श्रीमद्भागवत महापुराण
पञ्चमः स्कन्धः - षष्ठोऽध्यायः
ऋषभदेवानुचरितः -
[ Right click to 'save audio as' for downloading Audio ]
राजोवाच
न नूनं भगव आत्मारामाणां योगसमीरित -
ज्ञानावभर्जितकर्मबीजानामैश्वर्याणि पुनः क्लेश -
दानि भवितुमर्हन्ति यदृच्छयोपगतानि ॥ १ ॥
ऋषिरुवाच
सत्यमुक्तं किन्त्विह वा एके न मनसोऽद्धा
विश्रम्भमनवस्थानस्य शठकिरात इव सङ्गच्छन्ते ॥ २ ॥
तथा चोक्तम्-
न कुर्यात्कर्हिचित्सख्यं मनसि ह्यनवस्थिते ।
यद्विश्रम्भाच्चिराच्चीर्णं चस्कन्द तप ऐश्वरम् ॥ ३ ॥
नित्यं ददाति कामस्य च्छिद्रं तमनु येऽरयः ।
योगिनः कृतमैत्रस्य पत्युर्जायेव पुंश्चली ॥ ४ ॥
कामो मन्युर्मदो लोभः शोकमोहभयादयः ।
कर्मबन्धश्च यन्मूलः स्वीकुर्यात्को नु तद् बुधः ॥ ५ ॥
अथैवमखिललोकपालललामोऽपि विलक्षणै -
र्जडवदवधूतवेषभाषाचरितैरविलक्षितभगवत्प्रभावो
योगिनां साम्परायविधिमनुशिक्षयन् स्वकलेवरं
जिहासुरात्मन्यात्मानमसंव्यवहितमनर्थान्तरभावेना-
न्वीक्षमाण उपरतानुवृत्तिरुपरराम ॥ ६ ॥
तस्य ह वा एवं मुक्तलिङ्गस्य भगवत ऋषभस्य
योगमायावासनया देह इमां जगतीमभिमानाभासेन
संक्रममाणः कोङ्कवेङ्ककुटकान्दक्षिणकर्णाटका -
न्देशान् यदृच्छयोपगतः कुटकाचलोपवन आस्य -
कृताश्मकवल उन्माद इव मुक्तमूर्धजोऽसंवीत एव
विचचार ॥ ७ ॥
अथ समीरवेगविधूतवेणुविकर्षणजातोग्र-
दावानलस्तद्वनमालेलिहानः सह तेन ददाह ॥ ८ ॥
यस्य किलानुचरितमुपाकर्ण्य कोङ्कवेङ्ककुटकानां
राजार्हन्नामोपशिक्ष्य कलावधर्म उत्कृष्यमाणे
भवितव्येन विमोहितःस्वधर्मपथमकुतोभयमपहाय
कुपथपाखण्डमसमञ्जसं निजमनीषया मन्दः
सम्प्रवर्तयिष्यते ॥ ९ ॥
येन ह वाव कलौ मनुजापसदा देवमाया-
मोहिताः स्वविधिनियोगशौचचारित्रविहीना
देवहेलनान्यपव्रतानि निजनिजेच्छया गृह्णाना
अस्नानानाचमनाशौचकेशोल्लुशनादीनि कलिना-
ऽधर्मबहुलेनोपहतधियो ब्रह्मब्राह्मणयज्ञपुरुष-
लोकविदूषकाः प्रायेण भविष्यन्ति ॥ १० ॥
तेचह्यर्वाक्तनया निजलोकयात्रयान्धपरम्परया-
ऽऽश्वस्तास्तमस्यन्धे स्वयमेव प्रपतिष्यन्ति ॥ ११ ॥
अयमवतारो रजसोपप्लुतकैवल्योपशिक्षणार्थः ॥ १२ ॥
तस्यानुगुणान् श्लोकान् गायन्ति-
अहो भुवः सप्तसमुद्रवत्या
द्वीपेषु वर्षेष्वधिपुण्यमेतत् ।
गायन्ति यत्रत्यजना मुरारेः
कर्माणि भद्राण्यवतारवन्ति ॥ १३ ॥
अहो नु वंशो यशसावदातः
प्रैयव्रतो यत्र पुमान् पुराणः ।
कृतावतारः पुरुषः सआद्य-
श्चचार धर्मं यदकर्महेतुम् ॥ १४ ॥
को न्वस्य काष्ठामपरोऽनुगच्छे-
न्मनोरथेनाप्यभवस्य योगी ।
यो योगमायाः स्पृहयत्युदस्ता
ह्यसत्तया येन कृतप्रयत्नाः ॥ १५ ॥
इति ह स्म सकलवेदलोकदेवब्राह्मणगवां
परमगुरोर्भगवत ऋषभाख्यस्य विशुद्धाचरितमीरितं
पुंसां समस्तदुश्चरिताभिहरणं परममहामङ्गलायन -
मिदमनु श्रद्धयोपचितयानु शृणोत्या श्रावयति
वावहितो भगवति तस्मिन् वासुदेव एकान्ततो
भक्तिरनयोरपि समनुवर्तते ॥ १६ ॥
यस्यामेव कवय आत्मानमविरतं
विविधवृजिनसंसारपरितापोपतप्यमानमनुसवनं
स्नापयन्तस्तयैव परया निर्वृत्या ह्यपवर्गमात्यन्तिकं
परमपुरुषार्थमपि स्वयमासादितं नो एवाद्रियन्ते
भगवदीयत्वेनैव परिसमाप्तसर्वार्थाः ॥ १७ ॥
राजन् पतिर्गुरुरलं भवतां यदूनां
दैवं प्रियः कुलपतिः क्व च किङ्करो वः ।
अस्त्वेवमङ्ग भगवान् भजतां मुकुन्दो
मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् ॥ १८ ॥
नित्यानुभूतनिजलाभनिवृत्ततृष्णः
श्रेयस्यतद्रचनया चिरसुप्तबुद्धेः ।
लोकस्य यः करुणयाभयमात्मलोक -
माख्यान्नमो भगवते ऋषभाय तस्मै ॥ १९ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे ऋषभदेवानुचरिते षष्ठोऽध्यायः ॥ ६ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
GO TOP
|