अग्निपुराणम्

द्वितीयोऽध्यायः

मत्स्यावतारवर्णनम् -


वशिष्ठ उवाच -
मत्स्यादिरूपिणं विष्णुं ब्रूहि सर्गादिकारणम् ।
पुराणं ब्रह्म चाऽऽग्नेयं यथा विष्णोः पुरा श्रुतम् ॥ १ ॥
अग्निः उवाच -
मत्स्यावतारं वक्ष्येऽहं वसिष्ठ शृणु वै हरेः ।
अवतारक्रिया दुष्टनष्ट्यै सत्पालनाय हि ॥ २ ॥
आसीदतीतकल्पान्ते ब्राह्मो नैमित्तिको लयः ।
समुद्रोपप्लुतास्तत्र लोका भूरादिका मुने ॥ ३ ॥
मनुर्वैवस्वतस्तेपे तपो वै भुक्तिमुक्तये ।
एकदा कृतमालायां कुर्वतो जलतर्पणम् ॥ ४ ॥
तस्याञ्जल्युदके मत्स्यः स्वल्प एकोऽभ्यपद्यत ।
क्षेप्तुकामं जले प्राह न मां क्षिप नरोत्तम ॥ ५ ॥
ग्राहादिभ्यो भयं मेऽत्र तच्छ्रुत्वा कलशेऽक्षिपत् ।
स तु वृद्धः पुनर्मत्स्यः प्राह तं देहि मे बृहत् ॥ ६ ॥
स्थानमेतद्वचः श्रुत्वा राजाऽथोदञ्चनेऽक्षिपत् ।
तत्र वृद्धोऽब्रवीद्‍भूपं पृथु देहि पदं मनो ॥ ७ ॥
सरोवरे पुनः क्षिप्तो ववृधे तत्प्रमाणवान् ।
ऊचे देहि बृहत्स्थानं प्राक्षिपच्चाम्बुधौ ततः ॥ ८ ॥
लक्षयोजनविस्तीर्णः क्षणमात्रेण सोऽभवत् ।
मत्स्यं तमद्‌भुतं दृष्ट्वा विस्मितः प्राब्रवीन्मनुः ॥ ९ ॥
को भवान्ननु वै विष्णुस्त्वं नारायण नमोऽस्तुते ।
मायया मोहयसि मां किमर्थं त्वं जनार्दन ॥ १० ॥
मनुनोक्तोऽब्रवीन्मत्स्यो मनुं वै पालने रतः ।
अवतीर्णो भवायास्य जगतो दुष्टनष्टये ॥ ११ ॥
सप्तमेऽथ दिने ह्यब्धिः प्लावयिष्यति वै जगत् ।
उपस्थितायां नावि त्वं बीजादीनि विधाय च ॥ १२ ॥
सप्तर्षिभिः परिवृतो निशां ब्राह्मीं चरिष्यसि ।
उपस्थितस्य मे शृङ्गे निबध्नीहि महाहिना ॥ १३ ॥
इत्युक्त्वाऽन्तर्दधे मत्स्यो मनुः कालप्रतीक्षकः ।
स्थितः समुद्र उद्वेले नावमारुरुहे तदा ॥ १४ ॥
एकशृङ्गधरो मत्स्यो हैमो नियुतयोजनः ।
नावं बध्वा तस्य शृङ्गे मत्स्याख्यं च पुराणकम् ॥ १५ ॥
शुश्राव मत्स्यात्पापघ्नं संस्तुवन्स्तुतिभिश्च तम् ।
ब्रह्मवेदप्रहर्तारं हयग्रीवं च दानवम् ॥ १६ ॥
अवधीद्‌वेदमन्त्राद्यान्पालयामास केशवः ।
प्राप्ते कल्पेऽथ वाराहे कूर्मरूपोऽभवद्धरिः ॥ १७ ॥
इति आदिमहापुराणे आग्नेयेऽग्निप्रोक्ते विद्यासारे
मत्स्यावतारवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥


GO TOP