अग्निपुराणम्
चतुर्विंशोऽध्यायः
कुण्डनिर्माणाद्यग्निकार्यादिकथनम् -
नारद उवाच -
अग्निकार्यं प्रवक्ष्यामि येन स्यात्सर्वकामभाक् ।
चतुरभ्यधिकं विंशमङ्गुलं चतुरस्रकम् ॥ १ ॥
सूत्रेण सूत्रयित्वा तु क्षेत्रं तावत् खनेत्समम् ।
खातस्य मेखला कार्याः त्यक्त्वा चैवाङ्गुलद्वयम् ॥ २ ॥
सत्त्वादिसञ्ज्ञाः पूर्वाशा द्वादशाङ्गुलमुच्छ्रिताः ।
अष्टाङ्गुला द्व्यङुलाथ चतुरङ्गुलविस्तृता ॥ ३ ॥
योनिर्दशाङ्गुला रम्या षट्चतुर्द्व्यङ्गुलाग्रगा ।
क्रमान्निम्ना तु कर्तव्या पश्चिमाशाव्यवस्थिता ॥ ४ ॥
अश्वत्थपत्रसदृशी किञ्चित् कुण्डे निवेशिता ।
तुर्याङ्गुलायतं नालं पञ्चदशाङ्गुलायतम् ॥ ५ ॥
मूलन्तु त्र्यङ्गुलं योन्या अग्रं तस्याः षडङ्गुलम् ।
लक्षणञ्चैकहस्तस्य द्विगुणं द्विकरादिषु ॥ ६ ॥
एकत्रिमेखलं कुण्डं वर्तुलादि वदाम्यहम् ।
कुण्डार्द्धे तु स्थितं सूत्रं कोणे यदतिरिच्यते ॥ ७ ॥
तदर्धं दिशि संस्थाप्य भ्रामितं वर्तुलं भवेत् ।
कुण्डार्धं कोणभागार्धं दिशिश्चोत्तरतो बहिः ॥ ८ ॥
पूर्वपश्चिमतो यत्नाल्लाञ्छयित्वा तु मध्यतः ।
संस्थाप्य भ्रामितं कुण्डमर्धचन्द्रं भवेत् शुभम् ॥ ९ ॥
पद्माकारे दलानि स्युर्मेखलानान्तु वर्तुले ।
बाहुदण्डप्रमाणन्तु होमार्थं कारयेत् स्रुचम् ॥ १० ॥
सप्तपञ्चाङ्गुलं वापि चतुरस्रन्तु कारयेत् ।
त्रिभागेन भवेद्गर्तं मध्ये वृत्तं सुशोभनम् ॥ ११ ॥
तिर्यगूर्ध्वं समं खाताद् बहिरर्धन्तु शोधयेत् ।
अङ्गुलस्य चतुर्थांशं शेषार्धार्धं तथान्ततः ॥ १२ ॥
खातस्य मेखलां रम्यां शेषार्धेन तु कारयेत् ।
कण्ठं त्रिभागविस्तारं अङ्गुष्ठकसमायतम् ॥ १३ ॥
सार्धमङ्गुष्ठकं वा स्यात् तदग्रे तु मुखं भवेत् ।
चतुरङ्गुलविस्तारं पञ्चाङ्गुलमथापि वा ॥ १४ ॥
त्रिकं द्व्यङ्गुलकं तत् स्यान्मध्यन्तस्य सुशोभनम् ।
आयामस्तत्समस्तस्य मध्यनिम्नः सुशोभनः ॥ १५ ॥
शुषिरं कण्ठदेशे स्याद्विशेद् यावत् कनीयसी ।
शेषकुण्डन्तु कर्तव्यं यथारुचि विचित्रितम् ॥ १६ ॥
स्रुवन्तु हस्तमात्रं स्याद्दण्डकेन समन्वितं ।
बटुकं द्व्यङ्गुलं वृत्तं कर्तव्यन्तु सुशोभनम् ॥ १७ ॥
गोपदन्तु यथा मग्नमल्पपङ्के तथा भवेत् ।
उपलिप्य लिखेद्रेखामङ्गुलां वज्रनासिकाम् ॥ १८ ॥
सौम्याग्रा प्रथमा तस्यां रेखे पूर्वमुखे तयोः ।
मध्ये तिस्रस्तथा कुर्याद्दक्षिणादिक्रमेण तु ॥ १९ ॥
एवमुल्लिख्य चाभ्युक्ष्य प्रणवेन तु मन्त्रवित् ।
विष्टरं कल्पयेत्तेन तस्मिन् शक्तिन्तु वैष्णवीम् ॥ २० ॥
अलं कृत्वा मूर्तिमतीं क्षिपेदग्निं हरिं स्मरन् ।
प्रादेशमात्राः समिधो दत्वा परिसमुह्य तम् ॥ २१ ॥
दर्भैस्त्रिधा परिस्तीर्य पूर्वादौ तत्र पात्रकम् ।
आसादयेदिध्मवह्नी भूमौ च श्रुक्श्रुवद्वयम् ॥ २२ ॥
आज्यस्थाली चरुस्थाली कुशाज्यञ्च प्रणीतया ।
प्रोक्षयित्वा प्रोक्षणीञ्च गृहीत्वापूर्य वारिणा ॥ २३ ॥
पवित्रान्तर्हिते हस्ते परिश्राव्य च तज्जलम् ।
प्राङ्नीत्वा प्रोक्षणीपात्रं ज्योतिरग्रे निधाय च ॥ २४ ॥
तदद्भिस्त्रिश्च सम्प्रोक्ष्य इद्ध्मं विन्यस्य चाग्रतः ।
प्रणीतायां सुपुष्पायां विष्णुं ध्यात्वोत्तरेण च ॥ २५ ॥
आज्यस्थालीमथाज्येन सम्पूर्याग्रे निधाय च ।
सम्प्लवोत्पवनाभ्यान्तु कुर्यादाज्यस्य संस्कृतिम् ॥ २६ ॥
अखण्डिताग्रौ निर्गर्भौ कुशौ प्रादेशमात्रकौ ।
ताभ्यामुत्तानपाणिभ्यां अङ्गुष्ठानामिकेन तु ॥ २७ ॥
आज्यं तयोस्तु सङ्गृह्य द्विर्नीत्वा त्रिरवाङ्क्षिपेत् ।
स्रुक्स्रुवौ चापि सङ्गृह्य ताभ्यां प्रक्षिप्य वारिणा ॥ २८ ॥
प्रतप्य दर्भैः सम्मृज्य पुनः प्रक्ष्याल्य चैव हि ।
निष्टप्य स्थापयित्वा तु प्रणवेनैव साधकः ॥ २९ ॥
प्रणवादिनमोऽन्तेन पश्चाद्धोमं समाचरेत् ।
गर्भाधानादिकर्माणि यावदंशव्यवस्थया ॥ ३० ॥
नामान्तं व्रतबन्धान्तं समावर्तावसानकम् ।
अधिकारावसानं वा कर्यादङ्गानुसारतः ॥ ३१ ॥
प्रणवेनोपचारन्तु कुर्यात्सर्वत्र साधकः ।
अङ्गैः होमस्तु कर्तव्यो यथावित्तानुसारतः ॥ ३२ ॥
गर्भाधानन्तु प्रथमं ततः पुंसवनं स्मृतम् ।
सीमन्तोन्नयनं जातकर्म नामान्नप्राशनम् ॥ ३३ ॥
चूडाकृतिं व्रतबन्धं वेदव्रतान्यशेषतः ।
समावर्तनं पत्न्या च योगश्चाथाधिकारकः ॥ ३४ ॥
हृदादिक्रमतो ध्यात्वा एकैकं कर्म पूज्य च ।
अष्टावष्टौ तु जुहुयात् प्रतिकर्माहुतीः पुनः ॥ ३५ ॥
पूर्णाहुतिं ततो दद्यात् स्रुचा मूलेन साधकः ।
वौषडन्तेन मन्त्रेण प्लुतं सुस्वरमुच्चरन् ॥ ३६ ॥
विष्णोर्वह्निन्तु संस्कृत्य श्रपयेद्वैष्णवञ्चरुम् ।
आराध्य स्थण्डिले विष्णुं मन्त्रान् संस्मृत्य संश्रपेत् ॥ ३७ ॥
आसनादिक्रमेणैव साङ्गावरणमुत्तमम् ।
गन्धपुष्पैः समभ्यर्च्य ध्याता देवं सुरोत्तमम् ॥ ३८ ॥
आधायेध्ममथाघारावाज्यावग्नीशसंस्थितौ ।
वायव्यनैर्ऋताशादिप्रवृत्तौ तु यथाक्रमम् ॥ ३९ ॥
आज्यभागौ ततो हुत्वा चक्षुषी दक्षिणोत्तरे ।
मध्येऽथ जुहुयात्सर्वमन्त्रानर्चाक्रमेण तु ॥ ४० ॥
आज्येन तर्पयेन्मूर्तेर्दशांशेनाङ्गहोमकम् ।
शतं सहस्रं वाज्याद्यैः समिद्भिर्वा तिलैः सह ॥ ४१ ॥
समाप्यार्चान्तु होमान्तां शुचीन् शिष्यानुपोषितान् ।
आहूयाग्रे निवेश्याथ ह्यस्त्रेण प्रोक्षयेत् पशून् ॥ ४२ ॥
शिष्यानात्मनि संयोज्य अविद्याकर्मबन्धनैः ।
लिङ्गानुवृत्तश्चैतन्यं सह लिङ्गेन पाशितम् ॥ ४३ ॥
ध्यानमार्गेन सम्प्रोक्ष्य वायुबीजेन शोधयेत् ।
ततो दहनबीजेन सृष्टिं ब्रह्माण्डसञ्ज्ञिकाम् ॥ ४४ ॥
निर्दग्धां सकलां ध्यायेद् भस्मकूटनिभस्थिताम् ।
प्लावयेद्वारिणा भस्म संसारं वार्मयं स्मरेताफ्_॥ ४५ ॥
तत्र शक्तिं न्यसेत् पश्चात् पार्थिवीं बीजसञ्ज्ञिकाम् ।
तन्मात्राभिः समस्ताभिः संवृतं पार्थिवं शुभम् ॥ ४६ ॥
अखण्डन्तदुद्भवन्ध्यायेत् तदाधारन्तदात्मकम् ।
तन्मध्ये चिन्तयेन्मूर्तिं पौरुषीं प्रणवात्मिकाम् ॥ ४७ ॥
लिङ्गं सङ्क्रामयेत्पश्चाद् आत्मस्थं पूर्वसंस्कृतम् ।
विभक्तेन्द्रियसंस्थानं क्रमाद् वृद्धं विचिन्तयेत् ॥ ४८ ॥
ततोण्डमब्दमेकं तु स्थित्वा द्विशकलीकृतम् ।
द्यावापृथिव्यौ शकले तयोर्मध्ये प्रजापतिम् ॥ ४९ ॥
जातं ध्यात्वा पुनः प्रोक्ष्य प्रणवेन तु संश्रितम् ।
मन्त्रात्मकतनुं कृत्वा यथान्यासं पुरोदितम् ॥ ५० ॥
विष्णुर्हस्तं ततो मूर्ध्नि दत्वा ध्यात्वा तु वैष्णवम् ।
एवमेकं बहून् वापि जनित्वा ध्यानयोगतः ॥ ५१ ॥
करौ सङ्गृह्य मूलेन नेत्रे बद्ध्वा तु वाससा ।
नेत्रमन्त्रेण मन्त्री तान् सदनेनाहतेन तु ॥ ५२ ॥
कृतपूजो गुरुः सम्यक् देवदेवस्य तत्त्ववान् ।
शिष्यान् पुष्पाञ्जलिभृतः प्राङ्मुखानुपवेशयेत् ॥ ५३ ॥
अर्चयेयुश्च तेऽप्येवम्प्रसूता गुरुणा हरिम् ।
क्षिप्त्वा पुष्पाञ्जलिं तत्र पुष्पादिभिरनन्तरम् ॥ ५४ ॥
अमन्त्रमर्चनं कृत्वा गुरोः पादार्चनन्ततः ।
विधाय दक्षिणां दद्यात् सर्वस्वं चार्धमेव वा ॥ ५५ ॥
गुरुः संशिक्षयेच्छिष्यान् तैः पूज्यो नामभिर्हरिः ।
विश्वक्सेनं यजेदीशं शङ्खचक्रगदाधरम् ॥ ५६ ॥
तज्जपन्तञ्च तर्जन्या मण्डलस्थं विसर्जयेत् ॥ ५७ ॥
विष्णुनिर्माल्यमखिलं विष्वक्सेनाय चार्पयेत् ।
प्रणीताभिस्तथात्मानमभिषिच्य च कुण्डगम् ॥ ५८ ॥
वह्निमात्मनि संयोज्य विष्वक्सेनं विसर्जयेत् ।
बुभुक्षुः सर्वमाप्नोति मुमुक्षुः लीयते हरौ ॥ ५९ ॥
इति आदिमहापुराणे आग्नेये
कुण्डनिर्माणाद्यग्निकार्यादिवर्णनं नाम चतुर्विंशोऽध्यायः ॥ २४ ॥
GO TOP
|