अग्निपुराणम्
चतुर्थोऽध्यायः
वराहनारसिंहादीनामवताराणां वर्णनम् -
अग्निः उवाच -
अवतारं वराहस्य वक्ष्येऽहं पापनाशनम् ।
हिरण्याक्षोऽसुरेशोऽभूद्देवाञ्जित्वा दिवि स्थितः ॥ १ ॥
देवैर्गत्वा स्तुतो विष्णुर्यज्ञरूपो वराहकः ।
अभूत्तं दानवं हत्वा दैत्यैः सार्धं तु कण्टकम् ॥ २ ॥
धर्मदेवादिरक्षाकृत्ततः सोऽन्तर्दधे हरिः ।
हिरण्याक्षस्य वै भ्राता हिरण्यकशिपुस्तथा ॥ ३ ॥
जितदेवयज्ञभागः सर्वदेवाधिकारकृत् ।
नारसिंह वपुः कृत्वा तं जघान सुरैः सह ॥ ४ ॥
स्वपदस्थान्सुरांश्चक्रे नारसिंहः सुरैः स्तुतः ।
देवासुरे पुरा युद्धे बलिप्रभृतिभिः सुराः ॥ ५ ॥
जिताः स्वर्गात्परिभ्रष्टा हरिं वै शरणं गताः ।
सुराणामभयं दत्वा अदित्या कश्यपेन च ॥ ६ ॥
स्तुतोऽसौ वामनो भूत्वा ह्यदित्यां स क्रतुं ययौ ।
बलेः श्रीयजमानस्य, राजद्वारे गृणन्स्तुतिम् ॥ ७ ॥
वेदान्पठन्तं तं श्रुत्वा वामनं वरदोऽब्रवीत् ।
निवारितोऽपि शुक्रेण बलिर्ब्रूहि यदिच्छसि ॥ ८ ॥
तत्तेऽहं सम्प्रदास्यामि, वामनो बलिमब्रवीत् ।
पदत्रयं हि गुर्वर्थं देहि दास्ये तमब्रवीत् ॥ ९ ॥
तोये तु पतिते हस्ते वामनोऽभूदवामनः ।
भूर्लोकं स भुवर्लोकं स्वर्लोकं च पदत्रयम् ॥ १० ॥
चक्रे बलिं च सूतलं तच्छक्राय ददौ हरिः ।
शक्रो देवैर्हरिं स्तुत्वा भुवनेशः सुखी त्वभूत् ॥ ११ ॥
वक्ष्ये परशुरामस्य चावतारं शृणु द्विज ।
उद्धतान्क्षत्रियान्मत्वा भूभारहरणाय सः ॥ १२ ॥
अवतीर्णो हरिः शान्त्यै देवविप्रादिपालकः ।
जमदग्ने रेणुकायां भार्गवः शस्त्रपारगः ॥ १३ ॥
दत्तात्रेयप्रसादेन कार्तवीर्यो नृपस्त्वभृत् ।
सहस्रबाहुः सर्वोर्वीपतिः स मृगयां गतः ॥ १४ ॥
श्रान्तो निमन्त्रितोऽरण्ये मुनिना जमदग्निना ।
कामधेनुप्रभावेण भोजितः सबलो नृपः ॥ १५ ॥
अप्रार्थयत्कामधेनुं यदा स न ददौ तदा ।
हृतवानथ रामेण शिरश्छित्वा निपातितः ॥ १६ ॥
युद्धे परशुना राजा सधेनुः स्वाश्रममाययौ ।
कार्तवीर्यस्य पुत्रैस्तु जमदग्निर्निपातितः ॥ १७ ॥
रामे वनं गते वैरादथ रामः समागतः ।
पितरं निहतं दृष्ट्वा पितृनाशाभिमर्षितः ॥ १८ ॥
त्रिःसप्तकृत्वः पृथिवीं निःक्षत्रामकरोद्विभुः ।
कुरुक्षेत्रे पञ्च कुण्डान्कृत्वा सन्तर्प्य वै पितॄन् ॥ १९ ॥
काश्यपाय महीं दत्त्वा महेन्द्रे पर्वते स्थितः ।
कूर्मस्य च वराहस्य नृसिंहस्य च वामनम् ॥ २० ॥
अवतारं च रामस्य श्रुत्वा याति दिवं नरः ॥ २ ॥
इति आदिमहापुराणे आग्नेये वराहनृसिंहवामन
परशुरामावतार वर्णनं नाम चतुर्थोऽध्यायः ॥ ४ ॥
GO TOP
|