| 
 
श्रीमद्भागवत महापुराण   
 
प्रथमः स्कंधः - पञ्चमोध्यायः  
 
नारदव्याससंवादः, भगवद्गुणकर्मवर्णनस्य महत्त्वं, देवर्षि नारदकर्तृकं स्वकीय पूर्वजन्मवृत्तांत कथनं च -
 
 [ Right click to 'save audio as' for downloading Audio ] 
सूत उवाच -(अनुष्टुप्)
 अथ तं सुखमासीन उपासीनं बृहच्छ्रवाः ।
 देवर्षिः प्राह विप्रर्षिं वीणापाणिः स्मयन्निव ॥ १ ॥
 नारद उवाच -
 पाराशर्य महाभाग भवतः कच्चिदात्मना ।
 परितुष्यति शारीर आत्मा मानस एव वा ॥ २ ॥
 जिज्ञासितं सुसंपन्नमपि ते महदद्भुतम् ।
 कृतवान् भारतं यस्त्वं सर्वार्थपरिबृंहितम् ॥ ३ ॥
 जिज्ञासितमधीतं च यत्तद्ब्रह्म सनातनम् ।
 तथापि शोचस्यात्मानमकृतार्थ इव प्रभो ॥ ४ ॥
 व्यास उवाच -
 (उपेंद्रवज्रा)
 अस्त्येव मे सर्वमिदं त्वयोक्तं
 तथापि नात्मा परितुष्यते मे ।
 तन्मूलमव्यक्तमगाधबोधं
 पृच्छामहे त्वात्मभवात्मभूतम् ॥ ५ ॥
 स वै भवान् वेद समस्तगुह्य-
 मुपासितो यत्पुरुषः पुराणः ।
 परावरेशो मनसैव विश्वं
 सृजत्यवत्यत्ति गुणैरसङ्गः ॥ ६ ॥
 त्वं पर्यटन्नर्क इव त्रिलोकी-
 मन्तश्चरो वायुरिवात्मसाक्षी ।
 परावरे ब्रह्मणि धर्मतो व्रतैः
 स्नातस्य मे न्यूनमलं विचक्ष्व ॥ ७ ॥
 नारद उवाच -
 (अनुष्टुप्)
 भवतानुदितप्रायं यशो भगवतोऽमलम् ।
 येनैवासौ न तुष्येत मन्ये तद्दर्शनं खिलम् ॥ ८ ॥
 यथा धर्मादयश्चार्था मुनिवर्यानुकीर्तिताः ।
 न तथा वासुदेवस्य महिमा ह्यनुवर्णितः ॥ ९ ॥
 (वंशस्थ)
 न यद्वचश्चित्रपदं हरेर्यशो
 जगत्पवित्रं प्रगृणीत कर्हिचित् ।
 तद्वायसं तीर्थमुशन्ति मानसा
 न यत्र हंसा निरमन्त्युशिक्क्षयाः ॥ १० ॥
 तद्वाग्विसर्गो जनताघविप्लवो
 यस्मिन् प्रतिश्लोकमबद्धवत्यपि ।
 नामान्यनन्तस्य यशोऽङ्कितानि यत्
 शृण्वन्ति गायन्ति गृणन्ति साधवः ॥ ११ ॥
 नैष्कर्म्यमप्यच्युतभाववर्जितं
 न शोभते ज्ञानमलं निरञ्जनम् ।
 कुतः पुनः शश्वदभद्रमीश्वरे
 न चार्पितं कर्म यदप्यकारणम् ॥ १२ ॥
 अथो महाभाग भवानमोघदृक्
 शुचिश्रवाः सत्यरतो धृतव्रतः ।
 उरुक्रमस्याखिलबन्धमुक्तये
 समाधिनानुस्मर तद्विचेष्टितम् ॥ १३ ॥
 ततोऽन्यथा किञ्चन यद्विवक्षतः
 पृथग्दृशस्तत्कृतरूपनामभिः ।
 न कर्हिचित्क्वापि च दुःस्थिता मति-
 र्लभेत वाताहतनौरिवास्पदम् ॥ १४ ॥
 जुगुप्सितं धर्मकृतेऽनुशासतः
 स्वभावरक्तस्य महान् व्यतिक्रमः ।
 यद्वाक्यतो धर्म इतीतरः स्थितो
 न मन्यते तस्य निवारणं जनः ॥ १५ ॥
 विचक्षणोऽस्यार्हति वेदितुं विभो-
 रनन्तपारस्य निवृत्तितः सुखम् ।
 प्रवर्तमानस्य गुणैरनात्मन-
 स्ततो भवान् दर्शय चेष्टितं विभोः ॥ १६ ॥
 त्यक्त्वा स्वधर्मं चरणाम्बुजं हरे-
 र्भजन्नपक्वोऽथ पतेत्ततो यदि ।
 यत्र क्व वाभद्रमभूदमुष्य किं
 को वार्थ आप्तोऽभजतां स्वधर्मतः ॥ १७ ॥
 (इंद्रवंशा)
 तस्यैव हेतोः प्रयतेत कोविदो
 न लभ्यते यद्भ्रमतामुपर्यधः ।
 तल्लभ्यते दुःखवदन्यतः सुखं
 कालेन सर्वत्र गभीररंहसा ॥ १८ ॥
 (वंशस्थ)
 न वै जनो जातु कथञ्चनाव्रजे-
 न्मुकुन्दसेव्यन्यवदङ्ग संसृतिम् ।
 स्मरन् मुकुन्दाङ्घ्र्युपगूहनं पुन-
 र्विहातुमिच्छेन्न रसग्रहो जनः ॥ १९ ॥
 इदं हि विश्वं भगवानिवेतरो
 यतो जगत्स्थाननिरोधसंभवाः ।
 तद्धि स्वयं वेद भवांस्तथापि वै
 प्रादेशमात्रं भवतः प्रदर्शितम् ॥ २० ॥
 त्वमात्मनाऽऽत्मानमवेह्यमोघदृक्
 परस्य पुंसः परमात्मनः कलाम् ।
 अजं प्रजातं जगतः शिवाय त-
 न्महानुभावाभ्युदयोऽधिगण्यताम् ॥ २१ ॥
 इदं हि पुंसस्तपसः श्रुतस्य वा
 स्विष्टस्य सूक्तस्य च बुद्धिदत्तयोः ।
 अविच्युतोऽर्थः कविभिर्निरूपितो
 यदुत्तमश्लोकगुणानुवर्णनम् ॥ २२ ॥
 (इंद्रवंशा)
 अहं पुरातीतभवेऽभवं मुने
 दास्यास्तु कस्याश्चन वेदवादिनाम् ।
 निरूपितो बालक एव योगिनां
 शुश्रूषणे प्रावृषि निर्विविक्षताम् ॥ २३ ॥
 ते मय्यपेताखिलचापलेऽर्भके
 दान्तेऽधृतक्रीडनकेऽनुवर्तिनि ।
 चक्रुः कृपां यद्यपि तुल्यदर्शनाः
 शुश्रूषमाणे मुनयोऽल्पभाषिणि ॥ २४ ॥
 उच्छिष्टलेपाननुमोदितो द्विजैः
 सकृत्स्म भुञ्जे तदपास्तकिल्बिषः ।
 एवं प्रवृत्तस्य विशुद्धचेतस-
 स्तद्धर्म एवात्मरुचिः प्रजायते ॥ २५ ॥
 (वंशस्थ)
 तत्रान्वहं कृष्णकथाः प्रगायता-
 मनुग्रहेणाशृणवं मनोहराः ।
 ताः श्रद्धया मेऽनुपदं विशृण्वतः
 प्रियश्रवस्यङ्ग ममाभवद्रुचिः ॥ २६ ॥
 (इंद्रवंशा)
 तस्मिंस्तदा लब्धरुचेर्महामुने
 प्रियश्रवस्यस्खलिता मतिर्मम ।
 ययाहमेतत्सदसत्स्वमायया
 पश्ये मयि ब्रह्मणि कल्पितं परे ॥ २७ ॥
 इत्थं शरत्प्रावृषिकावृतू हरे-
 र्विशृण्वतो मेऽनुसवं यशोऽमलम् ।
 सङ्कीर्त्यमानं मुनिभिर्महात्मभि-
 र्भक्तिः प्रवृत्ताऽऽत्मरजस्तमोपहा ॥ २८ ॥
 (अनुष्टुप्)
 तस्यैवं मेऽनुरक्तस्य प्रश्रितस्य हतैनसः ।
 श्रद्दधानस्य बालस्य दान्तस्यानुचरस्य च ॥ २९ ॥
 ज्ञानं गुह्यतमं यत्तत्साक्षाद्भगवतोदितम् ।
 अन्ववोचन् गमिष्यन्तः कृपया दीनवत्सलाः ॥ ३० ॥
 येनैवाहं भगवतो वासुदेवस्य वेधसः ।
 मायानुभावमविदं येन गच्छन्ति तत्पदम् ॥ ३१ ॥
 एतत् संसूचितं ब्रह्मंस्तापत्रयचिकित्सितम् ।
 यदीश्वरे भगवति कर्म ब्रह्मणि भावितम् ॥ ३२ ॥
 आमयो यश्च भूतानां जायते येन सुव्रत ।
 तदेव ह्यामयं द्रव्यं न पुनाति चिकित्सितम् ॥ ३३ ॥
 एवं नृणां क्रियायोगाः सर्वे संसृतिहेतवः ।
 त एवात्मविनाशाय कल्पन्ते कल्पिताः परे ॥ ३४ ॥
 यदत्र क्रियते कर्म भगवत्परितोषणम् ।
 ज्ञानं यत्तदधीनं हि भक्तियोगसमन्वितम् ॥ ३५ ॥
 कुर्वाणा यत्र कर्माणि भगवच्छिक्षयासकृत् ।
 गृणन्ति गुणनामानि कृष्णस्यानुस्मरन्ति च ॥ ३६ ॥
 नमो भगवते तुभ्यं वासुदेवाय धीमहि ।
 प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च ॥ ३७ ॥
 इति मूर्त्यभिधानेन मंत्रमूर्तिममूर्तिकम् ।
 यजते यज्ञपुरुषं स सम्यग्दर्शनः पुमान् ॥ ३८ ॥
 इमं स्वनिगमं ब्रह्मन्नवेत्य मदनुष्ठितम् ।
 अदान्मे ज्ञानमैश्वर्यं स्वस्मिन् भावं च केशवः ॥ ३९ ॥
 (इंद्रवंशा)
 त्वमप्यदभ्रश्रुत विश्रुतं विभोः
 समाप्यते येन विदां बुभुत्सितम् ।
 प्राख्याहि दुःखैर्मुहुरर्दितात्मनां
 संक्लेशनिर्वाणमुशन्ति नान्यथा ॥ ४० ॥
 
 इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे व्यासनारदसंवादे पञ्चमोऽध्यायः ॥ ५ ॥
 
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
 
 GO TOP 
 
 |