अग्निपुराणम्
षोडशोऽध्यायः
बुद्धावतारकथनम् -
अग्निरुवाच -
वक्ष्ये बुद्धावतारञ्च पठतः शृण्वतोर्थदम् ।
पुरा देवासुरे युद्धे दैत्यैः देवाः पराजिताः ॥ १ ॥
रक्ष रक्षेति शरणं वदन्तो जग्मुरीश्वरम् ।
मायमोहस्वरुपोऽसौ शुद्धोदनसुतोऽभवत् ॥ २ ॥
मोहयामास दैत्यांस्तांस्त्याजिता वेदधर्मकम् ।
ते च बौद्धा बभूवुर्हि तेभ्योन्ये वेदवर्जिताः ॥ ३ ॥
आर्हतः सोऽभवत् पश्चाद् आर्हतानकरोत् परान् ।
एवं पाषण्डिनो जाता वेदधर्मादिवर्जिताः ॥ ४ ॥
नरकार्हं कर्म चक्रुर्ग्रहीष्यन्त्यधमादपि ।
सर्वे कलियुगान्ते तु भविष्यन्ति च सङ्कराः ॥ ५ ॥
दस्यवः शीलहीनाश्च वेदो वाजसनेयकः ।
दश पञ्च च शाखा वै प्रमाणेन भविष्यति ॥ ६ ॥
धर्मकञ्चुकसंवीता अधर्मरुचयस्तथा ।
मानुषान् भक्षयिष्यन्ति म्लेच्छाः पार्थिवरूपिणः ॥ ७ ॥
कल्की विष्णुयशःपुत्रो याज्ञवल्क्यपुरोहितः ।
उत्सादयिष्यति म्लेच्छान् गृहीतास्त्रः कृतायुधः ॥ ८ ॥
स्थापयिष्यति मर्यादां चातुर्वर्ण्ये यथोचिताम् ।
आश्रमेषु च सर्वेषु प्रजाः सद्धर्मवर्त्मनि ॥ ९ ॥
कल्किरूपं परित्यज्य हरिः स्वर्गं गमिष्यति ।
ततः कृतयुगान्नाम पुरावत् सम्भविष्यति ॥ १० ॥
वर्णाश्रमाश्च धर्मेषु स्वेषु स्थास्यन्ति सत्तम ।
एवं सर्वेषु कल्पेषु सर्वमन्वन्तरेषु च ॥ ११ ॥
अवतारा असङ्ख्याता अतीतानागतादयः ।
विष्णोर्दशावताराख्यान् यः पठेत् शृणुयान्नरः ॥ १२ ॥
सोऽवाप्तकामो विमलः सकुलः स्वर्गमाप्नुयात् ।
धर्माधर्मव्यवस्थानं एवं वै कुरुते हरिः ।
अवतीर्णञ्च स गतः सर्गादेः कारणं हरिः ॥ १३ ॥
इति आदिमहापुराणे आग्नेये
बुद्धावतारवर्णनं नाम षोडशोऽध्यायः ॥ १६ ॥
GO TOP
|