अग्निपुराणम्

सप्तदशोऽध्यायः

जगत्‌सर्गवर्णनम् -


अग्निरुवाच -
जगत्सर्गादिकान् क्रीडान् विष्णोर्वक्ष्येधुना शृणु ।
स्वर्गादिकृत् स सर्गादिः सृष्ट्यादिः सगुणोगुणः ॥ १ ॥
ब्रह्माव्यक्तं सदाग्रेऽभूत् न खं रात्रिदिनादिकम् ।
प्रकृतिं पुरुषं विष्णुः प्रविश्याक्षोभयत्ततः ॥ २ ॥
स्वर्गकाले महत्तत्त्वं अहङ्कारस्ततोऽभवत् । .
वैकारिकस्तैजसश्च भूतादिश्चैव तामसः ॥ ३ ॥
अहङ्काराच्छब्दमात्रं आकाशमभवत्ततः ।
स्पर्शमात्रोऽनिलस्तस्माद् रूपमात्रोऽनलस्ततः ॥ ४ ॥
रसमात्रा आप इतो गन्धमात्रा मही स्मृता ।
अहङ्कारात् तामसात्तु तैजसानीन्द्रियाणि च ॥ ५ ॥
वैकारिका दश देवा मन एकादशेन्द्रियम् ।
ततः स्वयंभूर्भगवान् सिसृक्षुर्विविधाः प्रजाः ॥ ६ ॥
अप एव ससर्जादौ तासु वीर्यमवासृजत् ।
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ॥ ७ ॥
अयनन्तस्य ताः पूर्ं तेन नारायणः स्मृतः ।
हिरण्यवर्णमभवत् तदण्डमुदकेशयम् ॥ ८ ॥
तस्मिन् जज्ञे स्वयं ब्रह्मा स्वयम्भूरिति नः श्रुतम् ।
हिरण्यगर्भो भगवान् उषित्वा परिवत्सरम् ॥ ९ ॥
तदण्डमकरोत् द्वैधन् दिवं भुवमथापि च ।
तयोः शकलयोर्मध्ये आकाशमसृजत् प्रभुः ॥ १० ॥
अप्सु पारिप्लवां पृथिवीं दिशश्च दशधा दधे ।
तत्र कालं मनो वाचं कामं क्रोधमथो रतिम् ॥ ११ ॥
ससर्ज सृष्टिं तद्‌रूपां स्रष्टुमिच्छन् प्रजापतिः ।
विद्युतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च ॥ १२ ॥
वयांसि च ससर्जादौ पर्जन्यञ्चाथ वक्त्रतः ।
ऋचो यजूंषि सामानि निर्ममे यज्ञसिद्धये ॥ १३ ॥
साध्यास्त्रैः अयजन्देवान् भूतमुच्चावचं भुजात् ।
सनत्कुमारं रुद्रञ्च ससर्ज क्रोधसम्भवम् ॥ १४ ॥
मरीचिमत्र्यङ्‌गिरसं पुलस्त्यं पुलहं क्रतुम् । .
वसिष्ठं मानसाः सप्त ब्रह्माण इति निश्चिताः ॥ १५ ॥
सप्तैते जनयन्ति स्म प्रजा रुद्राश्च सत्तम ।
द्विधा कृत्वात्मनो देहमर्धेन पुरुषोऽभवत् ।
अर्धेन नारी तस्यां स ब्रह्मा वै चासृजत् प्रजाः ॥ १६ ॥
इति आदिमहापुराणे आग्नेये
जगत्सर्गवर्णनं नाम सप्तदशोऽध्यायः ॥ १७ ॥


GO TOP