अग्निपुराणम्

सप्तविंशोऽध्यायः

शिष्येभ्यो दीक्षादानविधिः -


नारद उवाच -
वक्ष्ये दीक्षां सर्वदाञ्च मण्डलेब्जे हरिं यजेत् ।
दशम्यामुपसंहृत्य यागद्रव्यं समस्तकम् ॥ १ ॥
विन्यस्य नारसिंहेन सम्मन्त्र्य शतवारकम् ।
सर्षपांस्तु फडन्तेन रक्षोघ्नान् सर्वतः क्षिपेत् ॥ २ ॥
शक्तिं सर्वात्मकां तत्र न्यसेत् प्रासादरूपिणीम् ।
सर्वौषधिं समाहृत्य विकिरानभिमन्त्रयेत् ॥ ३ ॥
शतवारं शुभे पात्रे वासुदेवेन साधकः ।
संसाध्य पञ्चगव्यन्तु पञ्चभिर्मूलमूर्तिभिः ॥ ४ ॥
नारायणान्तैः सम्प्रोक्ष्य कुशाग्रैस्तेन तां भुवम् ।
विकिरान् वासुदेवेन क्षिपेदुत्तानपाणिना ॥ ५ ॥
त्रिधा पूर्वमुखस्तिष्ठन् ध्यायेत् विष्णुं तथा हृदि ।
वर्धन्या सहिते कुम्भे साङ्गं विष्णुं प्रपूजयेत् ॥ ६ ॥
शतवारं मन्त्रयित्वा त्वस्त्रेणैव च वर्धनीम् ।
अच्छिन्नधारया सिञ्चन् ईशानान्तं नयेच्चतम् ॥ ७ ॥
कलसं पृष्ठतो नीत्वा स्थापयेद्विकिरोपरि ।
संहृत्य विकिरान् दर्भैः कुम्भेशं कर्करीं यजेत् ॥ ८ ॥
सवस्त्रं पञ्चरत्‍नाढ्यं खण्डिले पूजयेद्धरिम् ।
अग्नावपि समभ्यर्च्य मन्त्रान् सञ्जप्य पूर्ववत् ॥ ९ ॥
प्रक्षाल्य पुण्डरीकेन विलिप्यान्तः सुगन्धिना ।
उखामाज्येन संपूर्य गोक्षीरेण तु साधकः ॥ १० ॥
आलोक्य वासुदेवेन ततः सङ्कर्षणेन च ।
तण्डुलानाज्यसंसृष्टान् क्षिपेत् क्षीरे सुसंस्कृते ॥ ११ ॥
प्रद्युम्नेन समालोड्य दर्व्या सङ्घट्टयेच्छनैः ।
पक्वमुत्तारयेत् पश्चादनिरुद्धेन देशिकः ॥ १२ ॥
प्रक्षाल्यालिप्य तत् कुर्यादूर्ध्वपुण्ड्रं तु भस्मना ।
नारायणेन पार्श्वेषु चरुमेवं सुसंस्कृतम् ॥ १३ ॥
भागमेकं तु देवाय कलशाय द्वितीयकम् ।
तृतीयेन तु भागेन प्रदद्यादाहुतित्रयम् ॥ १४ ॥
शिष्यैः सह चतुर्थं तु गुरुरद्याद्विशुद्धये ।
नारायणेन सम्मन्त्र्य सप्तधा क्षीरवृक्षजम् ॥ १५ ॥
दन्तकाष्ठं भक्षयित्वा त्यक्त्वा ज्ञात्वास्रपातकम् ।
ऐन्द्राग्न्युत्तरकेशानीमुखं पतितमुत्तमम् ॥ १६ ॥
शुभं सिंहशतं हुत्वा आचम्याथ प्रविश्य च ।
पूजागारं न्यसेन्मन्त्री प्राच्यां विष्णुं प्रदक्षिणम् ॥ १७ ॥
संसारार्णवमग्नानां पशूनां पाशमुक्तये ।
त्वमेव शरणं देव सदा त्वं भक्तवत्सल ॥ १८ ॥
देवदेवानुजानीहि प्राकृतैः पाशबन्धनैः ।
पाशितान्मोचयिष्यामि त्वत्प्रसादात् पशूनिमान् ॥ १९ ॥
इति विज्ञाप्य देवेशं सम्प्रविश्य पशूंस्ततः ।
धारणाभिस्तु संशोध्य पूर्वज्ज्वलनादिना ॥ २० ॥
संस्कृत्य मूर्त्या संयोज्य नेत्रे बद्ध्वा प्रदर्शयेत् ।
पुष्पपूर्णाञ्जलींस्तत्र क्षिपेत्तन्नाम योजयेत् ॥ २१ ॥
अमन्त्रमर्चनं तत्र पूर्ववत् कारयेत् क्रमात् ।
यस्यां मूर्तौ पतेत् पुष्पं तस्य तन्नाम निर्दिशेत् ॥ २२ ॥
शिखान्तसम्मितं सूत्रं पादाङ्गुष्ठादि षड्गुणम् ।
कन्यासु कर्तितं रक्तं पुनस्तत्त्रिगुणीकृतम् ॥ २३ ॥
यस्यां संलीयते विश्वं यतो विश्वं प्रसूयते ।
प्रकृतिं प्रक्रियाभेदैः संस्थितां तत्र चिन्तयेत् ॥ २४ ॥
तेन प्राकृतिकान् पाशान् ग्रथित्वा तत्त्वसङ्ख्यया ।
कृत्वा शरावे तत् सूत्रं कुण्डपार्श्वे निधाय तु ॥ २५ ॥
ततस्तत्त्वानि सर्वाणि ध्यात्वा शिष्यतनौ न्यसेत् ।
सृष्टिक्रमात् प्रकृत्यादिपृथिव्यन्तानि देशिकः ॥ २६ ॥
त्रैधा वा पञ्चधा वा स्याद्दशद्वादशधाऽपि वा ।
दातव्यः सर्वभेदेन ग्रथितस्तत्त्वचिन्तकैः ॥ २७ ॥
अङ्गैः पञ्चभिरस्रान्तं निखिलं प्रकृतिक्रमात् ।
तन्मात्रात्मनि संहृत्य मायासूत्रे पशोस्तनौ ॥ २८ ॥
प्रकृतिर्लिङ्गशक्तिश्च कर्ता बुद्धिस्तथा मनः ।
पञ्चतन्मात्रबुद्ध्याख्यं कर्माख्यं भूतपञ्चकम् ॥ २९ ॥
ध्यायेच्च द्वादशात्मानं सूत्रे देहे तथेच्छया ।
हुत्वा सम्पातविधिना सृष्टेः सृष्टिक्रमेण तु ॥ ३० ॥
एकैकं शतहोमेन दत्त्वा पूर्णाहुतिं ततः ।
शरावे सम्पुटीकृत्य कुम्भेशाय निवेदयेत् ॥ ३१ ॥
अधिवास्य यथा न्यायं भक्तं शिष्यं तु दीक्षयेत् ।
करणीं कर्तरीं चापि रजांसि खटिकामपि ॥ ३२ ॥
अन्यदप्युपयोगि स्यात् सर्वं तद्वामगोचरे ।
संस्थाप्य मूलमन्त्रेण परामृश्याधिवाधिवासयेत् ॥ ३३ ॥
नमो भूतेभ्यश्च बलिः कुशे शेते स्मरन् हरिम् ।
मण्डपं भूषयित्वाऽथ वितानघटलड्डुकैः ॥ ३४ ॥
मण्डलेऽथ यजेद्विष्णुं ततः सन्तर्प्य पावकम् ।
आहूय दीक्षयेच्छिष्यान्बद्धपद्मासनस्थितान् ॥ ३५ ॥
सम्प्रोक्ष्य विष्णुं हस्तेन मूर्धानं स्पृश्य वै क्रमात् ।
प्रकृत्यादिविकृत्यन्तां साधिभूताधिदैवताम् ॥ ३६ ॥
सृष्टिमाध्यात्मिकीं कृत्वा हृदि तां संहरेत् क्रमात् ।
तन्मात्रभूतां सकलां जीवेन समतां गताम् ॥ ३७ ॥
ततः सम्प्रार्थ्य कुम्भेशं सूत्रं संहृत्य देशिकः ।
अग्नेः समीपमागत्य पार्श्वे तं सन्निवेश्य तु ॥ ३८ ॥
मूलमन्त्रेण सृष्टीशमाहुतीनां शतेन तम् ।
उदासीनमथाऽऽसाद्य पूर्णाहुत्या च देशिकः ॥ ३९ ॥
शुक्लं रजः समादाय मूलेन शतमन्त्रितम् ।
सन्ताड्य हृदयं तेन हुंफट्कारान्तसंयुतैः ॥ ४० ॥
वियोगपदसंयुक्तैः वीजैः पदादिभिः क्रमात् ।
पृथिव्यादीनि तत्त्वानि विश्लिष्य जुहुयात्ततः ॥ ४१ ॥
वह्नावखिलतत्त्वानामालये व्याहृते हरौ ।
नीयमानं क्रमात्सर्वं तत्राध्वानं स्मरेद्बुधः ॥ ४२ ॥
ताडनेन वियोज्यैवमादायाऽऽपाद्य साम्यताम् ।
प्रकृत्याहृत्य जुहुयाद्यथोक्ते जातवेदसि ॥ ४३ ॥
गर्भाधानं जातकर्म भोगं चैव लयं तथा ।
कृत्वाऽष्टौ तत्र तत्रैव ततः शुद्धं तु होमयेत् ॥ ४४ ॥
शुद्धं तत्त्वं समुद्धृत्य पूर्णाहुत्या तु देशिकः ।
संधयेद्धि परे तत्त्वे यावदव्याकृतं क्रमात् ॥ ४५ ॥
तत्परं ज्ञानयोगेन विलाप्य परमात्मनि ।
विमुक्तबन्धनं जीवं परस्मिन्नव्यये पदे ॥ ४६ ॥
निवृत्तं परमानन्दे शुद्धे बुद्धे स्मरेद्बुधः ।
दद्यात्पूर्णाहुतिं पश्चादेवं दीक्षा समाप्यते ॥ ४७ ॥
प्रयोगमन्त्रान्वक्ष्यामि यैः दीक्षा होमसंलयः ।
ॐ यं भूतानि विशुद्धं हुं फट् ॥ ४८ ॥
अनेन ताडनं कुर्याद्वियोजनमिह द्वयम् ।
ॐ यं भूतान्यापातयेऽहम् ॥ ४९ ॥
आदानं कृत्वा चानेन प्रकृत्या योजनं शृणु ।
ॐ यं भूतानि पुंश्च ॥ ५० ॥
होममन्त्रं प्रवक्ष्यामि ततः पूर्णाहुतेर्मनुम् ।
ॐ भूतानि संहर स्वाहा ॥ ५१ ॥
ॐ अं ॐ नमो भगवते वासुदेवाय अं वौषट् ।
पूर्णाहुत्यनन्तरं तु तत्त्वे शिष्यं तु संधयेत् ॥ ५२ ॥
एवं तत्त्वानि सर्वाणि क्रमात्संशोधयेद्‌बुधः ।
नमोन्तेन स्वबीजेन ताडनादिपुरःसरम् ॥ ५३ ॥
ॐ रां वर्मेन्द्रियाणि, ॐ दें बुद्धीन्द्रियाणि ।
यं बीजेन समानं तु ताडनादिप्रयोगकम् ॥ ५४ ॥
ॐ सुं तं गन्धतन्मात्रे बिम्बं युङ्क्ष्व हुं फट् ।
ॐ सं पाहि हां ॐ स्वं स्वं युङ्‌क्ष्व प्रकृत्या ।
अं जं हुं गन्धतन्मात्रे संहर स्वाहा ॥ ५५ ॥
ततः पूर्णाहुतिश्चैवमुत्तरेषु प्रयुज्यते ।
ॐ रां रसतन्मात्रे । ॐ तें रूपतन्मात्रे ॥ ५६ ॥
ॐ वं स्पर्शतन्मात्रे । ॐ यं शब्दतन्मात्रे ।
ॐ भं नमः । ॐ नं बुद्धौ । ॐ ॐ प्रकृतौ ॥ ५७ ॥
एकमूर्तावयं प्रोक्तो दीक्षायोगः समासतः ।
एवमेव प्रयोगस्तु नवव्यूहादिके स्मृतः ॥ ५८ ॥
दग्ध्वा परस्मिन्सन्दध्यान्निर्वाणे प्रकृतिं नरः ।
शोधयित्वाथ भुतानि कर्माक्षाणि विशोधयेत् ॥ ५९ ॥
बुद्ध्याक्ष्याण्यथ तन्मात्रं मनो ज्ञानमहंकृतिम् ।
लिङ्गात्मानं विशोध्यान्ते प्रकृतिं शोधायेत्पुनः ॥ ६० ॥
पुरुषं प्राकृतं शुद्धमीश्वरे धाम्नि संस्थितम् ।
स्वगोचरीकृताशेषभोगमुक्तौ कृतास्पदम् ॥ ६१ ॥
ध्यायेत्पूर्णाहुतिं दद्याद्दीक्षेयं त्वधिकारदा ।
अङ्गैराराध्य मन्त्रस्य नीत्वा तत्त्वगणं समम् ॥ ६२ ॥
क्रमादेवं विशोध्यान्ते सर्वसिद्धिसमन्वितम् ।
ध्यायन्पूर्णाहितिं दद्यात्दीक्षेयं साधके स्मृता ॥ ६३ ॥
द्रव्यस्य वा न संपत्तिरशक्तिर्वाऽऽत्मनो यदि ।
इष्ट्वा देवं यथा पूर्वं सर्वोपकरणान्वितम् ॥ ६४ ॥
सद्योधिवास्य द्वादश्यां दीक्षयेद्देशिकोत्तमः ।
भक्तो विनीतः शारीरैः गुणैः सर्वैः समन्वितः ॥ ६५ ॥
शिष्यो नातिधनी यस्तु स्थण्डिलेऽभ्यर्च्य दीक्षयेत् ।
अध्वानं निखिलं दैवं भौतं वाऽध्यात्मिकी कृतम् ॥ ६६ ॥
सृष्टिक्रमेण शिष्यस्य देहे ध्यात्वा तु देशिकः ।
अष्टाष्टाहुतिभिः पूर्वं क्रमात्सन्तर्प्य सृष्टिमान् ॥ ६७ ॥
स्वमन्त्रैर्वासुदेवादीञ्ज्वननादीन्विसर्जयेत् ।
होमेन शोधयेत्पश्चात्संहारक्रमयोगतः ॥ ६८ ॥
यानि सूत्राणि बद्धानि मुक्त्वा कर्माणि देशिकः ।
शिष्यदेहात्समाहृत्य क्रमात्तत्त्वानि शोधयेत् ॥ ६९ ॥
अग्नौ प्राकृतिके विष्णौ लयं नीत्वाऽऽधिदैविके ।
शुद्धं तत्त्वमशुद्धेन पूर्णाहुत्या तु संधयेत् ॥ ७० ॥
शिष्ये प्रकृतिमापन्ने दग्ध्वा प्राकृतिकान्गुणान् ।
मौचयेदधिकारे वा नियुञ्ज्याद्देशिकः शिशून् ॥ ७१ ॥
अथान्यां शक्तिदीक्षां वा कुर्याद्‌भावे स्थितो गुरुः ।
भक्त्या संप्रतिपन्नानां यतीनां निर्धनस्य च ॥ ७२ ॥
सम्पूज्य स्थण्डिले विष्णुं पार्श्वस्थं स्थाप्य पुत्रकम् ।
देवताभिमुखः शिष्यस्तिर्यगास्यः स्वयं स्थितः ॥ ७३ ॥
अध्वानं निखिलं ध्यात्वा पर्वभिः स्वैर्विकल्पितम् ।
शिष्यदेहे तथा देवमाधिदैविकयाजनम् ॥ ७४ ॥
ध्यानयोगेन सञ्चिन्त्य पूर्ववत्ताडनादिना ।
क्रमात्तत्त्वानि सर्वाणि शोधयेत्स्थण्डिले हरौ ॥ ७५ ॥
ताडनेन वियोज्याथ गृहीत्वात्मनि तत्पुनः ।
देवे संयोज्य संशोध्य गृहीत्वा तत्स्वभावतः ॥ ७६ ॥
आनीय शुद्धभावेन सन्धयित्वा क्रमेण तु ।
शोधयेद्ध्यानयोगेन सर्वत्रोत्तनमुद्रया ॥ ७७ ॥
शुद्धेषु सर्वतत्त्वेषु प्रधाने चेश्वरे स्थिते ।
दग्ध्वा निर्वापयेच्छिष्यान्पदे चैशे नियोजयेत् ॥ ८८ ॥
निनयेत्सिद्धिमार्गेण साधकं देशिकोत्तमः ।
एवमेवाधिकारस्थो गृही कर्माण्यतन्द्रितः ॥ ७९ ॥
आत्मानं शोधयंस्तिष्ठेद्यावद्‌रागक्षयो भवेत् ।
क्षीणरागमथाऽऽत्मानं ज्ञात्वा संशुद्धिकिल्विषः ॥ ८० ॥
आरोप्य पुत्रे शिष्ये वा ह्यधिकारं तु संयमी ।
दग्ध्वा मायामयं पाशं प्रव्रज्य स्वात्मनि स्थितः ।
शरीरपातमाकाङ्क्षन्नासीताव्यक्तलिङ्गवान् ॥ ८१ ॥
इति आदिमहापुराणे आग्नेये
सर्वदीक्षाविधिकथनं नाम सप्तविंशोध्यायः


GO TOP