श्रीमद्भागवत महापुराण
पञ्चमः स्कन्धः - सप्तमोऽध्यायः
भरतचरिते भगवत्परिचर्यायाम् -
[ Right click to 'save audio as' for downloading Audio ]
श्रीशुक उवाच
भरतस्तु महाभागवतो यदा भगवतावनि-
तलपरिपालनाय सञ्चिन्तितस्तदनुशासनपरः
पञ्चजनीं विश्वरूपदुहितरमुपयेमे ॥ १ ॥
तस्यामु ह वा आत्मजान् कार्त्स्न्येनानुरूपानात्मनः
पञ्च जनयामास भूतादिरिव भूतसूक्ष्माणि ॥ २ ॥
सुमतिं राष्ट्रभृतं सुदर्शनमावरणं धूम्रकेतुमिति ।
अजनाभं नामैतद्वर्षं भारतमिति यत आरभ्य
व्यपदिशन्ति ॥ ३ ॥
स बहुविन्महीपतिः पितृपितामहवद्
उरुवत्सलतया स्वे स्वे कर्मणि वर्तमानाः प्रजाः
स्वधर्ममनुवर्तमानः पर्यपालयत् ॥ ४ ॥
ईजे च भगवन्तं यज्ञक्रतुरूपं क्रतुभिरुच्चावचैः
श्रद्धयाऽऽहृताग्निहोत्रदर्शपूर्णमासचातु-
र्मास्यपशुसोमानां प्रकृतिविकृतिभिरनुसवनं
चातुर्होत्रविधिना ॥ ५ ॥
सम्प्रचरत्सु नानायागेषु विरचिताङ्गक्रियेष्व-
पूर्वं यत्तत्क्रियाफलं धर्माख्यं परे ब्रह्मणि यज्ञपुरुषे
सर्वदेवतालिङ्गानां मन्त्राणामर्थनियामकतया
साक्षात्कर्तरि परदेवतायां भगवति वासुदेव एव
भावयमान आत्मनैपुण्यमृदितकषायो हविः -
ष्वध्वर्युभिर्गह्यमाणेषु स यजमानो यज्ञभाजो
देवांस्तान् पुरुषावयवेष्वभ्यध्यायत् ॥ ६ ॥
एवं कर्मविशुद्ध्या विशुद्धसत्त्वस्यान्त-
र्हृदयाकाश शरीरे ब्रह्मणि भगवति वासुदेवे
महापुरुषरूपोपलक्षणे श्रीवत्सकौस्तुभ-
वनमालारिदरगदादिभिरुपलक्षिते निजपुरुष-
हृल्लिखितेनात्मनि पुरुषरूपेण विरोचमान
उच्चैस्तरां भक्तिरनुदिनमेधमानरयाऽजायत ॥ ७ ॥
एवंवर्षायुतसहस्रपर्यन्तावसितकर्मनिर्वाणा-
वसरोऽधिभुज्यमानं स्वतनयेभ्यो रिक्थं पितृपैतामहं
यथादायं विभज्य स्वयं सकलसम्पन्निकेतात्
स्वनिकेतात् पुलहाश्रमं प्रवव्राज ॥ ८ ॥
यत्र ह वाव भगवान् हरिरद्यापि तत्रत्यानां
निजजनानां वात्सल्येन संनिधाप्यत इच्छारूपेण ॥ ९ ॥
यत्राश्रमपदान्युभयतोनाभिभिर्दृषच्चकैश्चक्रनदी
नाम सरित्प्रवरा सर्वतः पवित्रीकरोति ॥ १० ॥
तस्मिन् वाव किल स एकलः पुलहाश्रमोपवने
विविधकुसुमकिसलयतुलसिकाम्बुभिः कन्दमूल-
फलोपहारैश्च समीहमानो भगवत आराधनं विविक्त
उपरतविषयाभिलाष उपभृतोपशमः परां
निर्वृतिमवाप ॥ ११ ॥
तयेत्थमविरतपुरुषपरिचर्यया भगवति
प्रवर्धमानानुरागभरद्रुतहृदयशैथिल्यः प्रहर्ष-
वेगेनात्मन्युद्भिद्यमानरोमपुलककुलकऔत्कण्ड्य-
प्रवृत्तप्रणयबाष्पनिरुद्धावलोकनयन एवं
निजरमणारुणचरणारविन्दानुध्यानपरिचित-
भक्तियोगेन परिप्लुत परमाह्लादगम्भीरहृदय-
ह्रदावगाढधिषणस्तामपि क्रियमाणां भगवत्सपर्यां
न सस्मार ॥ १२ ॥
इत्थं धृतभगवद्व्रत ऐणेयाजिनवाससानुसवना-
भिषेकार्द्रकपिशकुटिलजटाकलापेन च विरोचमानः
सूर्यर्चा भगवन्तं हिरण्मयं पुरुषमुज्जिहाने सूर्यमण्डले-
ऽभ्युपतिष्ठन्नेतदु होवाच ॥ १३ ॥
परोरजः सवितुर्जातवेदो
देवस्य भर्गो मनसेदं जजान ।
सुरेतसादः पुनराविश्य चष्टे
हंसं गृध्राणं नृषद्रिङ्गिरामिमः ॥ १४ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे भरतचरिते भगवत्परिचर्यायां सप्तमोऽध्यायः ॥ ७ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
GO TOP
|