अग्निपुराणम्

तृतीयोऽध्यायः

कूर्मावतारवर्णनम् -


अग्निः उवाच -
वक्ष्ये कूर्मावतारं च संश्रुतं पापनाशनम् ।
पुरा देवासुरे युद्धे दैत्यैर्देवाः पराजिताः ॥ १ ॥
दुर्वाससश्च शापेन निश्रीकाश्चाभवंस्तदा ।
सुरा क्षीराब्धिगं विष्णुमूचुः पालय वै सुरान् ॥ २ ॥
ब्रह्मादिकान्हरिः प्राह सन्धिं कुर्वन्तु चासुरैः ।
क्षीराब्धिमथनार्थं हि अमृतार्थं श्रिये सुराः ॥ ३ ॥
अरयोऽपि हि सन्धेयाः सति कार्यार्थगौरवे ।
युष्मानमृतभाजोऽथ कारयामि न दानवान् ॥ ४ ॥
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा च वासुकिम् ।
क्षीराब्धिं मत्सहायेन निर्मथत ह्यतन्द्रिताः ॥ ५ ॥
विष्णूक्ताः संविदं कृत्वा दैत्यैः क्षीराब्धिमागताः ।
ततो मथितुमारब्धाः यतः पुच्छं ततः सुराः ॥ ६ ॥
फणिनिःश्वाससंग्लाना हरिणाऽऽप्यायिताः सुराः ।
मथ्यमानेऽर्णवे सोऽद्रिरनाधारो ह्यपोऽविशत् ॥ ७ ॥
कूर्मरूपं समास्थाय दध्रे विष्णुश्च मन्दरम् ।
क्षीराब्धेर्मथ्यमानाच्च विषं हालाहलं ह्यभूत् ॥ ८ ॥
हरेण धारितं कण्ठे नीलकण्ठस्ततोऽभवत् ।
ततोऽभूद्‌वारुणी देवी पारिजातश्च कौस्तुभः ॥ ९ ॥
गावश्चाप्सरसो दिव्या लक्ष्मीर्देवी हरिं गता ।
पश्यन्तः सर्वदेवास्तां स्तुवन्तः सश्रियोऽभवन् ॥ १० ॥
ततो धन्वन्तरिर्विष्णुरायुर्वेदप्रवर्तकः ।
बिभ्रत्कमण्डलुम्पूर्णममृतेन समुत्थितः ॥ ११ ॥
अमृतं तत्करांद्‌दैत्याः सुरेभ्योऽर्धं प्रदाय च ।
गृहीत्वा जग्मुर्जम्भाद्या विष्णुः स्त्रीरूपधृक्ततः ॥ १२ ॥
तां दृष्ट्वा रूपसम्पन्नां दैत्याः प्रोचुर्विमोहिताः ।
भव भार्याऽमृतं गृह्य पाययास्मान्वरानने ॥ १३ ॥
तथेत्युक्त्वा हरिस्तेभ्यो गृहीत्वाऽपाययत्सुरान् ।
चन्द्ररूपधरो राहुः पिबंश्चार्केन्दुनाऽर्पितः ॥ १४ ॥
हरिणाऽप्यरिणा छिन्नं स बाहु तच्छिरः पृथक् ।
कृपयाऽमरतां नीतं वरदं हरिमब्रवीत् ॥१५ ॥
राहुर्मत्तस्तु चन्द्रार्कौ प्राप्स्येते ग्रहणं ग्रहः ।
तस्मिन् काले च यद्दानं दास्यन्ते स्यात्तदक्षयम् ॥ १६ ॥
तथेत्याहाथ तं विष्णुस्ततः सर्वैः सहामरैः ।
स्त्रीरूपं सम्परित्यज्य हरेणोक्तं प्रदर्शय ॥ १७ ॥
दर्शयामास रुद्राय स्त्रीरूपं भगवान् हरिः ।
मायया मोहितः शम्भुर्गौरीं त्यक्त्वा स्त्रियं गतः ॥ १८ ॥
नग्न उन्मत्तरूपोऽभूत्स्त्रियः केशानधारयत् ।
अगाद्विमुच्य केशान् स्त्री अन्वधावच्च तां गताम् ॥ १९ ॥
स्खलितं तस्य वीर्यं कौ यत्र यत्र हरस्य हि ।
तत्र तत्राभवत्क्षेत्रं लिङ्गानां कनकस्य च ॥ २० ॥
मायेयमिति तां ज्ञात्वा स्वरूपस्थोऽभवद्धरः ।
शिवमाह हरी रुद्र जिता माया त्वया हि मे ॥ २१ ॥
न जेतुमेनां शक्तो मे त्वदृतेऽन्यः पुमान्भुवि ।
अप्राप्ताश्चामृतं दैत्या देवैर्युद्धे निंपातिताः ॥ २२ ॥
त्रिदिवस्थाः सुराश्चाऽऽसन्दैत्याः पातालवासिनः ।
यो नरः यः पठते देवविजय त्रिदिवं व्रजेत् ॥ २२ ॥
इति आदिमहापुराणे आग्नेये विद्यासारे कूर्मावतारवर्णनं तृतीयोऽध्यायः ॥ ३ ॥


GO TOP