अग्निपुराणम्
दशमोऽध्यायः
श्रीरामायणे युद्धकाण्डम् -
नाराद उवाच -
रामोक्तश्चाङ्गदो गत्वा रावणं प्राह जानकी ।
दीयतां राघवायाऽऽशु अन्यथा त्वं मरिष्यसि ॥ १ ॥
रावणो हन्तुमुद्युक्तः सङ्ग्रामोद्धतराक्षसः ।
रामायाऽऽह दशग्रीवो युद्धमेकं तु मन्यते ॥ २ ॥
रामो युद्धाय तच्छ्रुत्वा लङ्कां सकपिराययौ ।
वानरो हनूमान्मैन्दो द्विविदो जाम्बवान्नलः ॥ ३ ॥
नीलस्तारोऽङ्गदो धूम्रः सुषेणः केसरी गजः ।
पनसो विनतो रम्भः शरभः कंपनो बली ॥ ४ ॥
गवाक्षो दधिवक्त्रश्च गवयो गन्धमादनः ।
एते चान्ये च सुग्रीव एतैर्युक्तो ह्यसङ्ख्यकैः ॥ ५ ॥
रक्षसां वानराणां च युद्धं सङ्कुलमाबभौ ।
राक्षसा वानराञ्जघ्नुः शरशक्तिगदादिभिः ॥ ६ ॥
वानरा राक्षसाञ्जघ्नुः नखदन्तशिलादिभिः ।
हस्त्यश्वरथपादातं राक्षसानां बलं हतम् ॥ ७ ॥
हनूमान् गिरिशृङ्गेण धूम्राक्षं अवधीद् रिपुम् ।
अकम्पनं प्रहस्तं च युध्यन्तं नील आवधीत् ॥ ८ ॥
इन्द्रजिच्छरबन्धाच्च विमुक्तौ रामलक्ष्मणौ ।
तार्क्ष्यसन्दर्शनाद्बाणैर्जघ्नतू राक्षसं बलम् ॥ ९ ॥
रामः शरैः जर्जरितं रावणं चाकरोद् रणे ।
रावणः कुम्भकर्णं च बोधयामास दुःखितः ॥ १० ॥
कुम्भकर्णः प्रबुद्धोऽथ पीत्वा घटसहस्रकम् ।
मद्यस्य महिषादीनां भक्षयित्वाऽऽह रावणम् ॥ ११ ॥
सीताया हरणं पापं कृतन्त्वं हि गुरुर्यतः ।
अतो गच्छामि युद्धाय रामं हन्मि सवानरम् ॥ १२ ॥
इत्युक्त्वा वानरान्सर्वान्कुम्भकर्णो ममर्द ह ।
गृहीतस्तेन सुग्रीवः कर्णनासं चकर्त सः ॥ १३ ॥
कर्णनासाविहीनोऽसौ भक्षयामास वानरान् ।
रामोऽथ कुम्भकर्णस्य बाहू चिच्छेद सायकैः ॥ १४ ॥
ततः पादौ ततश्छित्वा शिरो भूमौ व्यपातयत् ।
अथ कुम्भो निकुम्भश्च मकराक्षश्च राक्षसः ॥ १५ ॥
महोदरो महापार्श्वो मत्त उन्मत्तराक्षसः ।
प्रघसो भासकर्णश्च विरूपाक्षश्च संगरे ॥ १६ ॥
देवान्तको नरान्तश्च त्रिशिराश्चातिकायकः ।
रामेण लक्ष्मणेनैते वानरैः सविभीषणैः ॥ १७ ॥
युध्यमानास्तया त्वन्ये राक्षसा भुवि पातिताः ।
इन्द्रजिन्मायया युध्यन्रामादीन्स बबन्ध ह ॥ १८ ॥
वरदत्तैर्नागपाशैरोषध्या तौ विशल्यकौ ।
विशल्ययाऽव्रणौ कृत्वा मारुत्यानीतपर्वते ॥ १९ ॥
हनूमान् धारयामास तत्रागं यत्र संस्थितः ।
निकुम्भिलायां होमादि कुर्वन्तं तं हि लक्ष्मणः ॥ २० ॥
शरैः इन्द्रजितं वीरं युद्धे तं तु व्यपातयत् ।
रावणः शोकसन्तप्तः सीतां हन्तुं समुद्यतः ॥ २१ ॥
अविन्ध्यवारितो राजा रथस्थः सबलो ययौ ।
इन्द्रोक्तो मातली रामं रथस्थं प्रचकार तम् ॥ २२ ॥
रामरावणयोर्युद्धं रामरावणयोरिव ।
रावणो वानरान्हन्ति मारुत्याद्याश्च रावणम् ॥ २३ ॥
रामः शस्त्रैस्तमस्त्रैश्च ववर्ध जलदो यथा ।
तस्य ध्वजं स चिच्छेद रथमश्वांश्च सारथिम् ॥ २४ ॥
धनुर्बाहूञ्छिरांस्येव उत्तिष्ठन्ति शिरांसि हि ।
पैतामहेन हृदयं भित्वा रामेण रावणः ॥ २५ ॥
भूतले पातितः सर्वै राक्षसै रुरुदुः स्त्रियः ।
आश्वास्य तं च संस्कृत्य रामाज्ञप्तो विभीषणः ॥ २६ ॥
हनूमताऽऽनयद्रामः सीतां शुद्धां गृहीतवान् ।
रामो वह्नौ प्रविष्टां तां शुद्धामिन्द्रादिभिः स्तुतः ॥ २७ ॥
ब्रह्मणा दशरथेन त्वं विष्णू राक्षसमर्दनः ।
इन्द्रोऽर्थितोऽमृतवृष्ट्या जीवयामास वानरान् ॥ २८ ॥
रामेण पूजिता जग्मुः युद्धं दृष्ट्वा दिवं च ते ।
रामो विभीषणायादाल्लङ्कामभ्यर्च्य वानरान् ॥ २९ ॥
ससीतः पुष्पके स्थित्वा गतमार्गेण वै गतः ।
दर्शयन्वनदुर्गाणि सीतायै हृष्टमानसः ॥ ३० ॥
भरद्वाजं नमस्कृत्य नन्दिग्रामं समागतः ।
भरतेन नतश्चागाद् अयोध्यां तत्र संस्थितः ॥ ३१ ॥
वसिष्ठादीन्नमस्कृत्य कौसल्यां चैव कैकयीम् ।
सुमित्रां प्राप्तराज्योऽथ द्विजादीन्सोऽभ्यपूजयत् ॥ ३२ ॥
वासुदेवं स्वमात्मानं अश्वमेधैरथायजत् ।
सर्वदानानि स ददौ पालयामास सः प्रजाः ॥ ३३ ॥
पुत्रवद्धर्मकामादीन् दुष्टनिग्रहणे रतः ।
सर्वधर्मपरो लोकः सर्वशस्या च मेदिनी ॥ ३४ ॥
नाकालमरणञ्चासीद् रामे राज्यं प्रशासति ॥ ३५ ॥
इति आदिमहापुराणे आग्नेये रामायणे
युद्धकाण्डवर्णनं नाम दशमोऽध्यायः ॥ १० ॥
GO TOP
|