अग्निपुराणम्

द्वाचत्वारिंशोऽध्यायः

प्रासादलक्षणकथनम् -


हयग्रीव उवाच -
प्रासादं सम्प्रवक्ष्यामि सर्वसाधारणं शृणु ।
चतुरस्रीकृतं क्षेत्रं भजेत् षोडशधा बुधः ॥ १ ॥
मध्ये तस्य चतुर्भिस्तु कुर्यादायसमन्वितम् ।
द्वदशैव तु भागानि भित्त्यर्थं परिकल्पयेत् ॥ २ ॥
जङ्‌घोच्छ्रायन्तु कर्तव्यं चतुर्भागेण चायतम् ।
जङ्‌घायां द्विगुणोच्छ्रायं मञ्जर्याः कल्पयेद् बुधः ॥ ३ ॥
तुर्यभागेन मञ्जर्याः कार्यः सम्यक् प्रदक्षिणः ।
तन्माननिर्गमं कार्यमुभयोः पार्श्वयोः समम् ॥ ४ ॥
शिखरेण समं कार्यमग्रे जगति विस्तरम् ।
द्विगुणेनापि कर्तव्यं यथाशोभानुरूपतः ॥ ५ ॥
विस्तारान्मण्डपस्याग्रे गर्भसूत्रद्वयेन तु ।
दैर्घ्यात्पादाधिकं कुर्यान्मध्यस्तम्भैः विभूषितम् ॥ ६ ॥
प्रासादगर्भमानं वा कुर्वीत मुखमण्डपम् ।
एकाशीतिपदैर्वास्तुं पश्चात् मण्डपमारभेत् ॥ ७ ॥
शुकान् प्राग्‌द्वारविन्यासे पादान्तःस्थान् यजेत् सुरान् ।
तथा प्राकारविन्यासे यजेद् द्वात्रिंशदन्तगान् ॥ ८ ॥
सर्वसाधारणं चैतत् प्रासादस्य च लक्षणम् ।
मानेन प्रतिमाया वा प्रासादमपरं शृणु ॥ ९ ॥
प्रतिमायाः प्रमाणेन कर्तव्या पिण्डिका शुभा ।
गर्भस्तु पिण्डिकार्द्धेन गर्भमानास्तु भित्तयः ॥ १० ॥
भित्तेरायाममानेन उत्सेधन्तु प्रकल्पयेत् ।
भित्त्युच्छ्रायात्तु द्विगुणं शिखरं कल्पयेद् बुधः ॥ ११ ॥
शिखरस्य तु तुर्येण भ्रमणं परिकल्पयेत् ।
शिखरस्य चतुर्थेन अग्रतो मुखमण्डपम् ॥ १२ ॥
अष्टमांसेन गर्भस्य रथकानान्तु निर्गमः ।
परिधेर्गुणभागेन रथकांस्तत्र कल्पयेत् ॥ १३ ॥
तत्तृतीयेन वा कुर्याद्‌रथकानान्तु निर्गमम् ।
वामत्रयं स्थापनीयं रथकत्रितये सदा ॥ १४ ॥
शिखरार्थं हि सूत्राणि चत्वारि विनिपातयेत् ।
शुकनाशोर्ध्वतः सूत्रं तिर्यग्‌भूतं निपातयेत् ॥ १५ ॥
शिखरस्यार्द्धभागस्थं सिंहं तत्र तु कारयेत् ।
शुकनासां स्थिरीकृत्य मध्यसन्धौ निधापयेत् ॥ १६ ॥
अपरे च तथा पार्श्वे तद्वत् सूत्रं निधापयेत् ।
तदूर्ध्वन्तु भवेद्‌वेदी सकण्ठा मनसारकम् ॥ १७ ॥
स्कन्धभग्नं न कर्तव्यं विकरालं तथैव च ।
ऊर्ध्वं च वेदिकामानात् कलशं परिकल्पयेत् ॥ १८ ॥
विस्ताराद्‌द्विगुणं द्वारं कर्तव्यं तु सुशोभनम् ।
उदुम्बरौ तदूर्ध्वञ्च न्यसेच्छाखां सुमङ्‌गलैः ॥ १९ ॥
द्वारस्य तु चतुर्थांशे कार्यौ चण्डप्रचण्दकौ ।
विश्वक्सेनवद्‌दण्डौ शिखोर्ध्वोडुम्बरे श्रियम् ॥ २० ॥
दिग्गजैः स्नाप्यमानान्तां घटेः साब्जां सुरूपिकाम् ।
प्रासादस्य चतुर्थांशैः प्राकारस्योच्छ्रयो भवेत् ॥ २१ ॥
प्रासादात् पादहीनस्तु गोपुरस्योच्छ्रयो भवेत् ।
पञ्चहस्तस्य देवस्य एकहस्ता तु पीठिका ॥ २२ ॥
गारुडं मण्डपञ्चाग्रे एकं भौमादिधाम च ।
कुर्याद्धि प्रतिमायान्तु दिक्षु चाष्टासु चोपरि ॥ २३ ॥
पूर्वे वराहं दक्षे च नृसिंहं श्रीधरं जले ।
उत्तरे तु हयग्रीवमाग्नेय्यां जामदग्न्यकम् ॥ २४ ॥
नैर्ऋत्यां रामकं वायौ वामनं वासुदेवकम् ।
ईशे प्रासादरचना देया वस्वर्ककादिभिः ।
द्वारस्य चाष्टमाद्यंशं त्यक्त्वा वेधी न दोषभाक् ॥ २५ ॥
इति आदिमहापुराणे आग्नेये
प्रासादादिनां लक्षणवर्णनं नाम द्वाचत्त्वारिंशोऽध्यायः ॥ ४२ ॥


GO TOP