श्रीमद्भागवत महापुराण
पञ्चमः स्कन्धः - अष्टमोऽध्यायः
भरतचरिते भगवत्परिचर्यायाम् -
[ Right click to 'save audio as' for downloading Audio ]
श्रीशुक उवाच
एकदा तु महानद्यां कृताभिषेकनैयमिकावश्यको
ब्रह्माक्षरमभिगणानो मुहूर्तत्रयमुदकान्त उपविवेश ॥ १ ॥
तत्र तदा राजन् हरिणी पिपासया
जलाशयाभ्याशमेकैवोपजगाम ॥ २ ॥
तया पेपीयमान उदके तावदेवाविदूरेण नदतो
मृगपतेरुन्नादो लोकभयङ्कर उदपतत् ॥ ३ ॥
तमुपश्रुत्य सा मृगवधूः प्रकृतिविक्लवा
चकितनिरीक्षणा सुतरामपि हरिभयाभिनिवेश-
व्यग्रहृदया पारिप्लवदृष्टिरगततृषा भयात्
सहसैवोच्चक्राम ॥ ४ ॥
तस्या उत्पतन्त्या अन्तर्वत्न्या उरुभयावगलितो
योनिनिर्गतो गर्भः स्रोतसि निपपात ॥ ५ ॥
तत्प्रसवोत्सर्पणभयखेदातुरा स्वगणेन
वियुज्यमाना कस्याञ्चिद्दर्यां कृष्णसारसती
निपपाताथ च ममार ॥ ६ ॥
तं त्वेणकुणकं कृपणं स्रोतसानूह्यमानमभि-
वीक्ष्यापविद्धं बन्धुरिवानुकम्पया राजर्षिर्भरत
आदाय मृतमातरमित्याश्रमपदमनयत् ॥ ७ ॥
तस्य ह वा एणकुणक उच्चैरेतस्मिन् कृत-
निजाभिमानस्याहरहस्तत्पोषणपालनलालन-
प्रीणनानुध्यानेनात्मनियमाः सहयमाः पुरुष-
परिचर्यादय एकैकशः कतिपयेनाहर्गणेन
वियुज्यमानाःकिलसर्वएवोदवसन् ॥ ८ ॥
अहो बतायं हरिणकुणकः कृपण ईश्वर-
रथचरणपरिभ्रमणरयेण स्वगणसुहृद्बन्धुभ्यः
परिवर्जितः शरणं च मोपसादितो मामेव
मातापितरौ भ्रातृज्ञातीन् यौथिकांश्चैवोपेयाय नान्यं
कञ्चन वेद मय्यतिविस्रब्धश्चात एव मया
मत्परायणस्य पोषणपालनप्रीणनलालनमनसूयुना-
नुष्ठेयं शरण्योपेक्षादोषविदुषा ॥ ९ ॥
नूनं ह्यार्याः साधव उपशमशीलाः कृपणसुहृद्
एवंविधार्थे प्त्वार्थानपि गुरुतरानुपेक्षन्ते ॥ १० ॥
इति कृतानुषङ्ग आसनशयनाटनस्थानाशनादिषु
सह मृगजहुना सेहानुबद्धहृदय आसीत् ॥ ११ ॥
कुशकुसुमसमित्पलाशफलमूलोदकान्या-
हरिष्यमाणो वृकसालावृकादिभ्यो भयमाशंसमानो
यदा सह हरिणकुणकेन वनं समाविशति ॥ १२ ॥
पथिषु मुग्धभावेन तत्र तत्र विषक्तमतिप्रणय-
भरहृदयः कार्पण्यात्स्कन्धेनोद्वहति एवमुत्सङ्ग उरसि
चाधायोपलालयन्मुदं परमामवाप ॥ १३ ॥
क्रियायां निर्वर्त्यमानायामन्तरालेऽप्यु -
त्थायोत्थाय यदैनमभिचक्षीत तर्हि वाव स वर्षपतिः
प्रकृतिस्थेन मनसा तस्मा आशिष आशास्ते स्वस्ति
स्ताद्वत्स ते सर्वत इति ॥ १४ ॥
अन्यदा भृशमुद्विग्नमना नष्टद्रविण इव कृपणः
सकरुणमतितर्षेण हरिणकुणकविरहविह्वलहृदय-
सन्तापस्तमेवानुशोचन् किल कश्मलं
महदभिरम्भित इति होवाच ॥ १५ ॥
अपि बत स वै कृपणएणबालको मृतहरिणी-
सुतोऽहोममानार्यस्य शठकिरातमतेरकृतसुकृतस्य
कृतविस्रम्भ आत्मप्रत्ययेन तदविगणयन् सुजन
इवागमिष्यति ॥ १६ ॥
अपि क्षेमेणास्मिन्नाश्रमोपवने शष्पाणि
चरन्तं देवगुप्तं द्रक्ष्यामि ॥ १७ ॥
अपि च न वृकः सालावृकोऽन्यतमो वा
नैकचर एकचरो वा भक्षयति ॥ १८ ॥
निम्लोचति ह भगवान् सकलजगत्-
क्षेमोदयस्त्रय्यात्माद्यापि मम न मृगवधून्यास
आगच्छति ॥ १९ ॥
अपिस्विदकृतसुकृतमागत्य मां सुखयिष्यति
हरिणराजकुमारो विविधरुचिरदर्शनीयनिजमृग-
दारकविनोदैरसन्तोषं स्वानामपनुदन् ॥ २० ॥
स्वेलिकायां मां मृषासमाधिनाऽऽमीलितदृशं
प्रेमसंरम्भेण चकितचकित आगत्य पृषदपरुष-
विषाणाग्रेण लुठति ॥ २१ ॥
आसादितहविषि बर्हिषि दूषिते मयोपालब्धो
भीतभीतः सपद्युपरतरास ऋषिकुमारवदवहित-
करणकलापआस्ते ॥ २२ ॥
किं वा अरे आचरितं तपस्तपस्विन्यानया
यदियमवनिःसविनयकृष्णसारतनयतनुतरसुभग-
शिवतमाखरख्रुरपदपङ्क्तिभिर्द्रविणविधुरातुरस्य
कृपणस्य मम द्रविणपदवीं सूचयन्त्यात्मानं च
सर्वतः कृतकौतुकं द्विजानां स्वर्गापवर्गकामानां
देवयजनं करोति ॥ २३ ॥
अपिस्विदसौ भगवानुडुपतिरेनं मृगपतिभयात्
मृतमातरं मृगबालकं स्वाश्रमपरिभ्रष्टमनुकम्पया
कृपणजनवत्सलः परिपाति ॥ २४ ॥
किंवाऽऽत्मजविश्लेषज्वरदवदहनशिखाभि-
रुपतप्यमानहृदयस्थलनलिनीकं मामुपसृतमृगी-
तनयं शिशिरशान्तानुरागगुणितनिजवदनसलिला-
मृतमयगभस्तिभिः स्वधयतीति च ॥ २५ ॥
एवमघटमानमनोरथाकुलहृदयो मृगदारका-
भासेन स्वारब्धकर्मणा योगारम्भणतो विभ्रंशितः स
योगतापसो भगवदाराधनलक्षणाच्च कथमितरथा
जात्यन्तर एणकुणक आसङ्गः साक्षान्निःश्रेयस -
प्रतिपक्षतया प्राक्परित्यक्तदुस्त्यजहृदयाभिजातस्य
तस्यैवमन्तरायविहतयोगारम्भणस्य राजर्षेर्भरतस्य
तावन्गृगार्भकपोषणपालनप्रीणनलालनानुषङ्गेणा-
विगणयत आत्मानमहिरिवाखुबिलं दुरतिक्रमः
कालः करालरभस आपद्यत ॥ २६ ॥
तदानीमपि पार्श्ववर्तिनमात्मजमिवानुशोचन्तम्
अभिवीक्षमाणो मृग एवाभिनिवेशितमना विसृज्य
लोकमिमं सह मृगेण कलेवरं मृतमनु न मृतजन्मा -
नुस्मृतिरितरवन्मृगशरीरमवाप ॥ २७ ॥
तत्रापि ह वा आत्मनो मृगत्वकारणं भगवदाराधन-
समीहानुभावेनानुस्मृत्य भृशमनुतप्यमान आह ॥ २८ ॥
अहो कष्टं भ्रष्टो ऽहमात्मवतामनुपथाद्
यद्विमुक्तसमस्तसङ्गस्य विविक्तपुण्यारण्यशरणस्य
आत्मवत आत्मनि सर्वेषामात्मनां भगवति वासुदेवे
तदनुश्रवणमननसङ्कीर्तनाराधनानुस्मरणाभियोगेना-
श्हयसकलयामेन कालेन समावेशितं समाहितं कार्त्स्न्येन
मनस्तत्तु पुनर्ममाबुधस्यारान्मृग सुतमनु परिसुस्राव ॥ २९ ॥
इत्येवं निगूढनिर्वेदो विसृज्य मृगीं मातरं
पुनर्भगक्तक्षेत्रमुपशमशीलमुनिगणदयितं शालग्रामं
पुलस्त्यपुलहाश्रमं कालञ्जरात्प्रत्याजगाम ॥ ३० ॥
तस्मिन्नपि कालं प्रतीक्षमाणः सङ्गाच्च
भृशमुद्विग्न आत्मसहचरः शुष्कपर्णतृणवीरुधा
वर्तमानो मृगत्वनिमित्तावसानमेव गणयन्मृगशरीरं
तीर्थोदकविलन्नमुत्ससर्ज ॥ ३१ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे भरतचरितेऽष्टमोऽध्यायः ॥ ८ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
GO TOP
|