अग्निपुराणम्
द्वाविंशोऽध्यायः
पूजाधिकारार्थं सामान्यः स्नानविधिः -
नारद उवाच -
वक्ष्ये स्नानं क्रियाद्यर्थं नृसिंहेन तु मृत्तिकाम् ।
गृहीत्वा तां द्विधा कृत्वा मनःस्नानमथैकया ॥ १ ॥
निमज्याचम्य विन्यस्य सिंहेन कृतरक्षकः ।
विधिस्नानं ततः कुर्यात् प्राणायामपुरःसरम् ॥ २ ॥
हृदि ध्यायन् हरिज्ञानं मन्त्रेणाष्टाक्षरेण हि ।
त्रिधा पाणितले मृत्स्नां दिग्बन्धं सिंहजप्ततः ॥ ३ ॥
वासदेवप्रजप्तेन तीर्थं सङ्कल्प्य चालभेत् ।
गात्रं वेदादिना मन्त्रैः सम्मार्ज्याराध्य मूर्तिना ॥ ४ ॥
कृत्वाघमर्षणं वस्त्रं परिधाय समाचरेत् ।
विन्यस्य मन्त्रैः द्विर्मार्ज्यं पाणिस्थं जलमेव च ॥ ५ ॥
नारायणेन संयम्य वायुमाघ्राय चोत्सृजेत् ।
जलं ध्यायन् हरिं पश्चाद्दत्वार्घ्यं द्वादशाक्षरम् ॥ ६ ॥
जप्त्वान्याञ्छतशस्तस्य योगपीठादितः क्रमात् ।
मन्त्रान् दिक्पालपर्यन्तान् ऋषीन् पितृगणानपि ॥ ७ ॥
मनुष्यान् सर्वभूतानि स्थावरान्तान्यथावसेत् ।
न्यस्य चाङ्गानि संहृत्य मन्त्रान्यागगृहं व्रजेत् ।
एवमन्यासु पूजासु मूलाद्यैः स्नानमाचरेत् ॥ ८ ॥
इति आदिमहापुराणे आग्नेये
सामान्यपूजाविधिवर्णनं नाम द्वाविंशोध्यायः ॥ २२ ॥
GO TOP
|