अग्निपुराणम्

एकचत्वारिंशोऽध्यायः

शिलाविन्यासविधानम् -


भगवानुवाच -
पादप्रतिष्ठां वक्ष्यामि शिलाविन्यासलक्षणम् ।
अग्रतो मण्डपः कार्यः कुण्डानान्तु चतुष्टयम् ॥ १ ॥
कुम्भन्यासेष्टकान्यासो द्वारस्तम्भोच्छ्रयं शुभम् ।
पादोनं पूरयेत् खातं तत्र वास्तुं यजेत् समे ॥ २ ॥
इष्टकाश्च सुपक्वाः स्युर्द्वादशाङ्‌गुलसम्मिताः ।
सविस्तारत्रिभागेन वैपुल्येन समन्विताः ॥ ३ ॥
करप्रमाणा श्रेष्ठा स्याच्छिलाप्यथ शिलामये ।
नव कुम्भांस्ताम्रमयान् स्थापयेदिष्टकाघटान् ॥ ४ ॥
अद्‌भिः पञ्चकषायेण सर्वौषधिजलेन च ।
गन्धतोयेन च तथा कुम्भैस्तोयसुपूरितैः ॥ ५ ॥
हिरण्यव्रीहिसंयुक्तैः गन्धचन्दनचर्चितैः ।
आपो हिष्ठेति तिसृभिः शन्नो देवीति चाप्यथ ॥ ६ ॥
तरत्समन्दीरिति च पावमानीभिरेव च ।
उदुत्तमं वरुणमिति कथानश्च तथैव च ॥ ७ ॥
वरुणस्येति मन्त्रेण हंसः शुचिषदित्यपि ।
श्रीसूक्तेन च तथा शिलाः संस्थाप्य सङ्‌घटाः ॥ ८ ॥
शय्यायां मण्डपे प्राच्यां मण्डले हरिमर्चयेत् ।
जुहुयाज्जनयित्वाऽग्निं समिधो द्वादशीस्ततः ॥ ९ ॥
आधारावाज्यभागौ तु प्रणवेनैव कारयेत् ।
अष्टाहुतीस्तथाष्टान्तैराज्यं व्याहृतिभिः क्रमात् ॥ १० ॥
लोकेशानामग्नये वै सोमायावग्रहेषु च ।
पुरुषोत्तमायेति च व्याहृतीर्जुहुयात् ततः ॥ ११ ॥
प्रायश्चित्तं ततः पूर्णां मूर्तिमांसघृतांस्तिलान् ।
वेदाद्यैः द्वादशान्तेन कुम्भेषु च पृथक् पृथक् ॥ १२ ॥
प्राङ्‌मुखस्तु गुरुः कुर्यादष्टदिक्षु विलिप्य च ।
मध्ये चैकां शिलां कुम्भं न्यसेदेतान् सुरान् क्रमात् ॥ १३ ॥
पद्मं चैव महापद्मं मकरं कच्छपं तथा ।
कुमुदञ्च तथा नन्दं पद्मं शङ्खञ्च पद्मिनीम् ॥ १४ ॥
कुम्भान्न चालयेत्तेषु न्यसेदष्टेष्टकाःक्रमात् ।
ईशानान्ताश्च पूर्वादाविष्टकां प्रथमं न्यसेत् ॥ १५ ॥
शक्तयो विमलाद्यास्तु इष्टकानान्तु देवताः ।
न्यसनीया यथा योगं मध्ये न्यस्या त्वनुग्रहा ॥ १६ ॥
अव्यङ्‌गे चाक्षते पूर्णे मुनेरङ्‌गिरसः सुते ।
इष्टके त्वं प्रयच्छेष्टं प्रतिष्ठां कारयाम्यहम् ॥ १७ ॥
मन्त्रेणानेन विन्यस्य इष्टका देशिकोत्तमः ।
गर्भाधानं ततः कुर्यान्मध्यस्थाने समाहितः ॥ १८ ॥
कुम्भोपरिष्ठाद् देवेशं पद्मिनीं न्यस्य देवताम् ।
मृत्तिकाश्चैव पुष्पाणि धातवो रत्‍नमेव च ॥ १९ ॥
लौहानि दिक्पतेरस्त्रं यजेद्वै गर्भभाजने ।
द्वादशाङ्‌गुलविस्तारे चतुरङ्‌गुलकोच्छ्रये ॥ २० ॥
पद्माकारे ताम्रमये भाजने पृथिवीं यजेत् ।
एकान्ते सर्वभूतेशे पर्वतासनमण्डिते ॥ २१ ॥
समुद्रपरिवारे ! त्वं देवि ! गर्भं समाश्रय ।
नन्दे ! नन्दय वासिष्ठे ! वसुभिः प्रजया सह ॥ २२ ॥
जये ! भार्गवदायादे ! प्रजानां विजयावहे ! ।
पूर्णेऽङ्‌गिरसदायादे ! पूर्णकामं कुरुष्व माम् ॥ २३ ॥
भद्रे ! काश्यपदायादे ! कुरु भद्रां मतिं मम ।
सर्वबीजसमायुक्ते ! सर्वरत्‍नौषधीवृते ! ॥ २४ ॥
जये ! सुरुचिरे ! नन्दे ! वासिष्ठे ! रम्यतामिह ।
प्रजापतिसुते ! देवि ! चतुरस्रे महीयसि ॥ २५ ॥
सुभगे ! सुप्रभे ! भद्रे ! गृहे काश्यपि ! रम्यताम् ।
पूजिते ! परमाश्चर्ये ! गन्धमाल्यैः अलङ्‌कृते ॥ २६ ॥
भवभूतिकरी देवि ! गृहे भार्गवि ! रम्यताम् ।
देशस्वामिपुरस्वामिगृहस्वामिपरिग्रहे ! ॥ २७ ॥
मनुष्यादिकतुष्ट्यर्थं पशुवृद्धिकरी भव ।
एवमुक्त्वा ततः खातं गोमूत्रेण तु सेचयेत् ॥ २८ ॥
कृत्वा निधापयेद्‌गर्भं गर्भाधानं भवेन्निशि ।
गोवस्त्रादि प्रदद्याच्च गुरवेऽन्येषु भोजनम् ॥ २९ ॥
गर्भं न्यस्येष्टका न्यस्य ततो गर्भं प्रपूरयेत् ।
पीठबन्धमतः कुर्यान्मितप्रासादमानतः ॥ ३० ॥
पीठोत्तमञ्चोच्छ्रयेण प्रासादस्यार्धविस्तरात् ।
पादहीनं मध्यमं स्यात् कनिष्ठं चोत्तमार्द्धतः ॥ ३१ ॥
पीठबन्धोपरिष्ठात् तु वास्तुयागं पुनर्यजेत् ।
पादप्रतिष्ठाकारी तु निष्पापो दिवि मोदते ॥ ३२ ॥
देवागारं करोमीति मनसा यस्तु चिन्तयेत् ।
तस्य कायगतं पापं तदह्ना हि प्रणश्यति ॥ ३३ ॥
कृते तु किं पुनस्तस्य प्रासादे विधिनैव तु ।
अष्टेष्टकसमायुक्तं यः कुर्याद् देवतालयम् ॥ ३४ ॥
न तस्य फलसम्पत्तिर्वक्तुं शक्येत केनचित् ।
अनेनैवानुमेयं हि फलं प्रासादविस्तरात् ॥ ३५ ॥
ग्राममध्ये च पूर्वे च प्रत्यग्द्वारं प्रकल्पयेत् ।
विदिशासु च सर्वासु ग्रामे प्रत्यङ्‌मुखोभवेत् ।
दक्षिणे चोत्तरे चैव पश्चिमे प्राङ्‌मुखो भवेत् ॥ ३६ ॥
इति आदिमहापुराणे आग्नेये
पातालयोगकथनं नाम एकचत्वारिंशोऽध्यायः ॥ ४१ ॥


GO TOP