अग्निपुराणम्

पञ्चविंशोऽध्यायः

वासुदेवादिमन्त्राणां लक्षणानि -


नारद उवाच -
वासुदेवादिमन्त्राणां पूज्यानां लक्षणं वदे ।
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ॥ १ ॥
नमो भगवते चादौ अ आ अं अः स्वबीजकाः ।
ओङ्काराद्या नमोन्ताश्च नमो नारायणस्ततः ॥ २ ॥
ॐ तत् सत् ब्रह्मणे चैव ॐ नमो विष्णवे नमः ।
ॐ क्षौं ॐ नमो भगवते नरसिंहाय वै नमः ॥ ३ ॥
ॐ भूर्नमो भगवते वराहाय नराधिपाः ।
जवारुणहरिद्राभा नीलश्यामललोहिताः ॥ ४ ॥
मेघाग्निमधुपिङ्गाभा वल्लभा नव नायकाः ।
अङ्गानि स्वरवीजानां स्वनामान्तैः यथाक्रमम् ॥ ५ ॥
हृदयादीनि कल्पेत विभक्तैस्तन्त्रवेदिभिः ।
व्यञ्जनादीनि बीजानि तेषां लक्षणमन्यथा ॥ ६ ॥
दीर्घस्वरैस्तु भिन्नानि नमोऽन्तान्तस्थितानि तु ।
अङ्गानि ह्रस्वयुक्तानि उपाङ्गानीति वर्ण्यते ॥ ७ ॥
विभक्तनामवर्णान्तस्थितानि बीजमुत्तमम् ।
दीर्घैः ह्रस्वैश्च संयुक्तं साङ्गोपाङ्गंस्वरैः क्रमात् ॥ ८ ॥
व्यञ्जनानां क्रमो ह्येष हृदयादिप्रक्लृप्तये ।
स्वबीजेन स्वनामान्तैः विभक्तान्यङ्गनामभिः ॥ ९ ॥
युक्तानि हृदयादीनि द्वादशान्तानि पञ्चतः ।
आरभ्य कल्पयित्वा तु जपेत् सिद्ध्यनुरूपतः ॥ १० ॥
हृदयञ्च शिरश्चूडा कवचं नेत्रमस्त्रकम् ।
षडङ्गानि तु बीजानां मूलस्य द्वादशाङ्गकम् ॥ ११ ॥
हृच्छिरश्च शिखा वर्म चास्त्रनेत्रान्तथोदरम् ।
प्रष्टबाहूरुजानूंश्च जङ्घा पादौ क्रमान्न्यसेत् ॥ १२ ॥
कं टं पं शं वैनतेयः खं ठं फं षं गदामनुः ।
गं डं बं सं पुष्ठिमन्त्रो घं ढं भं हं श्रियै नमः ॥ १३ ॥
वं शं मं क्षं पाञ्चजन्यं छं तं पं कौस्तुभाय च ।
जं खं वं सुदर्शनाय श्रीवत्साय सं वं दं चं लम् ॥ १४ ॥
ॐ धं वं वनमालायै महानन्ताय वै नमः ।
निर्बीजपदमन्त्राणां पदैः अङ्गानि कल्पयेत् ॥ १५ ॥
जात्यन्तैः नामसंयुक्तेर्हृदयादीनि पञ्चधा ।
प्रणवं हृदयादीनि ततः प्रोक्तानि पञ्चधा ॥ १६ ॥
प्रणवं हृदयं पूर्वं परायेति शिरः शिखा ।
नाम्नात्मना तु कवचं अस्त्रं नामान्तकं भवेत् ॥ १७ ॥
ॐ परास्त्रादिस्वनामात्मा चतुर्थ्यन्तो नमोन्तकः ।
एकव्यूहादिषड्‌विंशव्यूहात्तस्यात्मनो मनुः ॥ १८ ॥
कनिष्टादिकराग्रेषु प्रकृतिं देहकेर्चयेत् ।
पराय पुरुषात्मा स्यात् प्रकृत्यात्मा द्विरूपकः ॥ १९ ॥
ॐ परायाग्न्यात्मने चैव वाय्वर्कौ च द्विरूपकः ।
अग्निं त्रिमूर्तौ विन्यस्य व्यापकं करदेहयोः ॥ २० ॥
वाय्वर्कौ करशाखासु सव्येतरकरद्वये ।
हृदि मूर्तो तनावेष त्रिव्यूहे तुर्यरूपके ॥ २१ ॥
ऋग्वेदं व्यापकं हस्ते अङ्गुलीषु यजुर्न्यसेत् ।
तलद्वयेथर्वरूपं शिरोहृच्चरणान्तकः ॥ २२ ॥
आकाशं व्यापकं न्यस्य करे देहे तु पूर्ववत् ।
अङ्गुलीषु च वाय्वादि शिरोहृद्‌गुह्यपादके ॥ २३ ॥
वायुर्ज्योतिर्जलं पृथ्वी पञ्चव्यूहः समीरितः ।
मनः श्रोत्रन्त्वग्दृग्जिह्वा घ्राणं षड्व्यूह ईरितः ॥ २४ ॥
व्यापकं मानसं न्यस्य ततोङ्गुष्ठादितः क्रमात् ।
मूर्धास्यहृद्‌गुह्यपत्सु कथितः करुणात्मकः ॥ २५ ॥
आदिमूर्तिस्तु सर्वत्र व्यापको जीवसञ्ज्ञितः ।
भूर्भुवः स्वर्महर्जनस्तपः स्त्यञ्च सप्तधा ॥ २६ ॥
करे देहे न्यसेदाद्यमङ्गुष्ठादिक्रमेण तु ।
तलसंस्थः सप्तमश्च लोकेशो देहके क्रमात् ॥ २७ ॥
देहे शिरोललाटास्यहृद्‌गुह्याङ्‌घ्रिषु संस्थितः ।
अग्निष्टोमस्तथोक्थस्तु षोडशी वाजपेयकः ॥ २८ ॥
अतिरात्राप्तोर्यामश्च यज्ञात्मा सप्तरूपकः ।
धीरहं मनः शब्दश्च स्पर्शरूपरसास्ततः ॥ २९ ॥
गन्धो बुद्धिर्व्यापकं तु करे देहे न्यसेत् क्रमात् ।
न्यसेदन्त्यौ च तलयोः के ललाटे मुखे हृदि ॥ ३० ॥
नाभौ गुह्ये च पादे च अष्टव्यूहः पुमान् स्मृतः ।
वीजो बुद्धिरहङ्कारो मनः शब्दो गुणोऽनिलः ॥ ३१ ॥
रूपं रसो नवात्मायं जीव अङ्गुष्ठकद्वये ।
तर्जन्यादिक्रमाच्छेषं यावद्वामप्रदेशिनीम् ॥ ३२ ॥
देहे शिरोललाटास्यहृन्नाभिगुह्यजानुषु ।
पादयोश्च दशात्मायं इन्द्रो व्यापी समास्थितः ॥ ३३ ॥
अङ्गुष्ठकद्वये वह्निस्तर्जन्यादौ परेषु च ।
शिरोललाटवक्त्रेषु हृन्नाभीगुह्यजानुषु ॥ ३४ ॥
पादयोरेकदशात्मा मनः श्रोत्रं त्वगेव च ।
चक्षुर्जिह्वा तथा घ्राणं वाक्पाण्यङ्‌घ्रिश्च पायुकः ॥ ३५ ॥
उपस्थं मानसो व्यापी श्रोत्रमङ्गुष्ठकद्वये ।
तर्जन्यादिक्रमादष्टौ अतिरिक्तं तलद्वये ॥ ३६ ॥
उत्तमाङ्गुलललाटास्य हृन्नाभावथ गुह्यके ।
उरुयुग्मे तथा जङ्घे गुल्फपादेषु च क्रमात् ॥ ३७ ॥
विष्णुर्मधुहरश्चैव त्रिविक्रमकवामनौ ।
श्रीधरोऽथ हृषीकेशः पद्मनाभस्तथैव च ॥ ३८ ॥
दामोदरः केशवश्च नारायणस्ततः परः ।
माधवश्चाथ गोविन्दो विष्णुं वै व्यापकं न्यसेत् ॥ ३९ ॥
अङ्गुष्ठादौ तले द्वौ च पादे जानुनि वै कटौ ।
शिरःशिखरकट्याञ्च जानुपादादिषु न्यसेत् ॥ ४० ॥
द्वादशात्मा पञ्चविंशः षड्‌विंशव्यूहकस्तथा ।
पुरुषो धीरहङ्कारो मनश्चित्तञ्च शब्दकः ॥ ४१ ॥
तथा स्पर्शो रसो रूपं गन्धः श्रोत्रं त्वचस्तथा ।
चक्षुर्जिह्वा नासिका च वाक्पाण्यङ्‌घ्रिश्च पायवः ॥ ४२ ॥
उपस्थो भूर्जलन्तेजो वायुराकाशमेव च ।
पुरुषं व्यापकं न्यस्य अङ्गुष्ठादौ दश न्यसेत् ॥ ४३ ॥
शेषान् हस्ततले न्यस्य शिरस्यथ ललाटके ।
मुखहृन्नाभिगुह्योरुजान्वङ्घ्री करणोद्‌गतौ ॥ ४४ ॥
पादे जान्वोरुपस्थे च हृदये मूर्ध्नि च क्रमात् ।
परश्च पुरुषात्मादौ षड्‌विंशे पूर्ववत्परम् ॥ ४५ ॥
सञ्चिन्त्य मण्डलैके तु प्रकृतिं पूजयेद्‌बुधः ।
पूर्वयाम्याप्यसौम्येषु हृदयादीनि पूजयेत् ॥ ४६ ॥
अस्त्रमग्न्यादिकोणेषु वैनतेयादि पूर्ववत् ।
दिक्पालांश्च विधिस्त्वन्यः त्रिव्यूहेग्निश्च मध्यतः ॥ ४७ ॥
पूर्वादिदिग्बलावसो-राज्यादिभिरलङ्कृतः ।
कर्णिकायां नाभसश्च मानसः कर्णिकास्थितः ॥ ४८ ॥
विश्वरूपं सर्वस्थित्यै यजेद् राज्यजयाय च ।
सर्वव्यूहैः समायुक्तं अङ्गैः अपि च पञ्चभिः ॥ ४९ ॥
गरुडाद्यैस्तथेन्द्राद्यैः सर्वान् कामानवाप्नुयात् ।
विश्वक्सेनं यजेन्नाम्ना वै बीजं व्योमसंस्थितम् ॥ ५० ॥
इति आदिमहापुराणे आग्नेये
वासुदेवादिमंत्रलक्षणवर्णनं नाम पञ्चविंशोऽध्यायः ॥ २५ ॥


GO TOP