अग्निपुराणम्
अष्टत्रिंशोऽध्यायः
देवालयनिर्माणफलादि -
अग्निरुवाच -
वासुदेवाद्यालयस्य कृतौ वक्ष्ये फलादिकम् ।
चिकीर्षोर्देवधामादि सहस्रजनिपापनुत् ॥ १ ॥
मनसा सद्मकर्तॄणां शतजन्माघनाशनम् ।
येऽनुमोदन्ति कृष्णस्य क्रियमाणं नरा गृहम् ॥ २ ॥
तेऽपि पापैः विनिर्मुक्ताः प्रयान्त्यच्युतलोकताम् ।
समतीतं भविष्यञ्च कुलानामयुतं नरः ॥ ३ ॥
विष्णुलोकं नयत्याशु कारयित्वा हरेर्गृहम् ।
वसन्ति पितरो दृष्ट्वा विष्णुलोके ह्यलङ्कृताः ॥ ४ ॥
विमुक्ता नारकैः दुःखैः कर्तुः कृष्णस्य मन्दिरम् ।
ब्रह्महत्यादि पापौघघातकं देवतालयम् ॥ ५ ॥
फलं यन्नाप्यते यज्ञैः धाम कृत्वा तदाप्यते ।
देवागारे कृते सर्वतीर्थस्नानफलं लभेत् ॥ ६ ॥
देवाद्यर्थे हतानाञ्च रणे यत्तत्फलादिकम् ।
शाठ्येन पांशुना वापि कृतं धाम च नाकदम् ॥ ७ ॥
एकायतनकृत् स्वर्गी त्र्यगारी ब्रह्मलोकभाक् ।
पञ्चागारी शम्भुलोकं अष्टागाराद्धरौ स्थितिः ॥ ८ ॥
षोडशालयकारी तु भुक्तिमुक्तिमवाप्नुयात् ।
कनिष्ठं मध्यमं श्रेष्ठं कारयित्वा हरेर्गृहम् ॥ ९ ॥
स्वर्गं च वैष्णवं लोकं मोक्षमाप्नोति च क्रमात् ।
श्रेष्ठमायतनं विष्णोः कृत्वा यद्धनवान् लभेत् ॥ १० ॥
कनिष्ठेनैव तत् पुण्यं प्राप्नोत्यधनवान्नरः ।
समुत्पाद्य धनं कृत्वा स्वल्पेनापि सुरालयम् ॥ ११ ॥
कारयित्वा हरेः पुण्यं सम्प्राप्नोत्यधिकं वरम् ।
लक्षेणाथ सहस्रेण शतेनार्धेन वा हरेः ॥ १२ ॥
कारयन् भवनं याति यत्रास्ते गरुडध्वजः ।
बाल्ये तु क्रीडमाणा ये पांशुभिर्भवनं हरेः ॥ १३ ॥
वासुदेवस्य कुर्वन्ति तेपि तल्लोकगामिनः ।
तीर्थे चायतने पुण्ये सिद्धक्षेत्रे तथाश्रमे ॥ १४ ॥
कर्तुरायतनं विष्णोर्यथोक्तात् त्रिगुणं फलम् ।
बन्धूकपुष्पविन्यासैः सुधापङ्केन वैष्णवम् ॥ १५ ॥
ये विलिम्पन्ति भवनं ते यान्ति भगवत्पुरम् ।
पतितं पतमानन्तु तथार्धपतितं नरः ॥ १६ ॥
समुद्धृत्य हरेर्धाम प्राप्नोति द्विगुणं फलम् ।
पतितस्य तु यः कर्ता पतितस्य च रक्षिता ॥ १७ ॥
विष्णोरायतनस्येह नरो विष्णुलोकभाक् ।
इष्टकानिच यस्तिष्ठेद् यावदायतने हरेः ॥ १८ ॥
सकुलस्तस्य वै कर्ता विष्णुलोके महीयते ।
स एव पुण्यवान् पूज्य इह लोके परत्र च ॥ १९ ॥
कृष्णस्य वासुदेवस्य यः कारयति केतनम् ।
जातः स एव सुकृती कुलन्तेनैव पावितम् ॥ २० ॥
विष्णुरुद्रार्कदेव्यादेः गृहकर्ता स कीर्तिभाक् ।
किं तस्य वित्तनिचयैर्मूढस्य परिरक्षिणः ॥ २१ ॥
दुःखार्जितैः यः कृष्णस्य न कारयति केतनम् ।
नोपभोग्यं धनं यस्य पितृविप्रदिवौकसाम् ॥ २२ ॥
नोपभोगाय बन्धूनां व्यर्थस्तस्य धनागमः ।
यथा ध्रुवो नृणां मृत्युर्वित्तनाशस्तथा ध्रुवः ॥ २३ ॥
मूढस्तत्राऽनुबध्नाति जीवितेऽथ चले धने ।
यदा वित्तं न दानाय नोपभोगाय देहिनाम् ॥ २४ ॥
नापि कीर्त्यै न धर्मार्थं तस्य स्वाम्येऽथ को गुणः ।
तस्माद् वित्तं समासाद्य दैवाद्वा पौरुषादथ ॥ २५ ॥
दद्यात् सम्यग् द्विजाग्र्येभ्यः कीर्तनानि च कारयेत् ।
दानेभ्यश्चाधिकं यस्मात् कीर्तनेभ्यो वरं यतः ॥ २६ ॥
अतस्तत्कारयेद्धीमान् विष्ण्वादेर्मन्दिरादिकम् ।
विनिवेश्य हरेर्धाम भक्तिमद्भिर्नरोत्तमैः ॥ २७ ॥
निवेशितं भवेत् कृत्स्नं त्रैलोक्यं सचराचरम् ।
भूतं भव्यं भविष्यञ्च स्थूलं सूक्ष्मं तथेतरतम् ॥ २८ ॥
आब्रह्मस्तम्बपर्यन्तं सर्वं विष्णोः समुद्भवम् ।
तस्य देवादिदेवस्य सर्वगस्य महात्मनः ॥ २९ ॥
निवेश्य भवनं विष्णोर्न भूयो भुवि जायते ।
यथा विष्णोर्धामकृतौ फलं तद्वद्दिवौकसाम् ॥ ३० ॥
शिवब्रह्मार्कविघ्नेश चण्डीलक्ष्म्यादिकात्मनाम् ।
देवालयकृतेः पुण्यं प्रतिमाकरणेऽधिकम् ॥ ३१ ॥
प्रतिमास्थापने यागे फलस्यान्तो न विद्यते ।
मृण्मयाद् दारुजे पुण्यं दारुजादिष्ट्काभवे ॥ ३२ ॥
इष्टकोत्थाच्छैलजे स्याद्धेमादेरधिकं फलम् ।
सप्तजन्मकृतं पापं प्रारम्भादेव नश्यति ॥ ३३ ॥
देवालयस्य स्वर्गी स्यान्नरकं न स गच्छति ।
कुलानां शतमुद्धृत्य विष्णुलोकं नयेन्नरः ॥ ३४ ॥
यमो यमभटानाह देवमन्दिरकारिणः ।
यम उवाच -
प्रतिमापूजादिकृतो नानेया नरकं नराः ॥ ३५ ॥
देवालयाद्यकर्तार आनेयास्ते तु गोचरे ।
विचरध्वं यथान्यायन्नियोगो मम पाल्यताम् ॥ ३६ ॥
नाज्ञाभङ्गं करिष्यन्ति भवतां जन्तवः क्वचित् ।
केवलं ते जगत्तातमनन्तं समुपाश्रिताः ॥ ३७ ॥
भवद्भिः परिहर्तव्यास्तेषां नात्रास्ति संस्थितिः ।
ये च भगवता लोके तच्चित्तास्तत्परायणाः ॥ ३८ ॥
पूजयन्ति सदा विष्णुं ते वस्त्याज्याः सुदूरतः ।
यस्तिष्ठन् प्रस्वपन् गच्छन्नुत्तिष्ठन् स्खलिते स्थिते ॥ ३९ ॥
सङ्कीर्तयन्ति गोविन्दं ते वस्त्याज्याः सुदूरतः ।
नित्यनैमित्तिकैर्देवं ये यजन्ति जनार्दनम् ॥ ४० ॥
नावलोक्या भवद्भिस्ते तद्गता यान्ति तद्गतिम् ।
ये पुष्पधूपवासोभिर्भूषणैश्चातिवल्लभैः ॥ ४१ ॥
अर्चयन्ति न ते ग्राह्या नराः कृष्णालये गताः ।
उपलेपनकर्तारः सम्मार्जनपराश्च ये ॥ ४२ ॥
कृष्णालये परित्यज्यास्तेषां पुत्रास्तथा कुलम् ।
येन चायतनं विष्णोः कारितं तत्कुलोद्भवम् ॥ ४३ ॥
पुंसां शतं नावलोक्यं भवद्भिर्दुष्टचेतसा ।
यस्तु देवालयं विष्णोर्दारुशैलमयं तथा ॥ ४४ ॥
कारयेन् मृण्मयं वापि सर्वपापैः प्रमुच्यते ।
अहन्यहनि यज्ञेन यजतो यन्महाफलम् ॥ ४५ ॥
प्राप्नोति तत्फलं विष्णोर्यः कारयति केतनम् ।
कुलानां शतमागामि समतीतं तथाशतम् ॥ ४६ ॥
कारयन् भगवद्धाम नयत्यच्युतलोकताम् ।
सप्तलोकमयो विष्णुस्तस्य यः कुरुते गृहम् ॥ ४७ ॥
तारयत्यक्षयांल्लोकानक्षयान् प्रतिपद्यते ।
इष्टकाचयविन्यासो यावन्त्यब्दानि तिष्ठति ॥ ४८ ॥
तावद्वर्षसहस्राणि तत्कर्तुर्दिवि संस्थितिः ।
प्रतिमाकृद् विष्णुलोकं स्थापको लीयते हरौ ।
देवसद्मप्रतिकृति-प्रतिष्ठाकृत् तु गोचरे ॥ ४९ ॥
अग्निरुवाच -
यमोक्ता न नयंत्येतं प्रतिष्ठादिकृतं हरेः ।
हयग्रीवः प्रतिष्ठाद्यं देवानां ब्रह्मणेऽब्रवीत् ॥ ५० ॥
इति आदिमहापुराणे आग्नेये
देवालयादिमाहात्म्यादिवर्णनं नाम अष्टत्रिंशोध्यायः ॥ ३८ ॥
GO TOP
|