अग्निपुराणम्

पञ्चमोऽध्यायः

श्रीरामावतारकथावर्णनम् -


अग्निः उवाच -
रामायणमहं वक्ष्ये नारदेनोदितं पुरा ।
वाल्मीकये यथा तद्वत्पठितं भुक्तिमुक्तिदम् ॥ १ ॥
नारद उवाच -
विष्णुनाभ्यब्जजो ब्रह्मा मरीचिर्ब्रह्मणः सुतः ।
मरीचेः कश्यपस्तस्मात्सूर्यो वैवस्वतो मनुः ॥ २ ॥
ततस्तस्मात्तथेक्ष्वाकुस्तस्य वंशे ककुत्स्थकः ।
ककुत्स्थस्य रघुस्तस्मादजो दशरथस्ततः ॥ ३ ॥
रावणादेर्वधार्थाय चतुर्धाऽभूत्स्वयं हरिः ।
राज्ञो दशरथाद्‌रामः कौसल्यायां बभूव ह ॥ ४ ॥
कैकेय्यां भरतः पुत्रः सुमित्रायां च लक्ष्मणः ।
शत्रुघ्नश्च‌ ऋष्यशृङ्गेण तासु सन्दत्तपायसात् ॥ ५ ॥
प्राशिताद्यज्ञसंसिद्धाद् रामाद्याश्च समाः पितुः ।
यज्ञविघ्नविनाशाय विश्वामित्रार्थितो नृपः ॥ ६ ॥
रामं संप्रेषयामास लक्ष्मणं मुनिना सह ।
रामो गतोऽस्त्रशस्त्राणि शिक्षितस्ताडकान्तकृत् ॥ ७ ॥
मारीचं मानवास्त्रेण मोहितं दूरतोऽनयत् ।
सुबाहुं यज्ञहन्तारं सबलं चावधीत्बली ॥ ८ ॥
सिद्धाश्रमनिवासी च विश्वामित्रादिभिः सह ।
गतः क्रतुं मैथिलस्य द्रष्टुं चापं सहानुजः ॥ ९ ॥
शतानन्दनिमित्तेन विश्वामित्रप्रभावतः ।
रामाय कथितो राज्ञा समुनिः पूजितः क्रतौ ॥ १० ॥
धनुरापूरयामास लीलया स बभञ्ज तत् ।
वीर्यशुल्कां च जनकः सीतां कन्यां त्वयोनिजाम् ॥ ११ ॥
ददौ रामाय रामोऽपि पित्रादौ हि समागते ।
उपयेमे जानकीं तां उर्मिलां लक्ष्मणस्तथा ॥ १२ ॥
श्रुतकीर्तिर्माण्डवी च कुशध्वजसुते तथा ।
जनकस्यानुजस्यैते शत्रुघ्नभरतावुभौ ॥ १३ ॥
कन्ये द्वे उपयेमाते जनकेन सुपूजितः ।
रामोऽगात्स वशिष्ठाद्यैर्जामदग्न्यं विजित्य च ॥ १४ ॥
अयोध्यां भरतोऽप्यागात्सशत्रुघ्नो युधाजितः ॥ १५ ॥
इति आदिमहापुराणे रामायणे बालकाण्डे पञ्चमोऽध्यायः ॥ ५ ॥


GO TOP