अग्निपुराणम्

त्रयस्त्रिंशोऽध्यायः

पवित्रकारोपणविधिकथनम् -


अग्निरुवाच -
पवित्रारोपणं वक्ष्ये वर्षपूजाकलं हरेः ।
आषाढादौ कार्तिकान्ते प्रतिपत्त्यज्यते तिथिः ॥ १ ॥
श्रिया गौर्या गणेशस्य सरस्वत्या गुहस्य च ।
मार्तण्डमातृदुर्गाणां नागर्षिहरिमन्मथैः ॥ २ ॥
शिवस्य ब्रह्मणस्तद्वद् द्वितीयादितिथिक्रमात् ।
यस्य देवस्य यो भक्तः पवित्रा तस्य सा तिथिः ॥ ३ ॥
आरोहणे तुल्यविधिः पृथक् मन्त्रादिकं यदि ।
सौवर्णं राजतं ताम्रं नेत्रकार्पासिकादिकम् ॥ ४ ॥
ब्राह्मण्या कार्तितं सूत्रं तदलाभे तु संस्कृतम् ।
त्रिगुणं त्रिगुणीकृत्य तेन कुर्यात् पवित्रकम् ॥ ५ ॥
अष्तोत्तरशतादूर्ध्वं तदर्धं चोत्तमादिकम् ।
क्रियालोपाविघातार्थं यत्त्वयाभिहितं प्रभो ॥ ६ ॥
मया तत् क्रियते देव यथा यत्र पावित्रकम् ।
अविघ्नं तु भवेदेतत्कुरु नाथ तथाऽव्यय ॥ ७ ॥
प्रार्थ्य तन्मण्डलादौ तु गायत्र्या बन्धयेन्नरः ।
ॐ नमो नारायणाय विद्महे वासुदेवाय धीमहि ॥ ८ ॥
तन्नो विष्णुः प्रचोदयात् । एषा प्रयोज्या सर्वत्र देवनामानुरूपतः ॥ ९ ॥
जानूरुनाभिनामान्तं प्रतिमासु पवित्रकम् ।
पादान्ता वनमाला स्यादष्टोत्तरसहस्रतः ॥ १० ॥
मालां तु कल्पसाध्यां वा द्विगुणं षोडशाङ्‌गुलात् ।
कर्णिकाकेसरैः पत्रैर्मन्त्राद्यं मण्डलान्तकम् ॥ ११ ॥
मण्डलाङ्‌गुलमात्रैकचक्राङ्‌गादौ पवित्रकम् ।
स्थण्डिलेऽङ्‌गुलमानेन आत्मनः सप्तविंशतिः ॥ १२ ॥
आचार्याणां च सूत्राणि पितृमात्रादिकैः स्वकैः ।
नाभ्यन्तं द्वादशग्रन्थिं तथा गन्धपवित्रके ॥ १३ ॥
अङ्‌गुलात् कल्पनादौ द्विर्माला चाष्टोत्तरं शतम् ।
अथवाऽर्क चतुर्विंशषड्त्रिंशन्मालिका द्विजः ॥ १४ ॥
अनामामध्यमाङ्‌गुष्ठैर्मन्दाद्यैर्मालिकार्थिभिः ।
कनिष्टादौ द्वादश वा ग्रन्थयः स्युः पवित्रके ॥ १५ ॥
रवेः कुम्भहुताशादेः सम्भवे विष्णुवन्मतम् ।
पीठस्य पीठमानं स्यान्मेखलान्तं च कुण्डले ॥ १६ ॥
यथाशक्ति सूत्रग्रन्थिः परिचारेऽथ वैष्णवे ।
सूत्राणि वा सप्तदश सूत्रेण त्रिविभक्तके ॥ १७ ॥
रोचनागरुकर्पूरहरिद्राकुङ्‌कुमादिभिः ।
रञ्जयेच्चन्दनाद्यैर्वा स्नानसन्ध्यादिकृन्नरः ॥ १८ ॥
एकादश्यां यागगृहे भगवन्तं हरिं जयेत् ।
समस्तपरिवाराय बलिं दद्यात्समर्चयेत् ॥ १९ ॥
क्ष्यौं क्षेत्रपालाय द्वारान्ते द्वारोपरि तथा श्रियम् ।
धात्रे दक्षविधात्रे च गङ्‌गां च यमुनां तथा ॥ २०॥
शङ्खपद्मनिधी पूज्य मध्ये वस्त्रप्रसारणम् ।
सारङ्‌गायेति भूतानां भूतशुद्धिं स्थितश्चरेत् ॥ २१ ॥
ॐ ह्रूं हः फट् ह्रूं गन्धतन्मात्रं संहरामि नमः ।
ॐ ह्रूं हः फट् ह्रूं रसतन्मात्रं संहरामि नमः ॥ २२ ॥
ॐ ह्रूं हः फट् ह्रूं रूपतन्मात्रं संहरामि नमः ।
ॐ ह्रूं हः फट् ह्रूं स्पर्शतन्मात्रं संहरामि नमः ॥ २३ ॥
ॐ ह्रूं हः फट् ह्रूं शब्दतन्मात्रं संहरामि नमः ।
पञ्चोद्धातैर्गन्धतन्मात्रस्वरूपं भूमिमण्डलम् ॥ २४ ॥
चतुरस्रंच पीठं च काञ्चनं वज्रलाञ्छितम् ।
इन्द्रादिदैवतं पादयुग्ममध्यगतं स्मरेत् ॥ २५ ॥
शुद्धं च रसतन्मात्रं प्रविलिप्याथ संहरेत् ।
रसमात्रं रूपमात्रे क्रमेणानेन पूजकः ॥ २६ ॥
ॐ ह्रूं हः फट् ह्रूं रसतन्मात्रं संहरामि नमः
ॐ ह्रूं हः फट् ह्रूं रूपतन्मात्रं संहरामि नमः ॥ २७ ॥
ॐ ह्रूं हः फट् ह्रूं स्पर्शतन्मात्रं संहरामि नमः
ॐ ह्रूं हः फट् ह्रूं शब्दतन्मात्रं संहरामि नमः ॥ २८ ॥
जानुनाभिमध्यगतं श्वेतं वै पद्मलाञ्छितम् ।
शुक्लवर्णं चार्धचन्द्रं ध्यायेद्‍वरुणदैवतम् ॥ २९ ॥
चतुर्भिश्च तदुद्धातैः शुद्धं तद्‌रसमात्रकम् ।
संहरेद्‌रूपतन्मात्रै रूपमात्रे च संहरेत् ॥ ३० ॥
ॐ ह्रूं हः फट् ह्रूं रूपतन्मात्रं संहरामि नमः
ॐ ह्रूं हः फट् ह्रूं स्पर्शतन्मात्रं संहरामि नमः ॥ ३१ ॥
ॐ ह्रूं हः फट् ह्रूं शब्दतन्मात्रं संहरामि नमः
इति त्रिभिस्तदुद्धातैस्त्रिकोणं वह्निमण्डलम् ॥ ३२ ॥
नाभिकण्ठमध्यगतं रक्तं स्वस्तिकलाञ्छितम् ।
ध्यात्वाऽनलाधिदैवं तच्छुद्धं स्पर्शे लयं नयेत् ॥ ३३ ॥
ॐ ह्रूं हः फट् ह्रूं स्पर्शतन्मात्रं संहरामि नमः ।
ॐ ह्रूं हः फट् ह्रूं शब्दतन्मात्रं संहरामि नमः ॥ ३४ ॥
कण्ठनासामध्यगतं वृत्तं वै वायुमण्डलम् ।
द्विरुद्धातैर्धूम्रवर्णं ध्यायेच्छुद्धेन्दुलाञ्छितम् ॥ ३५ ॥
स्पर्शमात्रं शब्दमात्रैः संहरेद्ध्यानयोगतः ।
ॐ ह्रूं हः फट् ह्रूं शब्दतन्मात्रं संहरामि नमः ॥ ३६ ॥
एकोद्धातेन चाकाशं शुद्धस्फटिकसन्निभम् ।
नासापुटशिखान्तस्थमाकाशमुपसंहरेत् ॥ ३७ ॥
शोषणाद्यैर्देहशुद्धिं कुर्यादेवं क्रमात्ततः ।
शुष्कं कलेवरं ध्यायेत्पादाद्यं च शिखान्तकम् ॥ ३८ ॥
यं बीजेन वं बीजेन ज्वालामालासमायुतम् ।
देहं रमित्यनेनैव ब्रह्मरन्ध्राद् विनिर्गतम् ॥ ३९ ॥
बिन्दुन्ध्यात्वा चामृतस्य तेन भस्मकलेवरम् ।
सम्प्लावयेल्लमित्यस्माद्‌देहं सम्पाद्य दिव्यकम् ॥ ४० ॥
न्यासं कृत्वा करे देहे मानसं यागमाचरेत् ।
विष्णुं साङ्‌गं हृदि पद्मे मानसैः कुसुमादिभिः ॥ ४१ ॥
मूलमन्त्रेण देवेशम्प्रार्चयेद्‌ भुक्तिमुक्तिदम् ।
स्वागतं देवदेवेश सन्निधौ भव केशव ॥ ४२॥
गृहाण मानसीं पूजां यथार्थं परिभाविताम् ।
आधारशक्तिः कूर्मोऽथ पूज्योऽनन्तो मही ततः ॥ ४३ ॥
मध्येऽग्न्यादौ च धर्माद्या अधर्माद्याश्च मुख्यगाः ।
सत्त्वादिमध्ये पद्मं च मायाविद्याख्यतत्त्वके ॥ ४४ ॥
*************************** कालतत्त्वं च सूर्यादिमण्डलं पक्षिराजकः ।
मध्ये ततश्च वायव्यादीशान्ता गुरुपङ्‌क्तिकाः ॥ ४५ ॥
गणः सरस्वती पूज्या नारदो नलकूबरः ।
गुरुर्गुरुपादुका च परो गुरुश्च पादुका ॥ ४६ ॥
पूर्वसिद्धाः परसिद्धाः केसरेषु च शक्तयः ।
लक्ष्मीः सरस्वती प्रीतिः कीर्तिः शान्तिश्च कान्तिका ॥ ४७ ॥
पुष्टिस्तुष्टिर्महेन्द्राद्या मध्ये चाऽऽवाहितो हरिः ।
धृतिः श्रीरतिकान्त्याद्या मूलेन स्थाप्यतेऽच्युतः ॥ ४८ ॥
ॐ अभिमुखो भवेति प्रार्थ्य प्राच्यांसन्निहितो भव ।
विन्यस्यार्घ्यादिकं दत्वा गन्धाद्यैः मूलतो यजेत् ॥ ४९ ॥
ॐ भीषय भीषय हृत् शिरस्त्रासय वै नमः ।
मर्दय मर्दय शिखामग्न्यादौ क्रमतोऽस्त्रकम् ॥ ५० ॥
रक्ष रक्ष प्रध्वंसय प्रध्वंसय कवचाय नमः ।
ह्रूं फट् अस्त्राय नमो मूलबीजेन चाङ्‌गकम् ॥ ५१ ॥
पूर्वदक्षाप्यसौम्येषु मूर्त्यावरणमर्चयेत् ।
वासुदेवः सङ्‌कर्षणः प्रद्युम्नश्चानिरुद्धकः ॥ ५२ ॥
अग्न्यादौ श्रीरतिधृतिकान्तयो मूर्तयो हरेः ।
शङ्खं चक्रं गदां पद्ममग्न्यादौ पूर्वकादिकम् ॥ ५३ ॥
शार्ङ्‌गं च मुसलं खड्गं वनमालां च तद्बहिः ।
इन्द्राद्यांश्च तथाऽनन्तं नैर्ऋत्यां वरुणं ततः ॥ ५४ ॥
ब्रह्मेन्द्रेशानयोर्मध्ये अस्त्रावरणकं बहिः ।
ऐरावतस्ततश्छागो महिषोऽथ नगेशयः ॥ ५५ ॥
मृगः शशोऽथ वृषभः कूर्मो हंसस्ततो बहिः ।
पृश्निगर्भः कुमुदाद्या द्वारपाला द्वयं द्वयम् ॥ ५६ ॥
पूर्वाद्युत्तरद्वारान्तं हरिं नत्वा बलिं बहिः ।
विष्णुपार्षदेभ्यो नमो बलिपीठे बलिं ददेत् ॥ ५७ ॥
विश्वाय विश्वक्सेनात्मने ईशानके यजेत् ।
देवस्य दक्षिणे हस्ते रक्षासूत्रञ्च बन्धयेत् ॥ ५८ ॥
संवत्सरकृताचार्याः सम्पूर्णफलदायिने ।
पवित्रारोहणायेदं कौतुकं धारय ॐ नमः ॥ ५९ ॥
उपवासादिनियमं कुर्याद्वै देवसन्निधौ ।
उपवासेन नियतो देवं सन्तोषयाम्यहम् ॥ ६० ॥
कामक्रोधादयः सर्वे मा मे तिष्ठन्तु सर्वथा ।
अद्यप्रभृति देवेश यावद् वैशेषिकं दिनम् ॥ ६१ ॥
यजमानो ह्यशक्तश्चेत् कुर्यान्नक्तादिकं व्रती ।
हुत्वा विसर्जयेत् स्तुत्वा श्रीकरं नित्यपूजनम् ॥ ६२ ॥
ॐ ह्रीं श्रीं श्रीधराय त्रैलोक्यमोहनाय नमः ॥ ६३ ॥
इति आदिमहापुराणे आग्नेये सर्वदेवसाधारण-
पवित्रकारोपणविधिकथनं नाम त्रयस्त्रिंशोध्यायः


GO TOP