अग्निपुराणम्

प्रथमोऽध्यायः

ग्रन्थप्रस्तावना -


श्रियं सरस्वतीं गौरीं गणेशं स्कन्दमीश्वरम् ।
ब्रह्माणं वह्निमिन्द्रादीन्वासुदेवं नमाम्यहम् ॥ १ ॥
नैमिषे हरिमीजाना ऋषयः शौनकादयः ।
तीर्थयात्राप्रसङ्गेन स्वागतं सूतमब्रुवन् ॥ २ ॥
ऋषय ऊचुः -
सूत त्वं पूजितोऽस्माभिः सारात्सारं वदस्व नः ।
येन विज्ञानमात्रेण सर्वज्ञत्वं प्रजायते ॥ ३ ॥
सूत उवाच -
सारात्सारो हि भगवान्विष्णुः सर्गादिकृद्विभुः ।
ब्रह्माहमस्मि तं ज्ञात्वा सर्वज्ञत्वं प्रजायते ॥ ४ ॥
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ।
द्वे विद्ये वेदितव्ये हि इति चाऽऽथर्वणी श्रुतिः ॥ ५ ॥
अहं शुकश्च पैलाद्या गत्वा बदरिकाश्रमम् ।
व्यासं नत्वा पृष्टवन्तः सोऽस्मान्सारमथाब्रवीत् ॥ ६ ॥
व्यास उवाच -
शुकाद्यैः शृणु सूत त्वं वशिष्ठो मां यथाब्रवीत् ।
ब्रह्म सारं हि पृच्छन्तं मुनिभिश्च परात्परम् ॥ ७ ॥
वसिष्ठ उवाच -
द्विविधं ब्रह्म वक्ष्यामि शृणु व्यासाखिलानुगम् ।
यथाऽग्निर्मां पुरा प्राह मुनिभिर्दैवतैः सह ॥ ८ ॥
पुराणं परमाग्नेयं ब्रह्मविद्याऽक्षरं परम् ।
ऋग्वेदाद्यपरं ब्रह्म सर्वदेवसुखं परम् ॥ ९ ॥
अग्निनोक्तं पुराणं यदाग्नेयं ब्रह्मसम्मितम् ।
भुक्तिमुक्तिप्रदं दिव्यं पठतां शृण्वतां नृणाम् ॥ १० ॥
कालाग्निरूपिणं विष्णुं ज्योतिर्ब्रह्म परात्परम् ।
मुनिभिः पृष्टवान्देवं पूजितं ज्ञानकर्मभिः ॥ ११ ॥
वसिष्ठ उवाच -
संसारसागरोत्तार नावं ब्रह्मेश्वरं वद ।
विद्यासारं यद्विदित्वा सर्वज्ञो जायते नरः ॥ १२ ॥
अग्निः उवाच -
विष्णुः कालाग्निरुद्रोऽहं विद्यासारं वदामि ते ।
ब्रह्माऽग्नेयं पुराणं यत्सर्वं सर्वस्य कारणम् ॥ १३ ॥
सर्गस्य प्रतिसर्गस्य वंशमन्वन्तरस्य च ।
वंशानुचरितादेश्च मत्स्यकूर्मादिरूपधृक् ॥ १४ ॥
द्वे विद्ये भगवान् विष्णुः परा चैवापरा द्विज ।
ऋग्यजुःसामाथर्वाख्या वेदा अङ्गानि च षड्द्विज ॥ १५ ॥
शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषां गतिः ।
छन्दोभिधानं मीमांसा धर्मशास्त्रं पुराणकम् ॥ १६ ॥
न्यायवैद्यकगान्धर्वं धनुर्वेदोऽर्थशास्त्रकम् ।
अपरेयं परा विद्या यया ब्रह्माभिगम्यते ॥ १७ ॥
यत्तददृश्यमग्राह्यमगोत्रचरणं ध्रुवम् ।
विष्णुनोक्तं यथा मह्यं देवेभ्यो ब्रह्मणा पुरा ।
तथा ते कथयिष्यामि हेतुं मत्स्यादिरूपिणम् ॥ १८ ॥
इति आदिमहापुराणे आग्नेये व्यासप्रोक्ते नाम प्रथमः प्रश्नाध्यायः ॥ १ ॥


GO TOP