अग्निपुराणम्
चतुस्त्रिंशोऽध्यायः
पवित्रकारोपणे पूजाहोमादिविधिः -
अग्निरुवाच -
विशेदनेन मन्त्रेण यागस्थानञ्च भूषयेत् ।
नमो ब्रह्मण्यदेवाय श्रीधरायाव्ययात्मने ॥ १ ॥
ऋग्यजुःसामरूपाय शब्ददेहाय विष्णवे ।
विलिख्य मण्डलं सायं यागद्रव्यादि चाहरेत् ॥ २ ॥
प्रक्षालितकराङ्घ्रिः सन् विन्यस्यार्घ्य करो नरः ।
अर्घ्यादिभिस्तु शिरः प्रोक्ष्य द्वारदेशादिकं यथा ॥ ३ ॥
आरभेद् द्वारयागञ्च तोरणेशान् प्रपूजयेत् ।
अश्वत्थोदुम्बरवटप्रक्षाः पूर्वादिगा नगाः ॥ ४ ॥
ऋगिन्द्रशोभनं प्राच्यां यजुर्यमसुभद्रकम् ।
सामापश्च सुधन्वाख्यं सोमाथर्वसुहोत्रकम् ॥ ५ ॥
तोरणान्तः पताकाश्च कुमुदाद्या घटद्वयम् ।
द्वारि द्वारि स्वनाम्नार्च्याः पूर्वे पूर्णश्च पुष्करः ॥ ६ ॥
आनन्दनन्दनौ दक्षे वीरसेनः सुषेणकः ।
सम्भवप्रभवौ सौम्ये द्वारपाश्चैव पूजयेत् ॥ ७ ॥
अस्त्रजप्तपुष्पक्षेपाद्विघ्नानुत्सार्य संविशेत् ।
भूतशुद्धिं विधायाथ विन्यस्य कृतमुद्रवः ॥ ८ ॥
फट्कारान्तां शिखां जप्त्वा सर्षपान् दिक्षु निक्षिपेत् ।
वासुदेवेन गोमूत्रं सङ्कर्षणेन गोमयम् ॥ ९ ॥
प्रद्युम्नेन पयस्तज्जात् दधि नारायणाद् घृतम् ।
एकद्वित्र्यादिवाराणि घृताद्वै भागतोऽधिकम् ॥ १० ॥
घृतपात्रे तदेकत्र पञ्चगव्यमुदाहृतम् ।
मण्डपप्रोक्षणायैकञ्चापरम्प्राशनाय च ॥ ११ ॥
आनीय दशकुम्भेषु इन्द्राद्यान् लोकपान् यजेत् ।
पूज्याज्ञां श्रावयेत् तांश्च स्थातव्यं चाज्ञया हरेः ॥ १२ ॥
यागद्रव्यादि संरक्ष्य विकिरान् विकिरेत् ततः ।
मूलाष्टशतसञ्जप्तान् कुशकूर्चान् हरेश्च तान् ॥ १३ ॥
ऐशान्यां दिशि तत्रस्थं स्थाप्यं कुम्भञ्च वर्धनीम् ।
कुम्भे साङ्गं हरिं प्रार्च्य वर्धन्यामस्त्रमर्चयेत् ॥ १४ ॥
प्रदक्षिणं यागगृहं वर्धन्याच्छिन्नधारया ।
सिञ्चन्नयेत् ततः कुम्भं पूजयेच्च स्थिरासने ॥ १५ ॥
सपञ्चरत्नवस्त्राढ्यकुम्भे गन्धादिभिर्हरिम् ।
वर्धन्यां हेमगर्भायां यजेदस्त्रञ्च वामतः ॥ १६ ॥
तत्समीपे वास्तुलक्ष्मीं भूविनायकमर्चयेत् ।
स्रपनं कल्पयेद्विष्णोः सङ्क्रान्त्यादौ तथैव च ॥ १७ ॥
पूर्णकुम्भान् नव स्थाप्य नवकोणेषु निर्व्रणान् ।
पाद्यमर्घ्यमाचनीयं पञ्चगव्यञ्च निःक्षिपेत् ॥ १८ ॥
पूर्वादिकलसेऽग्न्यादौ पञ्चामृतजलादिकम् ।
दधि क्षीरं मधूष्णोदं पाद्यं स्यात् चतुरङ्गकम् ॥ १९ ॥
पद्मश्यामाकदूर्वाश्च विष्णुपत्नी च पाद्यकम् ।
तथाष्टाङ्गार्घ्यमाख्यातं यवगन्धफलाक्षतम् ॥ २० ॥
कुशाः सिद्धार्थपुष्पाणि तिला द्रव्याणि चार्हणम् ।
लवङ्गकङ्कोलयुतं दद्यादाचमनीयकम् ॥ २१ ॥
स्नापयेन्मूलमन्त्रेण देवं पञ्चामृतैः अपि ।
शुद्धोदं मध्यकुम्भेन देवमूर्ध्नि विनिःक्षिपेत् ॥ २२ ॥
कलशान्निःसृतं तोयं कूर्चाग्रं संस्पृशेन्नरः ।
शुद्धोदकेन पाद्यञ्च अर्घ्यमाचमनं ददेत् ॥ २३ ॥
परिमृज्य पटेनाङ्गं सवस्त्रं मण्डलं नयेत् ।
तत्राभ्यर्च्याचरेद्धोमं कुण्डादौ प्राणसंयमी ॥ २४ ॥
प्रक्षाल्य हस्तौ रेखाश्च तिस्रः पूर्वाग्रगामिनीः ।
दक्षिणादुत्तराश्च तिस्रश्चैवोत्तराग्रगाः ॥ २५ ॥
अर्घ्योदकेन सम्प्रोक्ष्य योनिमुद्रां प्रदर्शयेत् ।
ध्यात्वाग्निरूपञ्चाग्निन्तु योन्यां कुण्डे क्षिपेन्नरः ॥ २६ ॥
पात्राण्यासादयेत् पश्चाद्दर्भश्रुक्श्रुवकादिभिः ।
बाहुमात्राः परिधय इध्मव्रश्चनमेव च ॥ २७ ॥
प्रणीता प्रोक्षणीपात्रमाज्यस्थाली घृतादिकम् ।
प्रस्थद्वयं तण्डुलानां युग्मं युग्ममधोमुखम् ॥ २८ ॥
प्रणीताप्रोक्षणीपात्रे न्यसेत् प्रागग्रगं कुशम् ।
अद्भिः पूर्यप्रणीतान्तु ध्यात्वा देवं प्रपूज्य च ॥ २९ ॥
प्रणीतां स्थापयेदग्रे द्रव्याणाञ्चैव मध्यतः ।
प्रोक्षणीमद्भिः सम्पूर्य प्रार्च्य दक्षे तु विन्यसेत् ॥ ३० ॥
चरुञ्च श्रपयेदग्नौ ब्रह्माणं दक्षिणे न्यसेत् ।
कुशानास्तीर्य पूर्वादौ परिधीन् स्थापयेत् ततः ॥ ३१ ॥
वैष्णवीकरणं कुर्याद् गर्भाधानादिना नरः ।
गर्भाधानं पुंसवनं सीमन्तोन्नयनं जनिः ॥ ३२ ॥
नामादिसमावर्तनान्तं जुहुयादष्ट चाहुतीः ।
पूर्णाहुतीः प्रतिकर्म श्रुचा स्रुवसुयुक्तया ॥ ३३ ॥
कुण्डमध्ये ऋतुमतीं लक्ष्मीं सञ्चिन्त्य होमयेत् ।
कुण्डलक्ष्मीः समाख्याता प्रकृतिस्त्रिगुणात्मका ॥ ३४ ॥
सा योनिः सर्वभूतानां विद्यामन्त्रगणस्य च ।
विमुक्तेः कारणं वह्निः परमात्मा च मुक्तिदः ॥ ३५ ॥
प्राच्यां शिरः समाख्यातं बाहू कोणे व्यवस्थितौ ।
ईशानाग्नेयकोणे तु जङ्घे वायव्यनैरृते ॥ ३६ ॥
उदरं कुण्डमित्युक्तं योनिर्योनिर्विधीयते ।
गुणत्रयं मेखलाः स्युर्ध्यात्वैवं समिधो दश ॥ ३७ ॥
पञ्चाधिकांस्तु जुहुयात् प्रणवान् मुष्टिमुद्रया ।
पुनराघारौ जुहुयाद् वाय्वग्न्यन्तं ततः श्रपेत् ॥ ३८ ॥
ईशान्तं मूलमन्त्रेण आज्यभागौ तु होमयेत् ।
उत्तरे द्वादशान्तेन दक्षिणे तेन मध्यतः ॥ ३९ ॥
व्याहृत्या पद्ममध्यस्थं ध्यायेद् वह्निन्तु संस्कृतम् ।
वैष्णवं सप्तजिह्वं च सूर्यकोटिसमप्रभम् ॥ ४० ॥
चन्द्रवक्त्रञ्च सूर्याक्षं जुहुयाच्छतमष्ट च ।
तदर्धञ्चाष्ट मूलेन अङ्गानाञ्च दशांशतः ॥ ४१ ॥
इति आदिमहापुराणे आग्नेये पवित्रकारोपणसम्बन्धि- पूजाहोमादिविधिकथनं नाम चतुर्त्रिंशोऽध्यायः ॥
GO TOP
|