अग्निपुराणम्

अष्टमोऽध्यायः

श्रीरामावतारकथनम् -


नारद उवाच - रामः पम्पासरो गत्वा शोचन् स शर्वरीं गतः ।
हनूमताऽथ सुग्रीवं नीतो मित्रं चकार ह ॥ १ ॥
सप्त तालान्विनिर्भिद्य शरेणैकेन पश्यतः ।
पादेन दुन्दुभेः कायं चिक्षेप दशयोजनम् ॥ २ ॥
तद्‌रिपुं बालिनं हत्वा भ्रातरं वैरकारिणम् ।
किष्किन्धां कपिराज्यं च रुमां तारां समर्पयत् ॥ ३ ॥
ऋष्यमूके हरीशाय किष्किन्धेशोऽब्रवीदथ ।
सीतां त्वं प्राप्स्यसे यद्वत्तथा राम करोमि ते ॥ ४ ॥
तच्छ्रुत्वा माल्यवत्पृष्ठे चातुर्मास्यं चकार सः ।
किष्किन्धायां च सुग्रीवो यदा नाऽऽयाति दर्शनम् ॥ ५ ॥
तदाऽब्रवीत्तं रामोक्तं लक्ष्मणो व्रज राघवम् ।
न स सङ्कुचितः पन्था येन वाली हतो गतः ॥ ६ ॥
समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः ।
सुग्रीव आह संसक्तो गतं कालं न बुद्धवान् ॥ ७ ॥
इत्युक्त्वा स गतो रामं नत्वोवाच हरीश्वरः ॥ ८ ॥
सुग्रीव उवाच
आनीता वानराः सर्वे सीतायाश्च गवेषणे ।
त्वन्मताः प्रेषयिष्यामि विचिन्वन्तु च जानकीम् ॥ ९ ॥
पूर्वादौ मासपर्यंतं मासादूर्ध्वं निहन्मि तान् ।
इत्युक्ता वानराः पूर्व-पश्चिमोत्तरमार्गगाः ॥ १० ॥
जग्मू रामं ससुग्रीवमपश्यन्तस्तु जानकीम् ।
रामाङ्गुलीयं सङ्गृह्य हनूमान्वानरैः सह ॥ ११ ॥
दक्षिणे मार्गयामास सुप्रभाया गुहान्तिके ।
मासादूर्ध्वञ्च विन्ध्यस्था अपश्यन्तस्तु जानकीम् । ॥ १२ ॥
ऊचुर्वृथा मरिष्यामो जटायुर्धन्य एव सः ।
सीतार्थे योऽत्यजत्प्राणान्‌रावणेन हतो रणे ॥ १३ ॥
तच्छ्रुत्वा प्राह सम्पातिः विहाय कपिभक्षणम् ।
भ्राताऽसौ मे जटायुर्वै मयोड्डीनोऽर्कमण्डलम् ॥ १४ ॥
अर्कतापाद्‌रक्षितोऽगाद्‌दग्धपक्षोऽहमत्रगः ।
रामवार्ताश्रवात्पक्षौ जातौ भूयोऽथ जानकीम् ॥ १५ ॥
पश्याम्यशोकवनिकागतां लङ्कागतां किल ।
शतयोजनविस्तीर्णे लवणाब्धौ त्रिकूटके ॥ १६ ॥
ज्ञात्वा रामं ससुग्रीवं वानराः कथयन्तु वै ॥ १७ ॥
इति आदिमहापुराणे आग्नेये रामायाणे
किष्किन्धाकाण्डवर्णनं नाम अष्टमोऽध्यायः ॥ ८ ॥


GO TOP