अग्निपुराणम्

षष्ठोऽध्यायः

रामायणेऽयोध्याकाण्डम् -


नारद उवाच -
भरतेऽथ गते रामः पित्रादीनभ्यपूजयत् ।
राजा दशरथो रामं उवाच शृणु राघव ॥ १ ॥
गुणानुरागाद्‌राज्ये त्वं प्रजाभिरभिषेचितः ।
मनसाऽहं प्रभाते ते यौवराज्यं ददामि ह ॥ २ ॥
रात्रौ त्वं सीतया सार्धं संयतः सुव्रतो भव ।
राज्ञश्च मन्त्रिणश्चाष्टौ सवसिष्ठास्तथा&ब्रुवन् ॥ ३ ॥
दृष्टिर्जयन्तो विजयः सिद्धार्थो राष्ट्रवर्धनः ।
अशोको धर्मपालश्च सुमन्त्रः सवसिष्ठकः ॥ ४ ॥
पित्रादिवचनं श्रुत्वा तथेत्युक्त्वा स राघवः ।
स्थितो देवार्चनं कृत्वा कौसल्यायै निवेद्य तत् ॥ ५ ॥
राजोवाच वसिष्ठादीन् रामराज्याभिषेचने ।
सम्भारान्संभवन्तु स्म इत्युक्त्वा कैकेयीं गतः ॥ ६ ॥
अयोध्यालङ्कृतिं दृष्ट्वा ज्ञात्वा रामाभिषेचनम् ।
भविष्यतीत्याचचक्षे कैकेयीं मन्थरा सखी ॥ ७ ॥
पादौ गृहीत्वा रामेण कर्षिता साऽपराधतः ।
तेन वैरेण सा रामं वनवासं च काङ्क्षति ॥ ८ ॥
कैकेयि त्वं समुत्तिष्ठ रामराज्याभिषेचनम् ।
मरणं तव पुत्रस्य मम ते नात्र संशयः ॥ ९ ॥
कुब्जयोक्तं च तच्छ्रुत्वा एकमाभरणं ददौ ।
उवाच मे यथा रामस्तथा मे भरतः सुतः ॥ १० ॥
उपायं तं न पश्यामि भरतो येन राज्यभाक् ।
कैकेयीमब्रवीत्क्रुद्धा हारं त्यक्त्वाथ मन्थरा ॥ ११ ॥
मन्थरोवाच
बालिशे रक्ष भरतमात्मानं मां च राघवात् ।
भविता राघवो राजा राघवस्य ततः सुताः ॥ १२ ॥
राजवंशस्तु कैकेयि भरतात्परिहास्यते ।
देवासुरे पुरा युद्धे शम्बरेण हताः सुराः ॥ १३ ॥
रात्रौ भर्ता गतस्तत्र रक्षितो विद्यया त्वया ।
वरद्वयं तदा प्रादाद्याचेदानीं नृपं च तत् ॥ १४ ॥
रामस्य च वनेवासं नव वर्षाणि पञ्च च ।
यौवराज्यं च भरते तदिदानीं प्रदास्यति ॥ १५ ॥
प्रोत्साहिता कुब्जया सा अनर्थे चार्थदर्शिनी ।
उवाच सदुपायो मे कथितः स कारयिष्यति ॥ १६ ॥
क्रोधागारं प्रविश्याथ पतिता भुवि मूर्छिता ।
द्विजादीनर्चयित्वाऽथ राजा दशरथस्तदा ॥ १७ ॥
ददर्श केकयीं रुष्टामुवाच कथमीदृशी ।
रोगार्ता किं भयोद्विग्ना किमिच्छसि करोमि तत् ॥ १८ ॥
येन रामेण हि विना न जीवामि मुहूर्तकम् ।
शपामि तेन कुर्यां वै वाञ्छितं तव सुन्दरि ॥ १९ ॥
सत्यं ब्रूहीति सोवाच नृपं मह्यं ददासि चेत् ।
वरद्वयं पूर्वदत्तं सत्यार्थं देहि मे नृप ॥ २० ॥
चतुर्दश समा रामो वने वसतु संयतः ।
सम्भारैरेभिरद्यैव भरतोऽत्राभिषेच्यताम् ॥ २१ ॥
विषं पीत्वा मरिष्यामि दास्यसि त्वं न चेन्नृप ।
तच्छ्रुत्वा मूर्छितो भूमौ वज्राहत इवापतत् ।
मुहूर्ताच्चेतनां प्राप्य कैकेयीमिदमब्रवीत् ॥ २२ ॥
दशरथ उवाच
किं कृतं तव रामेण मया वा पापनिश्चये ।
यन्मामेवं ब्रवीषि त्वं सर्वलोकाप्रियङ्करि ॥ २३ ॥
केवलं त्वत्प्रियं कृत्वा भविष्यामि सुनिन्दितः ।
न त्वं भार्या कालरात्रीर्भरतो नेदृशः सुतः ॥ २४ ॥
प्रशाधि विधवा राज्यं मृते मयि गते सुते ।
सत्यपाशनिबद्धस्तु राममाहूय चाब्रवीत् ॥ २५ ॥
कैकेय्या वञ्चितो राम राज्यं कुरु निगृह्य माम् ॥ २६ ॥
त्वया वने तु वस्तव्यं कैकेयीभरतो नृपः ॥ २७ ॥
पितरं चैव कैकेयीं नमस्कृत्य प्रदक्षिणम् ।
कृत्वा नत्वा च कौसल्यां समाश्वस्य सलक्ष्मणः ॥ २८ ॥
सीतया भार्यया सार्धं सरथः ससुमन्त्रकः ।
दत्वा दानानि विप्रेभ्यो दीनानाथेभ्य एव सः ॥ २९ ॥
मातृभिश्चैव पित्राद्यैः शोकार्तैर्निर्गतः पुरात् ।
उषित्वा तमसातीरे रात्रौ पौरान्विहाय च ॥ ३० ॥
प्रभाते तमपश्यन्तोऽयोध्यां ते पुनरागताः ।
रुदन्‌राजाऽपि कौसल्यागृहमागात्सुदुःखितः ॥ ३१ ॥
पौरा जना स्त्रियः सर्वा रुरुदू राजयोषितः ।
रामो रथस्थश्चीराढ्यः शृङ्गवेरपुरं ययौ ॥ ३२ ॥
गुहेन पूजितस्तत्र इङ्गुदीमूलमाश्रितः ।
लक्ष्मणः स गुहो रात्रौ चक्रतुर्जागरं हि तौ ॥ ३३ ॥
सुमन्त्रं सरथं त्यक्त्वा प्रातर्नावाऽथ जाह्नवीम् ।
रामलक्ष्मणसीताश्च तीर्त्वा तेऽगुः प्रयागकम् ॥ ३४ ॥
भरद्वाजं नमस्कृत्य चित्रकूटं गिरिं ययुः ।
वास्तुपूजां तत्र कृत्वा स्थिता मन्दाकिनीतटे ॥ ३५ ॥
सीतायै दर्शयामास चित्रकूटं च राघवः ।
नखैः विदारयन्तं तां काकं तच्चक्षुराक्षिपत् ॥ ३६ ॥
ऐषिकास्त्रेण शरणं प्राप्तो देवान्विहाय सः ।
रामे वनं गते राजा षष्ठेऽह्नि निशि चाब्रवीत् ॥ ३७ ॥
कौसल्यायै कथां पौर्वां यदज्ञानाद्धतः पुरा ।
कौमारे शरयूतीरे यज्ञदत्तकुमारकः ॥ ३८ ॥
शब्दभेदाच्च कुम्भेन शब्दं कुर्वंश्च तत्पिता ।
शशाप विलपन्मात्रा शोकं कृत्वा रुदन्मुहुः ॥ ३९ ॥
पुत्रं विना मरिष्यावस्त्वं च शोकान्मरिष्यसि ।
पुत्रं विना स्मरञ्शोकात्कौशल्ये मरणं मम ॥ ४० ॥
कथामुक्त्वाथ हा राममुक्त्वा राजा दिवङ्गतः ।
सुप्तं मत्त्वाथ कौसल्या सुप्ता शोकार्तमेव सा ॥ ४१ ॥
सुप्रभाते गायनाश्च सूतमागधवन्दिनः ।
प्रबोधका बोधयन्ति न च बुध्यत्यसौ नृपः ॥ ४२ ॥
कौसल्या तं मृतं ज्ञात्वा हा हताऽऽस्मीति चापतत् ।
नरा नार्योऽथ रुरुदुस्तैलद्रोण्यां निपाय तम् ॥ ४३ ॥
वसिष्ठेन तत्कालमानितो भरतः किल ।
सुमित्राद्यैः सशत्रुघ्नः शीघ्रं राजगृहात्पुरीम् ॥ ४४ ॥
दृष्ट्वा सशोकां कैकेयीं निन्दयामास दुःखितः ।
अकीर्तिः पातिता मूर्ध्नि कौसल्यां स प्रशंस्य च ॥ ४५ ॥
पितरन्तैलद्रोणिस्थं संस्कृत्य सरयूतटे ।
वशिष्ठाद्यैर्जनैरुक्तो राज्यं कुर्विति सोऽब्रवीत् ॥ ४६ ॥
व्रजामि राममानेतुं रामो राजा मतो बली ।
शृङ्गवेरं प्रयागं च भरद्वाजेन भोजितः ॥ ४७ ॥
नमस्कृत्य भरद्वाजं रामं लक्ष्मणमागतः ।
पिता स्वर्गं गतो राम अयोध्यायां नृपो भव ॥ ४८ ॥
अहं वनं प्रयास्यामि त्वदादेशप्रतीक्षकः ।
रामः श्रुत्वा जलं दत्वा गृहीत्वा पादुके व्रज ॥ ४९ ॥
राज्यायाहं न यास्यामि सत्याच्चीरजटाधरः ।
रामोक्तो भरतश्चागान्नन्दिग्रामे स्थितो बली ॥ ५० ॥
त्यक्त्वायोध्यां पादुके ते पूज्य राज्यमपालयत् ॥ ५१ ॥
इति आदिमहापुराणे आग्नेये रामायणे
अयोध्याकाण्डवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥


GO TOP