अग्निपुराणम्

चत्वारिंशोऽध्यायः

अर्घ्यदानविधानम् -


भगवानुवाच -
पूर्वमासित् महद्‌भूतं सर्वभूतभयङ्‌करम् ।
तद्देवैः निहितं भुमौ स वास्तुपुरुषः स्मृतः ॥ १ ॥
चतुःषष्टिपदे क्षेत्रे ईशं कोणार्द्धसंस्थितम् ।
घृताक्षतैस्तर्पयेत्तं पर्जन्यं पदगतं ततः ॥ २ ॥
उत्पलादिभिर्जयन्तञ्च द्विपदस्थं पताकया ।
महेन्द्रञ्चैककोष्ठस्थं सर्वरक्तैः पदे रविम् ॥ ३ ॥
वितानेनार्द्धपदगं सत्यं पदे भृशं घृतैः ।
व्योम शाकुनमांसेन कोणार्द्धपदसंस्थितम् ॥ ४ ॥
स्रुचा चार्द्धपदे वह्निं पूषाणं लाजयैकतः ।
स्वर्णेन वितथं द्विष्ठं मथनेन गृहाक्षतम् ॥ ५ ॥
मांसौदनेन धर्मेशमेकैकस्मिन् स्थितं द्वयम् ।
गन्धर्वं द्विपदं गन्धैः भृशं शाकुनजिह्वया ॥ ६ ॥
एकस्थमूर्ध्वसंस्थञ्च मृगं नीलपटैस्तथा ।
पितॄन् कृशरयार्द्धस्थं दन्तकाष्ठैः पदस्थितम् ॥ ७ ॥
दौवारिकं द्विसंस्थञ्च सुग्रीवं यावकेन तु ।
पुष्पदन्तं कुशस्तम्बैः पद्मैः वरुणमेकतः ॥ ८ ॥
असुरं सुरया द्विष्ठं पदे शेषं घृताम्भसा ।
यवैः पापं पदार्द्धस्थं रोगमर्द्धे च मण्डकैः ॥ ९ ॥
नागपुष्पैः पदे नागं मुख्यं भक्ष्यैर्द्विसंस्थितम् ।
मुद्‌गौदनेन भल्लाटं पदे सोमं पदे तथा ॥ १० ॥
मधुना पायसेनाथ शालूकेन ऋषिं द्वये ।
पदे दितिं लोपिकाभिरर्द्धे दितिमथापरम् ॥ ११ ॥
पूरिकाभिस्ततश्चापमीशाधः पयसा पदे ।
ततोऽधश्चापवत्सन्तु दध्ना चैकपदे स्थितम् ॥ १२ ॥
लड्डुकैश्च मरीचिन्तु पूर्वकोष्ठचतुष्टये ।
सवित्रे रक्तपुष्पाणि ब्रह्माधःकोणकोष्ठके ॥ १३ ॥
तदधःकोष्ठके दद्यात् सावित्र्यै च कुशोदकम् ।
विवस्तेऽरुणं दद्याच्चन्दनञ्चतुरङ्‌घ्रिषु ॥ १४ ॥
रक्षोऽधःकोणकोष्ठे तु इन्द्रायान्नं निशान्वितम् ।
इन्द्रजयाय तस्याधो घृतान्नं कोणकोष्ठके ॥ १५ ॥
चतुष्पदेषु दातव्यमिन्द्राय गुडपायसम् ।
वाय्वधः कोणदेशे तु रुद्राय पक्वमांसकम् ॥ १६ ॥
तदधः कोणकोष्ठे तु यक्षायार्द्रं फलन्तथा ।
महीधराय मांसान्नं माघञ्च चतुरङ्‌घ्रिषु ॥ १७ ॥
मध्ये चतुष्पदे स्थाप्या ब्रह्मणे तिलतण्डुलाः ।
चरकीं माषसर्पिभ्यां स्कन्दं कृशरयासृजा ॥ १८ ॥
रक्तपद्मैः विदारीञ्च कन्दर्पञ्च पलोदनैः ।
पूतनां पलपित्ताभ्यां मांसासृग्भ्याञ्च जम्भकम् ॥ १९ ॥
पित्तासृगस्थिभिः पापां पिलिपिञ्जं स्रजासृजा ।
ईशाद्यान् रक्तमांसेन अभावादक्षतैः यजेत् ॥ २० ॥
रक्षोमातृगणेभ्यश्च पिशाचादिभ्य एव च ।
पितृभ्यः क्षेत्रपालेभ्यो बलीन् दद्यात् प्रकामतः ॥ २१ ॥
आहुत्वैतानसन्तर्प्य प्रासादादीन्न कारयेत् ।
ब्रह्मस्थाने हरिं लक्ष्मीं गणं पश्चात् समर्चयेत् ॥ २२ ॥
महीश्वरं वास्तुमयं वर्द्धन्या सहितं घटम् ।
ब्रह्माणं मध्यतः कुम्भे ब्रह्मादींश्च दिगीश्वरान् ॥ २३ ॥
दद्यात् पूर्णाहुतिं पश्चात् स्वस्ति वाच्य प्रणम्य च ।
प्रगृह्य कर्करीं सम्यक् मण्डलन्तु प्रदक्षिणम् ॥ २४ ॥
सूत्रमार्गेण हे ब्रह्मंस्तोयधाराञ्च भ्रामयेत् ।
पूर्ववत्तेन मार्गेण सप्त बीजानि वापयेत् ॥ २५ ॥
प्रारम्भं तेन मार्गेण तस्य खातस्य कारयेत् ।
ततो गर्तं खनेन्मध्ये हस्तमात्रं प्रमाणतः ॥ २६ ॥
चतुरङ्‌गुलकं चाधश्चोपलिप्यार्चयेत् ततः ।
ध्यात्वा चतुर्भुजं विष्णुमर्घ्यं दद्यात्तु कुम्भतः ॥ २७ ॥
कर्कर्या पूरयेत् श्वभ्रं शुक्लपुष्पाणि च न्यसेत् ।
दक्षिणावर्तकं श्रेष्ठं बीजैः मृद्‌भिश्च पूरयेत् ॥ २८ ॥
अर्घ्यदानं विनिष्पाद्य गोवस्त्रादीन् ददेद्‌ गुरौ ।
कालज्ञाय स्थपतये वैष्णवादिभ्य अर्चयेत् ॥ २९ ॥
ततस्तु खानयेद् यत्‍नाज्जलान्तं यावदेव तु ।
पुरुषाधःस्थितं शल्यं न गृहे दोषदं भवेत् ॥ ३० ॥
अस्थिशल्ये भिद्यते वै भित्तिर्वै गृहिणोऽसुखम् ।
यन्नामशब्दं शृणुयात् तत्र शल्यं तदुद्‌भवम् ॥ ३१ ॥
इति आदिमहापुराणे आग्नेये
अर्घ्यदानकथनं नाम चत्वारिंशोऽध्यायः ॥ ४० ॥


GO TOP