अग्निपुराणम्
ऊनचत्वारिंशोऽध्यायः
विष्ण्वादिदेवताप्रतिष्ठाने भूपरिग्रहविधानम् -
हयग्रीव उवाच -
विष्ण्वादीनां प्रतिष्ठादि वक्ष्ये ब्रह्मन् शृणुष्व मे ।
प्रोक्तानि पञ्चरात्राणि सप्तरात्राणि वै मया ॥ १ ॥
व्यस्तानि मुनिभिर्लोके पञ्चविंशतिसङ्ख्यया ।
हयशीर्षं तन्त्रमाद्यं तन्त्रं त्रैलोक्यमोहनम् ॥ २ ॥
वैभवं पौष्करं तन्त्रं प्रह्रादङ्गार्ग्यगालवम् ।
नारदीयञ्च सम्प्रश्नं शाण्डिल्यं वैश्वकं तथा ॥ ३ ॥
सत्योक्तं शौनकं तन्त्रं वासिष्ठं ज्ञानसागरम् ।
स्वायम्भुवं कपिलञ्च तार्क्षं नारायणीयकम् ॥ ४ ॥
आत्रेयं नारसिंहाख्यं आनन्दाख्यं तथारुणम् ।
बौधायनं तथार्षं तु विश्वोक्तं तस्य सारतः ॥ ५ ॥
प्रतिष्ठां हि द्विजः कुर्यान् मध्यदेशादिसम्भवः ।
नकच्छदेशसम्भूतः कावेरीकोङ्कणोद्गतः ॥ ६ ॥
कामरूपकलिङ्गोत्थः काञ्चीकाश्मीरकोशलः ।
आकाशवायुतेजोऽम्बु भूरेताः पञ्च रात्रयः ॥ ७ ॥
अचैतन्यास्तमोद्रिक्ताः पञ्चरात्रविवर्जितम् ।
ब्रह्माहं विष्णुरमल इति विद्यात् स देशिकः ॥ ८ ॥
सर्वलक्षणहीनोऽपि स गुरुस्तन्त्रपारगः ।
नगराभिमुखाः स्थाप्या देवा न च पराङ्मुखाः ॥ ९ ॥
कुरुक्षेत्रे गयादौ च नदीनान्तु समीपतः ।
ब्रह्मा मध्ये तु नगरे पूर्वे शक्रस्य शोभनम् ॥ १० ॥
अग्नावग्नेश्च मातॄणां भूतानाञ्च यमस्य च ।
दक्षिणे चण्डिकायाश्च पितृदैत्यादिकस्य च ॥ ११ ॥
नैर्ऋते मन्दिरं कुर्यात् वरुणादेश्च वारुणे ।
वायोर्नागस्य वायव्ये सौम्ये यक्षगुहस्य च ॥ १२ ॥
चण्डीशस्य महेशस्य ऐशे विष्णोश्च सर्वशः ।
पूर्वदेवकुलं पीड्य प्रासादं स्वल्पकंत्वथ ॥ १३ ॥
समं वाप्यधिकं वापि न कर्तव्यं विजानता ।
उभयोर्द्विगुणां सीमां त्यक्त्वा चोच्छ्रयसम्मिताम् ॥ १४ ॥
प्रासादं कारयेदन्यं नोभयं पीडयेद् बुधः ।
भूमौ तु शोधितायां तु कुर्याद्भूमिपरिग्रहम् ॥ १५ ॥
प्राकारसीमापर्यन्तं ततो भूतबलिं हरेत् ।
माषं हरिद्राचूर्णन्तु सलाजं दधिसक्तुभिः ॥ १६ ॥
अष्टाक्षरेण सक्तूंश्च पातायित्वाष्टदिक्षु च ।
राक्षसाश्च पिशाचाश्च येस्मिंस्तिष्ठन्ति भूतले ॥ १७ ॥
सर्वे ते व्यपगच्छन्तु स्थानं कुर्यामहं हरेः ।
हलेन वाहयित्वा गां गोभिश्चैवावदारयेत् ॥ १८ ॥
प्रमाण्वष्टकेनैव त्रसरेणुः प्रकीर्तितः ।
रथरेण्वष्टकेनैव त्रसरेणुः प्रकीर्त्यते ॥ १९ ॥
तैः अष्टभिस्तु बालाग्रं लिख्या तैः अष्टभिर्मता ।
ताभिर्यूकाष्टभिः ख्याता ताश्चाष्टौ यवमध्यमः ॥ २० ॥
यवाष्टकैः अङ्गुलं स्याच्चतुर्विंशाङ्गुलः करः ।
चतुरङ्गुलसंयुक्तः स हस्तः पद्महस्तकः ॥ २१ ॥
इति आदिमहापुराणे आग्नेये विष्ण्वादिदेवताप्रतिष्ठार्थे
भूपरिग्रहवर्णनं नामैकोनचत्वारिंशोध्यायः ॥ ३९ ॥
GO TOP
|