अग्निपुराणम्

सप्तमोऽध्यायः

रामायणेऽरण्यकाण्डवर्णनम् -


नारद उवाच -
रामो वशिष्ठं मातॄश्च नत्वाऽत्रिं च प्रणम्य सः ।
अनसूयां च तत्पत्‍नीं शरभङ्गं सुतीक्ष्णकम् ॥ १ ॥
अगस्त्यभ्रातरं नत्वा अगस्त्यं तत्प्रसादतः ।
धनुःखड्गं च सम्प्राप्य दण्डकारण्यमागतः ॥ २ ॥
जनस्थाने पञ्चवट्यां स्थितो गोदावरीतटे ।
तत्र सूर्पणखाऽऽयाता भक्षितुं तान् भयङ्करी ॥ ३ ॥
रामं सुरूपं दृष्ट्वा सा कामिनी वाक्यमब्रवीत् ॥ ४ ॥
शूर्पणखोवाच
कस्त्वं कस्मात्समायातो भर्ता मे भव चार्थितः ।
एतौ च भक्षयिष्यामि इत्युक्त्वा तं समुद्यता ॥ ५ ॥
तस्या नासां च कर्णौ च रामोक्तो लक्ष्मणोऽच्छिनत्
रक्तं क्षरन्ती प्रययौ खरं भ्रातरमब्रवीत् ॥ ६ ॥
मरिष्यामि विनासाऽहं खर जीवामि वै तदा ।
रामस्य जाया सीताऽस्ति तस्यासील्लक्ष्मणोऽनुजः ॥ ७ ॥
तेषां यद्‌रुधिरं कोष्णं पाययिष्यसि मां यदि ।
खरस्तथेति तामुक्त्वा चतुर्दशसहस्रकैः ॥ ८ ॥
रक्षसां दूषणेनागादथ त्रिशिरसा सह ।
रामं रामोऽपि युयुधे शरैर्विव्याध राक्षसान् ॥ ९ ॥
हस्त्यश्वरथपादातं बलं निन्ये यमक्षयम् ।
त्रिशीर्षाणं खरं रौद्रं युध्यन्तं चैव दूषणम् ॥ १० ॥
ययौ सूर्पणखा लङ्कां रावणाग्रेऽपतद्‌भुवि ।
अब्रवीद्‌रावणं क्रुद्धा न त्वं राजा न रक्षकः ॥ ११ ॥
खरादिहन्तू रामस्य सीतां भार्यां हरस्व च ।
रामलक्ष्मणरक्तस्य पानाज्जीवामि नान्यथा ॥ १२ ॥
तथेत्याह च तच्छ्रुत्वा मारीचं प्राह वै व्रज ।
स्वर्णचित्रमृगो भूत्वा रामलक्ष्मणकर्षकः ॥ १३ ॥
सीताग्रे तां हरिष्यामि अन्यथा मरणं तव ।
मारीचो रावणं प्राह रामो मृत्युर्धनुर्धरः ॥ १४ ॥
रावणादपि मर्तव्यं मर्तव्यं राघवादपि ।
अवश्यं यदि मर्तव्यं वरं रामो न रावणः ॥ १५ ॥
इति मत्वा मृगो भूत्वा सीताग्रे व्यचरन्मुहुः ।
सीतया प्रेरितो रामः शरेणाथावधीच्च तम् ॥ १६ ॥
म्रियमाणो मृगः प्राह हा सीते लक्ष्मणेति च ।
सौमित्रिः सीतयोक्तोऽथ विरुद्धं राममागतः ॥ १७ ॥
रावणोप्यहरत्सीतां हत्वा गृध्रं जटायुषम् ।
जटायुषा स भिन्नाङ्गो अङ्केनादाय जानकीम् ॥ १८ ॥
गतो लङ्कामशोकाख्ये धारयामास चाब्रवीत् ॥ १९ ॥
रावण उवाच
भव भार्या ममाग्र्या त्वं राक्षस्यो रक्ष्यतामियम् ।
रामो हत्वाऽथ मारीचं दृष्ट्वा लक्ष्मणमब्रवीत् ॥ २० ॥
श्रीराम उवाच
मायामृगोऽसौ सौमित्रे यथा त्वमिह चागतः ।
तथा सीता हृता नूनं नापश्यत्स गतोऽथ ताम् ॥ २१ ॥
शुशोच विललापार्तो मां त्यक्त्वा क्व गताऽसि वै ।
लक्ष्मणाश्वासितो रामो मार्गयामास जानकीम् ॥ २२ ॥
दृष्ट्वा जटायुस्तं प्राह रावणो हृतवांश्च ताम् ।
मृतोऽथ संस्कृतस्तेन कबन्धं चावधीत्ततः ॥ २३ ॥
शापमुक्तोऽब्रवीद्‌रामं स त्वं सुग्रीवमाव्रज ॥ २४ ॥
इति आदिमहापुराणे आग्नेये रामायणे
आरण्यककाण्डवर्णनं नाम सप्तमोऽध्यायः ॥ ७ ॥


GO TOP