतमेव वर्षं कर्मक्षेत्रमन्यान्यष्ट
वर्षाणि स्वर्गिणां पुण्यशेषोपभोगस्थानानि
भौमानि स्वर्गपदानि व्यपदिशन्ति ॥ ११ ॥
एषु पुरुषाणामयुतपुरुषायुर्वर्षाणां देवकल्पानां
नागायुतप्राणानां वज्रसंहननबलवयोमोद
प्रमुदितमहासौरतमिथुनव्यवायापवर्गवर्षधृतैक-
गर्भकलत्राणां तत्र तु त्रेतायुगसमः कालोवर्तते ॥ १२ ॥
यत्र ह देवपतयः स्वैः स्वैर्गणनायकैर्विहित-
महार्हणाः सर्वर्तुकुसुमस्तबकफलकिसलय-
श्रियाऽऽनम्यमानविटपलताविटपिभिरुपशुम्भमान-
रुचिरकानना श्रमायतनवर्षगिरिद्रोणीषु तथा
चामलजलाशयेषु विकचविविधनववनरुहामोद-
मुदितराजहंसजलकुक्कुटकारण्डवसारसचक्र-
वाकादिभिर्मधुकरनिकराकृतिभिरुपकूजितेषु
जलक्रीडादिभिर्विचित्रविनोदैःसुललितसुर-
सुन्दरीणां कामकलिलविलासहासलीला-
वलोकाकृष्टमनोदृष्टयः स्वैरं विहरन्ति ॥ १३ ॥
नवस्वपि वर्षेषु भगवान्नारायणो महापुरुषः पुरुषाणां
तदनुग्रहायात्मतत्त्वव्यूहेनात्मनाद्यापि संनिधीयते ॥ १४ ॥
इलावृते तु भगवान् भव एक एव पुमान्न
ह्यन्यस्तत्रापरो निर्विशति भवान्याः शापनिमित्तज्ञो
यत्प्रवेक्ष्यतः स्त्रीभावस्तत्पश्चाद्वक्ष्यामि ॥ १५ ॥
भवानीनाथैः स्त्रीगणार्बुदसहस्रैरवरुध्यमानो
भगवतश्चतुर्मूर्तेर्महापुरुषस्य तुरीयां तामसीं मूर्तिं
प्रकृतिमात्मनः सङ्कर्षणसंज्ञामात्मसमाधिरूपेण
सनिधाप्यैतदभिगणन् भव उपधावति ॥ १६ ॥
श्रीभगवानुवाच
ॐ नमो भगवते महापुरुषाय सर्वगुण-
सङ्ख्यानायानन्तायाव्यक्तायनम इति ॥ १७ ॥
भजे भजन्यारणपादपङ्कजं
भगस्य कृत्स्नस्य परं परायणम् ।
भक्तेष्वलं भावितभूतभावनं
भवापहं त्वा भवभावमीश्वरम् ॥ १८ ॥
न यस्य मायागुणचित्तवृत्तिभि-
र्निरीक्षतो ह्यण्वपि दृष्टिरज्यते ।
ईशे यथा नोऽजितमन्युरंहसां
कस्तं न मन्येत जिगीषुरात्मनः ॥ १९ ॥
असद्दृशो यः प्रतिभाति मायया
क्षीबेव मध्वासवताम्रलोचनः ।
न नागवध्वोऽर्हण ईशिरे ह्रिया
यत्पादयोः स्पर्शनधर्षितेन्द्रियाः ॥ २० ॥
यमाहुरस्य स्थितिजन्मसंयमं
त्रिभिर्विहीनं यमनन्तमॄषयः ।
न वेद सिद्धार्थमिव क्वचित्स्थितं
भूमण्डलं मूर्धसहस्रधामसु ॥ २१ ॥
यस्याद्य आसीद् गुणविग्रहो महान्
विज्ञानधिष्ण्यो भगवानजः किल ।
यत्सम्भवोऽहं त्रिवृता स्वतेजसा
वैकारिकं तामसमैन्द्रियं सृजे ॥ २२ ॥
एते वयं यस्य वशे महात्मनः
स्थिताः शकुन्ता इव सूत्रयन्त्रिताः ।
महानहं वैकृततामसेन्द्रियाः
सृजाम सर्वे यदनुगहादिदम् ॥ २३ ॥
यन्निर्मितां कर्ह्यपि कर्मपर्वणीं
मायां जनोऽयं गुणसर्गमोहितः ।
न वेद निस्तारणयोगमञ्जसा
तस्मै नमस्ते विलयोदयात्मने ॥ २४ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे सप्तदशोऽध्यायः ॥ १७ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
GO TOP
|